Contents
Direct Inquiry
Home
Library
Find
Gurudev
Shelf
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 19
‹
Previous
Contents
Next
›
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
जीवबीजं परं ब्रह्म सर्वत्र खमिव
स्थित
म् ।
तेन जीवोदरजगत्यपि जीवोऽस्त्यनेकधा
2
Keep
चिद्धनैकघनात्मत्वाज्जीवान्तर्जीवजात
यः ।
कदलीदलवत्सन्ति कीटा इव धरोदरे
3
Keep
यो यो नाम यथा ग्रीष्मे
कल्पस्वेदाद्भवेत्कृ
मिः ।
यद्यद्दृश्यं शुद्धचित्खं तज्जीवो भवति स्वतः
4
Keep
यथा यथा यतन्ते ते जीवकाः
स्वात्मसिद्ध
ये ।
तथा तथा भवन्त्याशु विचित्रोपासनक्रमैः
5
Keep
देवान्देवयजो यान्ति यक्षा यक्षान्त्व्रजन्ति
हि ।
ब्रह्म ब्रह्मयजो यान्ति यदतुच्छं तदाश्रयेत्
6
Keep
स मुक्तो भृगुपुत्रो हि
निर्मलत्वात्स्वसंवि
दः ।
बद्धः प्रथमदृष्टेन दृश्येनाशु स्वभावतः
7
Keep
भुवि जाता परिम्लाना बाला यत्प्रथमं
पु
रः ।
संवित्प्राप्नोति तद्रूपा भवत्यन्या न काचन
8
Keep
जाग्रत्स्वप्नदशाभेदं
भगवन्वक्तुमर्ह
सि ।
कथं च जाग्रज्जाग्रत्स्यात्स्वप्नो जाग्रद्भमः कथम्
9
Keep
स्थिरप्रत्यययुक्तं यत्तज्जाग्रदिति
कथ्य
ते ।
अस्थिरप्रत्ययं यत्स्यात्तत्स्वप्नः समुदाहृतः
10
Keep
जाग्रत्त्वे क्षणदृष्टः स्यात्स्वप्नः कालान्तरे
स्थि
तः ।
तज्जाग्रत्स्वप्नतामेति स्वप्नो जाग्रत्त्वमृच्छति
11
Keep
जाग्रत्स्वप्नदशाभेदो न स्थिरास्थिरते
वि
ना ।
समः सदैव सर्वत्र समस्तोऽनुभवोऽनयोः
12
Keep
स्वप्नोऽपि स्वप्नसमये
स्थैर्याज्जाग्रत्त्वमृच्छ
ति ।
अस्थैर्याज्जाग्रदेवास्ते स्वप्नस्तादृशबोधतः
13
Keep
स्वप्नोऽपि जाग्रद्बुद्ध्यंशो
जाग्रत्त्वमनुगच्छ
ति ।
स्वप्नता स्वप्नबुद्ध्या तु यथासंवेदनं स्थितम्
14
Keep
यत्तु यावत्स्थिरं बुद्धं
तत्तावज्जाग्रदुच्य
ते ।
क्षणभङ्गात्तु तत्स्वप्नो यथा भवति तच्छ्रुणु
15
Keep
जीवधातुः शरीरेऽन्तर्विद्यते येन
जीव्य
ते ।
तेजो वीर्यं जीवधातुरित्याद्यभिधमङ्ग यत्
16
Keep
व्यवहारी यदा कायो मनसा कर्मणा
गि
रा ।
भवेत्तदा मरुन्नुन्नो जीवधातुः प्रसर्पति
17
Keep
तस्मिन्प्रसर्पत्यङ्गेषु सर्वा संविदुदेति
हि ।
दृष्टत्वात्प्रैति चित्ताख्यमन्तर्लीनजगद्भ्रमम्
18
Keep
ईक्षणादिषु रन्ध्रेषु प्रसरन्ती
बहिर्मय
म् ।
नानाकारविकाराढ्यं रूपमात्मनि पश्यति
19
Keep
स्थिरत्वात्तत्तथैवाथ
जाग्रदित्यवगम्य
ते ।
जाग्रत्क्रम इति प्रोक्तः सुषुप्तादिक्रमं श्रृणु
20
Keep
मनसा कर्मणा वाचा यदा क्षुभ्यति नो
व
पुः ।
शान्तात्मा तिष्ठति स्वस्थो जीवधातुस्तदा त्वसौ
21
Keep
समतामागतैर्वातैः क्षोभ्यते न
हृदम्ब
रे ।
निर्वातसदने दीपो यथाऽऽलोकैककारकः
22
Keep
ततः सरति नाङ्गेषु संवित्क्षुभ्यति तेन
नो ।
न चेक्षणादीन्यायाति रन्ध्राण्यायाति नो बहिः
23
Keep
जीवोऽन्तरेव स्फुरति तैलसंविद्यथा
ति
ले ।
शीतसंविद्धिम इव स्नेहसंविद्यथा घृते
24
Keep
जीवाकारा कला काचिच्चितिः
स्वच्छतयात्म
नि ।
दशामायाति सौषुप्तिं सौम्यवातां विचेतनाम्
25
Keep
ज्ञात्वा वैचित्युपरते साम्यं
व्यवहरन्न
पि ।
जाग्रत्स्वप्नसुषुप्तेषु संबुद्धस्तुर्यवान्स्मृतः
26
Keep
सुषुप्ते सौम्यतां यातैः प्राणैः संचाल्यते
य
दा ।
स जीवधातुः सा संवित्ततश्चित्ततयोदिता
27
Keep
स्वान्तःसंस्थजगज्जालं भावाभावैः
क्रमभ्र
मैः ।
पश्यति स्वान्तरेवाशु स्फारं बीज इव द्रुमम्
28
Keep
जीवधातुर्यदा वातैः किंचित्संक्षुभ्यते
भृश
म् ।
ततोऽस्म्यहं सुप्त इति पश्यत्यात्मनि खे गतिम्
29
Keep
यदाम्भसा प्लाव्यतेऽसौ तदा
वार्यादिसंभ्रम
म् ।
अन्तरेवानुभवति स्वामोदं कुसुमं यथा
31
Keep
यदा पित्तादिनाक्रान्तस्तदा
ग्रीष्मादिसंभ्रम
म् ।
अन्तरेवामुभवति स्फारं
बहिरिवाखिल
म् । ।
रक्तापूर्णो
रक्तवर्णान्देशान्कालान्बहिर्य
था ।
पश्यत्यनुभवात्मत्वात्तत्रैव च निमज्जति
32
Keep
सेवते वासनां यां तां सोऽन्तः पश्यति
निद्रि
तः ।
पवनक्षोभितो रन्ध्रैर्बहिरक्षादिभिर्यथा
33
Keep
अनाक्रान्तेन्द्रियच्छिद्रो यतः क्षुब्धोऽन्तरेव
सः ।
संविदानुभवत्याशु स स्वप्न इति कथ्यते
34
Keep
समाक्रान्तेन्द्रियच्छिद्रो यः क्षुब्धो वायुना
य
दा ।
परिपश्यति तज्जाग्रदित्याहुर्मुनिसत्तमाः
35
Keep
इति विदितवता त्वयाधुनान्तः
प्रथितमहामतिनेह
सत्यताख्
या ।
असति जगति नैव भावनीया
मृतिहतिसंहृतिदोषभावनी या
Previous
←
Sarga 18
Next
Sarga 20
→