Contents
Direct Inquiry
Home
Library
Find
Gurudev
Shelf
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 21
‹
Previous
Contents
Next
›
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
भगवन्सर्वधर्मज्ञ संशयो यो
महानय
म् ।
हृदि व्यावर्तते लोलः कल्लोल इव सागरे
2
Keep
दिक्कालाद्यनवच्छिन्ने तते नित्ये
निराम
ये ।
म्लाना संविन्मनोनाम्नी कुतः केयमुपस्थिता
3
Keep
यस्मादन्यन्न नामास्ति न भूतं न
भविष्य
ति ।
कुतः कीदृक्कथं तत्र कलङ्कस्तस्य विद्यते
4
Keep
साधु राम त्वया प्रोक्तं जाता ते
मोक्षभागि
नी ।
मतिरुत्तमनिष्यन्दा नन्दनस्येव मञ्जरी
5
Keep
पूर्वापरविचारार्थतत्परेयं
मतिस्त
व ।
संप्राप्स्यसि पदं प्रोच्चैर्यत्प्राप्तं शंकरादिभिः
6
Keep
प्रश्नस्यास्य तु हे राम न कालस्तव
संप्र
ति ।
सिद्धान्तः कथ्यते यत्र तत्रायं प्रश्न उच्यते
7
Keep
सिद्धान्तकाले भवता प्रष्टव्योऽहमिदं
पर
म् ।
करामलकवत्तेन सिद्धान्तस्ते भविष्यति
8
Keep
सिद्धान्तकाले प्रश्नोक्तिरेषा तव
विराज
ते ।
प्रावृषीव हि केकोक्तिर्युक्ता शरदि हंसगीः
9
Keep
सहजो नीलिमा व्योम्नि शोभते प्रावृषः
क्ष
ये ।
प्रावृषि त्वतनूदग्रपयोदपटलोत्थितः
10
Keep
अयं प्रकृत आरब्धो मनोनिर्णय
उत्त
मः ।
यद्वशाज्जनताजन्म तदाकर्णय सुव्रत
11
Keep
एवं प्रकृतिरूपेयं
मनोमननधर्मि
णी ।
कर्मेति राम निर्णीतं सर्वैरेव मुमुक्षुभिः
12
Keep
शृणु दर्शनभेदेन
तन्नामाभिमताकृति
म् ।
वाग्मिनां वदतां यातं चित्राभिः शास्त्रदृष्टिभिः
13
Keep
यं यं भावमुपादत्ते मनो
मननचञ्चल
म् ।
तत्तामेति घनामोदमन्तःस्थः पवनो यथा
14
Keep
ततस्तमेव निर्णीय तमेव च
विकल्पय
न् ।
अन्तःस्थया रञ्जनया रञ्जयन्स्वामहंकृतिम्
15
Keep
तन्निश्चयमुपादाय तत्रैव
रसमृच्छ
ति ।
यन्मयत्वं शरीरे तु ततो बुद्धीन्द्रियेषु च
16
Keep
यन्मयं हि मनो राम देहस्तदनु
तद्व
शः ।
तत्तामायाति गन्धान्तः पवनो गन्धतामिव
17
Keep
बुद्धीन्द्रियेषु वल्गत्सु
कर्मेन्द्रियगणस्त
तः ।
स्फुरति स्वत एवोर्वी रजोलोल इवानिले
18
Keep
कर्मेन्द्रियगणे क्षुब्धे स्वशक्तिं
प्रणयत्यल
म् ।
कर्म निष्पद्यते स्फारं पांसुजालमिवानिले
19
Keep
एवं हि मनसः कर्म कर्मबीजं मनः
स्मृत
म् ।
अभिन्नैव तयोः सत्ता यथा कुसुमगन्धयोः
20
Keep
यादृशं भावमादत्ते
दृढाभ्यासवशान्म
नः ।
तथा स्पन्दाख्यकर्माख्यप्रथाशाखा विमुञ्चति
21
Keep
तथा क्रियां तत्फलतां निष्पादयति
