Contents
Direct Inquiry
Home
Library
Find
Gurudev
Shelf
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 27
‹
Previous
Contents
Next
›
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
तस्मिंस्तदा वर्तमाने घोरे
समरसंभ्र
मे ।
देवासुरशरीरेषु गर्तेष्वभ्रोदरेष्विव
2
Keep
वहत्स्वसृक्प्रवाहेषु
गङ्गापूरेष्विवाम्बरा
त् ।
दाम्नि वेष्टितदेवौघकृतक्ष्वेडाघनारवे
3
Keep
व्याले
निजकराकृष्टिपिष्टसर्वसुराल
ये ।
कटे कठिनसंरम्भसङ्गरक्षपितामरे
4
Keep
ऐरावते क्षीणरवे
पलायनपराय
णे ।
प्रवृद्धे दानवानीके मध्याह्न इव भास्करे
5
Keep
पतिताङ्गव्यथार्तानि प्रस्रवद्रुधिराणि
च ।
पयांसीवावसेतूनि देवसैन्यानि दुद्रुवुः
6
Keep
दामव्यालकटास्तानि चिरमन्तर्हितानि
च ।
अनुजग्मुर्लसन्नादसिन्धनानीव पावकाः
7
Keep
अन्विष्टानपि यत्नेन नालभन्तासुराः
सुरा
न् ।
घनजालवनोड्डीनान्सिंहा हरिणकानिव
8
Keep
अलब्धेष्वमरौघेषु
दामव्यालकटास्त
दा ।
जग्मुः पातालकोशस्थं प्रभुं प्रमुदिताशयाः
9
Keep
अथ देवा विषण्णास्ते क्षणमाश्वास्य वै
य
युः ।
जयोपायाय विजिता ब्रह्माणममितौजसम्
10
Keep
तेषामाविरभूद्ब्रह्मा
रक्तरक्ताननश्रिया
म् ।
सायं रक्तीकृताम्बूनामब्धीनामिव चन्द्रमाः
11
Keep
प्रणम्य ते सुरास्तस्मा अनर्थं
शम्बरेहित
म् ।
सम्यक्प्रकथयामासुर्दामव्यालकटक्रमम्
12
Keep
तदाकर्ण्याखिलं ब्रह्मा विचार्य स
विचारवि
त् ।
उवाचेदं सुरानीकमाश्वासनकरं वचः
13
Keep
श्रीब्रह्मोवा
च ।
शतवर्षसहस्रान्ते शम्बरेण हरेः
करा
त् ।
मर्तव्यं समरेशस्य तत्कालं संप्रतीक्षताम्
14
Keep
दामव्यालकटानेतानद्य
त्वमरसत्त
माः ।
योधयन्तः पलायध्वं मायायुद्धेन दानवान्
15
Keep
युद्धाभ्यासवशादेषां
मुकुराणामिवाश
ये ।
अहंकारचमत्कारः प्रतिबिम्बमुपैष्यति
16
Keep
गृहीतवासनास्त्वेते दामव्यालकटाः
सु
राः ।
सुजेया वो भविष्यन्ति लग्नजालाः खगा इव
17
Keep
अद्य त्ववासना ह्येते
सुखदुःखविवर्जि
ताः ।
धैर्येणारीन्विनिघ्नन्तो देवा दुर्जयतां गताः
18
Keep
वासनातन्तुबद्धा ये
आशापाशवशीकृ
ताः ।
वश्यतां यान्ति ते लोके रज्जुबद्धाः खगा इव
19
Keep
ये भिन्नवासना धीराः
सर्वत्रासक्तबुद्ध
यः ।
न हृष्यन्ति न कुप्यन्ति दुर्जयास्ते महाधियः
20
Keep
यस्यान्तर्वासनारज्ज्वा ग्रन्थिबन्धः
शरीरि
णः ।
