Contents
Direct Inquiry
Home
Library
Find
Gurudev
Shelf
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 23
‹
Previous
Contents
Next
›
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
य उत्तमपदालम्बी
चक्रभ्रमवदास्थि
तः ।
शरीरनगरीराज्यं कुर्वन्नपि न लिप्यते
2
Keep
तस्येयं भोगमोक्षार्थं
तज्ज्ञस्योपवनोप
मा ।
सुखायैव न दुःखाय स्वशरीरमहापुरी
3
Keep
नगरीत्वं शरीरस्य कथं नाम
महामु
ने ।
एतां चाधिवसन्योगी कथं राजसुखैकभाक्
4
Keep
रम्येयं देहनगरी राम
सर्वगुणान्वि
ता ।
ज्ञस्यानन्तविलासाढ्या स्वालोकार्कप्रकाशिता
5
Keep
नेत्रवातायनोद्द्योतप्रकाशभुवनान्त
रा ।
करप्रतोलीविस्तारप्राप्तपादोपजाङ्गला
6
Keep
रोमराजीलतागुल्मा
त्वचाजालकमालि
ता ।
गुल्फाङ्गुल्यां प्रविश्रान्तजङ्घोरुस्तम्भमण्डला
7
Keep
रेखाविभक्तपादाग्रशिलाप्रथमनिर्मि
ता ।
चर्ममर्मशिरासारसंधिसीमामनोरमा
8
Keep
उरूरुतनुभागाग्रनिर्मितोपस्थनिम्न
गा ।
कचत्केशावलीकाचदलप्रस्थवनावृता
9
Keep
भ्रूललाटोष्ठसच्छायवदनोद्यानशोभि
ता ।
दृष्टिपातोत्पलाकीर्णकपोलविपुलस्थली
10
Keep
वक्षःस्थलसरःस्यूतकुचपङ्कजकोर
का ।
घनरोमावलीच्छन्नस्कन्धक्रीडाशिलोच्चया
11
Keep
उदरश्वभ्रनिक्षिप्तस्वान्नेष्टा
भक्ष्यतत्प
रा ।
दीर्घकण्ठबिलोद्गीर्णवातसंरम्भशब्दिता
12
Keep
हृदयापणनिर्णीतयथाप्राप्तार्थभूषि
ता ।
अनारतनवद्वारप्रवहत्प्राणनागरा
13
Keep
आस्यस्फारवदादृष्टदन्तास्थिशकलाकु
ला ।
मुखास्पदाभ्रमज्जिह्वाचण्डीचर्वितभोजना
14
Keep
रोमशष्पतरच्छन्ना
कर्णकोटरकूप
का ।
स्फिक्श्रृंखलास्थितोपान्तपृष्ठविस्तीर्णजङ्गला
15
Keep
गुदोत्थानारघट्टान्तप्रद्रुतानन्तकर्द
मा ।
चित्तोद्यानमहीवल्गदात्मचिन्तावराङ्गना
16
Keep
धीवरत्रादृढाबद्धचपलेन्द्रियमर्क
टा ।
वदनोद्यानहसनपुष्पोद्गममनोरमा
17
Keep
स्वशरीरमनोज्ञस्य
सर्वसौभाग्यसुन्द
री ।
सुखायैव न दुःखाय परमाय हिताय च
18
Keep
अज्ञस्येयमनन्तानां दुःखानां
कोशमालि
का ।
ज्ञस्य त्वियमनन्तानां सुखानां कोशमालिका
19
Keep
किंचिदस्यां प्रनष्टायां ज्ञस्य
नष्टमरिन्द
म ।
स्थितायां संस्थितं सर्वं तेनेयं ज्ञसुखावहा
20
Keep
यदेनां ज्ञः समारुह्य संसारे
विहरत्यल
म् ।
अशेषभोगमोक्षार्थं तेनेयं ज्ञरथः स्मृतः
21
Keep
शब्दरूपरसस्पर्शगन्धबन्धुश्रियो