चादरा
त् ।
ततस्तमेव चास्वादमनुभूयाशु बध्यते
22
Keep
यं यं भावमुपादत्ते तं तं वस्त्विति
विन्द
ति ।
तत्तच्छ्रेयोऽन्यन्नास्तीति निश्चयोऽस्य च जायते
23
Keep
धर्मार्थकाममोक्षार्थं प्रयतन्ते सदैव
हि ।
मनांसि दृढभिन्नानि प्रतिपत्त्या स्वयैव च
24
Keep
मनो वै कापिलानां तु
प्रतिपत्तिनिजामल
म् ।
उररीकृत्य निर्णीय कल्पिताः शास्त्रदृष्टयः
25
Keep
मोक्षे तु नान्यथा प्राप्तिरिति
भावितचेत
सः ।
स्वां दृष्टिं प्रतिबिम्बन्ति स्थिताः स्वनियमभ्रमैः
26
Keep
वेदान्तवादिनो बुद्ध्या ब्रह्मेदमिति
रूढ
या ।
मुक्तिः शमदमोपेता निर्णीय परिकल्पिता
27
Keep
मुक्तौ तु नान्यथा प्राप्तिरिति
भावितचेत
सः ।
स्वां दृष्टिं प्रविवृण्वन्ति स्वैरेव नियमभ्रमैः
28
Keep
विज्ञानवादिनो बुद्ध्या
स्फुरत्स्वभ्रमपूर
या ।
मुक्तिः शमदमोपेता निर्णीय परिकल्पिता
29
Keep
मुक्तौ तु नान्यथा प्राप्तिरिति
भावितचेत
सः ।
स्वां दृष्टिं प्रविवृण्वन्ति स्वैरेव नियमभ्रमैः
30
Keep
आर्हतादिभिरन्यैश्च
स्वयाभिमतयेच्छ
या ।
चित्राश्चित्रसमाचारैः कल्पिताः शास्त्रदृष्टयः
31
Keep
निर्निमित्तोत्थसौम्याम्बुबुद्बुदौघैरिवोत्थि
तैः ।
स्वनिश्चितैरिति प्रौढा नानाकारा हि रीतयः
32
Keep
सर्वासामेव चैतासां
रीतीनामेवमाक
रः ।
मनो नाम महाबाहो मणीनामिव सागरः
33
Keep
न निम्बेक्षू कटुस्वादू शीतोष्णौ
नेन्दुपाव
कौ ।
यद्यथा परमाभ्यस्तमुपलब्धं तथैव तत्
34
Keep
यस्त्वकृत्रिम आनन्दस्तदर्थं
प्रयतैर्न
रैः ।
मनस्तन्मयतां नेयं येनासौ समवाप्यते
35
Keep
दृश्यं संपरिडिम्भं स्वं तुच्छं
परिहरन्म
नः ।
तज्जाभ्यां सुखदुःखाभ्यां नावश्यं परिकृष्यते
36
Keep
अपवित्रमसद्रूपं मोहनं
भयकारण
म् ।
दृश्यमाभासमाभोगि बन्धमाभावयानघ
37
Keep
मायैषा सा ह्यविद्यैषा भावनैषा
भयाव
हा । ।
संविदस्तन्मयत्वं यत्तत्कर्मेति विदुर्बुधाः
38
Keep
।
दृष्ट्वा दृश्यैकतानत्वं विद्धि त्वं मोहनं
म
नः ।
प्रमार्जयेव तन्मिथ्या महामलिनकर्दमम्
39
Keep
दृश्यतन्मयता यैषा
स्वभावस्थानुभूय
ते ।
संसारमदिरा सेयमविद्येत्युच्यते बुधैः
40
Keep
अनयोपहतो लोकः कल्याणं
नाधिगच्छ
ति ।
भास्वरं तापनालोकं पटलान्धेक्षणो यथा
41
Keep
स्वयमुत्पद्यते सा च
संकल्पाद्व्योमवृक्षव
त् ।
असंकल्पनमात्रेण भावनायां महामते
42
Keep
क्षीणायां स्वरसादेव विमर्शेन
विलासि
ना ।
असंसङ्गः पदार्थेषु सर्वेषु स्थिरतां गतः
43
Keep
सत्यदृष्टौ प्रपन्नायामसत्ये