महानपि बहुज्ञोऽपि स बालेनापि जीयते
21
Keep
अयं सोऽहं ममेदं
तदित्याकल्पितकल्प
नः ।
आपदां पात्रतामेति पयसामिव सागरः
22
Keep
इयन्मात्रपरिच्छिन्नो येनात्मा
भव्यभावि
तः ।
स सर्वज्ञोऽपि सर्वत्र परां कृपणतां गतः
23
Keep
अनन्तस्याप्रमेयस्य येनेयत्ता
प्रकल्पि
ता ।
आत्मनस्तस्य तेनात्मा स्वात्मनैवावशीकृतः
24
Keep
आत्मनो व्यतिरिक्तं यत्किंचिदस्ति
जगत्त्र
ये ।
यत्रोपादेयभावेन बद्धा भवतु वासना
25
Keep
आस्थामात्रमनन्तानां दुःखानामाकरं
वि
दुः ।
अनास्थामात्रमभितः सुखानामाकरं विदुः
26
Keep
दामव्यालकटा यावदनास्था
भवसंस्थि
तौ ।
तावन्न नाम जेयावो मशकानामिवानलाः
27
Keep
अन्तर्वासनया
जन्तुर्दीनतामनुयात
या ।
जितो भवत्यन्यथा तु मशकोऽप्यमराचलः
28
Keep
विद्यते वासना यत्र तत्र सा याति
पीनता
म् ।
गुणो गुणिनि हि द्वित्वं सतो दृष्टं हि नासतः
29
Keep
अयं सोऽहं ममेदं चेत्येवमन्तः
सवासन
म् ।
यथा दामादयः शक्र भावयन्ति तथा कुरु
30
Keep
या या जनस्य विपदो भावाभावदशाश्च
याः ।
तृष्णाकरञ्जवल्ल्यास्ता मञ्जर्यः कटुकोमलाः
31
Keep
वासनातन्तुबद्धो यो लोको
विपरिवर्त
ते ।
सा प्रवृद्धातिदुःखाय सुखायोच्छेदमागता
32
Keep
धीरोऽप्यतिबहुज्ञोऽपि कुलजोऽपि
महान
पि ।
तृष्णया बध्यते जन्तुः सिंहः शृङ्खलया यथा
33
Keep
देहपादपसंस्थस्य
हृदयालयगामि
नः ।
तृष्णा चित्तखगस्येयं वागुरा परिकल्पिता
34
Keep
दीनो वासनया लोकः
कृतान्तेनापकृष्य
ते ।
रज्ज्वेव बालेन खगो विवशो भृशमुच्छवसन्
35
Keep
अलमायुधभारेण संगरभ्रमणेन
च ।
वासनाया विपर्यासं युक्त्या यत्नाद्रिपोः कुरु
36
Keep
अन्तरा क्षुभिते धैर्ये
रिपोरमरनाय
क ।
न शस्त्राणि न चास्त्राणि न शास्त्राणि जयन्ति च
37
Keep
दामव्यालकटास्त्वेते युद्धाभ्यासवशेन
च ।
अहंकारमयीं मत्तास्ते ग्रहीष्यन्ति वासनाम्
38
Keep
यदा तेऽत्यज्ञपुरुषाः शम्बरेण
विनिर्मि
ताः ।
वासनामाश्रयिष्यन्ति तदा यास्यन्ति जेयताम्
39
Keep
तत्तावद्युक्तियुद्धेन
तान्प्रबोधयताम
राः ।
यावदभ्यासवशतो भविष्यन्ति सवासनाः
40
Keep
ततो वश्या भविष्यन्ति भवतां
बद्धवास
नाः ।
तृष्णाऽप्रोताशया लोके न च केचन पेलवाः
41
Keep
समविषममिदं जगत्समग्रं
समुपनतं स्थिरतां
स्ववासनान्
तः ।
चलचललहरीभरो यथाब्धा-
वत इह सैव चिकित्स्यतां प्रयाता
Previous
←
Sarga 26
Next
Sarga 28
→