य
तः ।
अनयैव हि लभ्यन्ते तेनेयं ज्ञस्य लाभदा
22
Keep
सुखदुःखक्रियाजालं यदेषोद्वहति
स्वय
म् ।
तदेषा राम सर्वज्ञसर्ववस्तुभरक्षमा
23
Keep
तस्यां शरीरपुर्यां हि राज्यं
कुर्वन्गतज्व
रः ।
ज्ञस्तिष्ठति गतव्यग्रः स्वपुर्यामिव वासवः
24
Keep
न क्षिपत्यवटाटोपे
मनोमत्ततुरङ्गम
म् ।
न लोभदुर्द्रुमादाय प्रज्ञापुत्रीं प्रयच्छति
25
Keep
अज्ञानपरराष्ट्रं च न रन्ध्रं त्वस्य
पश्य
ति ।
संसारारिभयस्यान्तर्मूलान्येव निकृन्तति
26
Keep
तृष्णासारपरावर्ते
कामसंभोगदुर्ग्र
हे ।
न निमज्जति पर्यस्तः सुखदुःखप्रदेवने
27
Keep
करोत्यविरतं स्नानं
बहिरन्तरवीक्षणा
त् ।
सरित्संगमतीर्थेषु मनोरथगतः क्रमात्
28
Keep
सकलाक्षजनादृश्यसुखप्रेक्षापराङ्मु
खः ।
ध्याननाम्नि सुखं नित्यं तिष्ठत्यन्तःपुरान्तरे
29
Keep
सुखावहैषा नगरी नित्यं वै
विदितात्म
नः ।
भोगमोक्षप्रदा चैषा शक्रस्येवामरावती
30
Keep
स्थितया संस्थितं सर्वं किंचिन्नष्टं न
नष्ट
या ।
यया पुर्या महीयस्या सा कथं न सुखावहा
31
Keep
विनष्टे देहनगरे ज्ञस्य नष्टं न
किंच
न ।
आक्रान्तकुम्भाकाशस्य खस्य कुम्भक्षये यथा
32
Keep
विद्यमानं घटं वायुः किंचित्स्पृशति
नास्थित
म् ।
यथा तथैव देही स्वां शरीरनगरीमिमाम्
33
Keep
अत्रस्थः पुरुषो भोगानात्मा सर्वगतोऽपि
स
न् ।
विश्वकल्पकृतान्भुक्त्वा पुंसामधिगतार्थभाक्
34
Keep
कुर्वन्नपि न कुर्वाणः
समस्तार्थक्रियोन्मु
खः ।
कदाचित्प्रकृतान्सर्वान्कार्यार्थाननुतिष्ठति
35
Keep
कदाचिल्लीलया लोलं
विमानमधिरोह
ति ।
अनाहतगतिः कान्तं विहर्तुममलं मनः
36
Keep
तत्रस्थो लोकसुन्दर्या सततं
शीतलाङ्ग
या ।
रमते रामया मैत्र्या नित्यं हृदयसंस्थितः
37
Keep
द्वे कान्ते तिष्ठतः सम्यक् पार्श्वयोः
सत्यतैक
ते ।
इन्दोरिव विशाखे द्वे समाह्लादितचेतसी
38
Keep
क्षपितानखिलान्लोकान्दुःखक्रकचदारिता
न् ।
वल्लीवनस्थान्नभसः पृष्ठादर्क इवेक्षते
39
Keep
चिरं पूरितसर्वाशः
सर्वसंपत्तिसुन्द
रः ।
अपुनःखण्डनायेन्दुः पूर्णाङ्ग इव राजते
40
Keep
सेव्यमानोऽपि भोगौघो न खेदायास्य
जाय
ते ।
कालकूटः किलेशस्य कण्ठे प्रत्युत राजते
41
Keep
परिज्ञातोपभुक्तो हि भोगो भवति
तुष्ट
ये ।
विज्ञाय सेवितो मैत्रीमेति चोरो न शत्रुताम्
42
Keep
नरनारीनटौघानां विरहे
दूरगामिना
म् ।