क्षयमाग
ते ।
निर्विकल्पचिदच्छात्मा स आत्मा समवाप्यते
44
Keep
न सत्ता यस्य नासत्ता न सुखं नापि
दुःखि
ता ।
केवलं केवलीभावो यस्यान्तरुपलभ्यते
45
Keep
अभव्यया भावनया न
चित्तेन्द्रियदृष्टि
भिः ।
आत्मनोऽनन्यभूताभिरपि यः परिवर्जितः
46
Keep
वासनाभिरनन्ताभिर्व्योमेव
घनराजि
भिः ।
संदिग्धायां यथा रज्ज्वां सर्पतत्त्वं तथैव हि
47
Keep
चिदाकाशात्मना बन्धस्त्वबन्धेनैव
कल्पि
तः ।
कल्पितं कल्पितं वस्तु प्रतिकल्पनयान्यथा
48
Keep
तदेवान्यत्वमादत्ते
खमहोरात्रयोरि
व ।
यदतुच्छमनायासमनुपाधि गतभ्रमम्
49
Keep
तत्तत्कल्पनयातीतं तत्सुखायैव
कल्प
ते ।
शून्य एव कुसूले तु सिंहोऽस्तीति भयं यथा
50
Keep
शून्य एव शरीरेऽन्तर्बद्धोऽस्मीति भयं
त
था ।
शून्य एव कुसूले तु प्रेक्ष्य सिंहो न लभ्यते
51
Keep
तथा संसारबन्धार्थः प्रेक्षितोऽसौ न
लभ्य
ते ।
इदं जगदयं चाहमिति संभ्रान्तमुत्थितम्
52
Keep
बालानां मध्यमे काले छाया वैतालिकी
य
था ।
कल्पनावशतो जन्तोर्भावाभावशुभाशुभाः
53
Keep
क्षणादसत्तामायान्ति सत्तामपि पुनः
क्षणा
त् ।
मातैव गृहिणीभावगृहीता कण्ठलम्बिनी
54
Keep
करोति गृहिणीकार्यं सुरतानन्ददा
स
ती ।
कान्तैव मातृभावेन गृहीता कण्ठलम्बिनी
55
Keep
नूनं विस्मारयत्येव मन्मथं
मातृभावना
त् ।
भावानुसारिफलदं पदार्थौघमवेक्ष्य च
56
Keep
न ज्ञेनेह पदार्थेषु
रूपमेकमुदीर्य
ते ।
दृढभावनया चेतो यद्यथा भावयत्यलम्
57
Keep
तत्तत्फलं तदाकारं तावत्कालं
प्रपश्य
ति ।
न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा
58
Keep
यद्यथा येन निर्णीतं तत्तथा तेन
लक्ष्य
ते ।
भाविताकाशमातङ्गं व्योमहस्तितया मनः
59
Keep
व्योमकाननमातङ्गीं
व्योमस्थामनुधाव
ति ।
तस्मात्संकल्पमेव त्वं सर्वभावमयात्मकम्
60
Keep
त्यज राम सुषुप्तस्थः स्वात्मनैव
भवात्म
नः ।
मणिर्हि प्रतिबिम्बानां प्रतिषेधक्रियां प्रति
61
Keep
न शक्तो जडभावेन नतु राम
भवादृ
शः ।
यदात्मनि जगद्राम तवेह प्रतिबिम्बति
62
Keep
तदवस्त्विति निर्णीय मा तेनागच्छ
रञ्जन
म् ।
तदेव सत्यमिति वाप्यभिन्नं परमात्मनः
63
Keep
मत्वान्तस्त्वमनाद्यन्तं
भावयात्मानमात्म
ना ।
चेतसि प्रतिबिम्बन्ति ये भावास्तव
राघ
व ।
रञ्जयन्त्वन्यसक्तत्वान्मा ते त्वां स्फटिकं यथा
64
Keep
स्फटिकममननं यथा विशन्ति
प्रकटतया न च रञ्जना
विचित्
रा ।
इह हि विमननं तथा विशन्तु
प्रकटतया भुवनैषणा भवन्तम्
Previous
←
Sarga 20
Next
Sarga 22
→