ज्ञेन यात्रेव सुभगा भोगश्रीरवलोक्यते
43
Keep
अशङ्कितोपसंप्राप्ता ग्रामयात्रा
यथाध्व
गैः ।
प्रेक्ष्यन्ते तद्वदेव ज्ञैर्व्यवहारमयाः क्रियाः
44
Keep
अयत्नोपनतेऽप्यक्षि पदार्थेषु यथा
पु
नः ।
नीरागमेव पतति तद्वत्कार्येषु धीरधीः
45
Keep
इन्द्रियाणां न हरति प्राप्तमर्थं
कदाच
न ।
नाददाति तथाऽप्राप्तं संपूर्णो ज्ञोऽवतिष्ठते
46
Keep
अप्राप्तचिन्ताः संप्राप्तसमुपेक्षाश्च
सन्मति
म् ।
न कम्पयन्ति तरलाः पिच्छाघाता इवाचलम्
47
Keep
संशान्तसर्वसंदेहो
गलिताखिलकौतु
कः ।
संक्षीणकल्पनादेहो ज्ञः सम्राडिव राजते
48
Keep
आत्मन्येव न मात्यन्तः स्वात्मनात्मनि
जृम्भ
ते ।
संपूर्णोऽपारपर्यन्तः क्षीरार्णव इवार्णवे
49
Keep
भोगेच्छाकृपणाञ्जन्तून्दीनान्दीनेन्द्रियाणि
च ।
अनुन्मत्तमनाः शान्तो हसत्युन्मत्तकानिव
50
Keep
इच्छतोऽन्योज्झितां जायां यथैवान्येन
हस्य
ते ।
इन्द्रियस्येच्छतो भोगं तद्वज्ज्ञेन विहस्यते
51
Keep
त्यजत्स्वात्मसुखं सौम्यं मनो
विषयविद्रुत
म् ।
अङ्कुशेनेव नागेन्द्रं विचारेण वशं नयेत्
52
Keep
भोगेषु प्रसरो यस्या मनोवृत्तेश्च
दीय
ते ।
साप्यादावेव हन्तव्या विषस्येवाङ्कुरोद्गतिः
53
Keep
ताडितस्य हि यः पश्चात्संमानः
सोऽप्यनन्त
कः ।
शालेर्ग्रीष्माभितप्तस्य कुसेकोऽप्यमृतायते
54
Keep
अनार्तेन हि सन्मानो बहुमानो न
बुध्य
ते ।
पूर्णानां सरितां प्रावृट्पूरः स्वल्पो न राजते
55
Keep
पूर्णस्तु
प्राकृतोऽप्यन्यत्पुनरप्यभिवाञ्छ
ते ।
जगत्पूरणयोग्याम्बुर्गृह्णात्येवार्णवो जलम्
56
Keep
मनसोऽभिगृहीतस्य या
पश्चाद्भोगमण्ड
ना ।
तामेवालब्धविस्तारां क्लिष्टत्वाद्बहु मन्यते
57
Keep
बन्धमुक्तो महीपालो ग्रासमात्रेण
तुष्य
ति ।
परैरबद्धो नाक्रान्तो न राज्यं बहु मन्यते
58
Keep
हस्तं हस्तेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य
च ।
अङ्गान्यङ्गैरिवाक्रम्य जयेश्चेन्द्रियशात्रवान्
59
Keep
जेतुमन्यं कृतोत्साहैः पुरुषैरिह
पण्डि
तैः ।
पूर्वं हृदयशत्रुत्वाज्जेतव्यानीन्द्रियाण्यलम्
60
Keep
एतावति धरणितले
सुभगास्ते साधुचेतनाः
पुरु
षाः ।
पुरुषकलासु च गण्या
न जिता ये चेतसा स्वेन
61
Keep
हृदयबिले कृतकुण्डल.
कलनाविवशो
मनोमहाभुज
गः ।
यस्योपशान्तिमागत-
मलमुदितं तं सुनिर्मलं वन्दे
Previous
←
Sarga 22
Next
Sarga 24
→