Contents
Direct Inquiry
Home
Library
Find
Gurudev
Shelf
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 28
‹
Previous
Contents
Next
›
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
इत्युक्त्वा
भगवान्देवांस्तत्रैवान्तर्धिमाय
यौ ।
वेलावनितटे शब्दं कृत्वेवाम्बुतरङ्गकः
2
Keep
सुरास्त्वाकर्ण्य तद्वाक्यं जग्मुः स्वाभिमतां
दिश
म् ।
कमलामोदमादाय वनमालामिवानिलाः
3
Keep
दिनानि कतिचित्स्वेषु कान्तेषु
स्थिरकान्ति
षु ।
द्विरेफा इव पद्मेषु मन्दिरेषु विशश्रमुः
4
Keep
कंचित्कालं समासाद्य स्वात्मोदयकरं
शुभ
म् ।
चक्रुर्दुन्दुभिनिर्घोषं प्रलयाभ्ररवोपमम्
5
Keep
अथ दैत्यैर्ममाव्योम्नि तैः पातालतले
स्थि
तैः ।
कालक्षेपकरं घोरं पुनर्युद्धमवर्तत
6
Keep
ववुरसिशरशक्तिमुद्गरौघा
मुसलगदापरशूग्रचक्रशङ्
खाः ।
अशनिगिरिशिलाहुताशवृक्षा
अहिगरुडादिमुखानि चायुधानि
7
Keep
मायाकृतायुधमहाम्बुघनप्रवाहा
क्षिप्रावहा प्रतिदिशं किल
निर्जगा
म ।
पाषाणपर्वतमहीरुहलक्षवृक्ष-
क्षुब्धाम्बुपूरघनघोषवती नदी द्राक्
8
Keep
मध्यप्रवाहवहदुल्मुकशूलशैल-
प्रासासिकुन्तशरतोमरमुद्गरौघा
गङ्गोपमाम्बुवलितामरमन्दिरेण
सर्वासु दिक्ष्वशनिवर्षनिकर्षणेन
9
Keep
पृथ्व्यादिदारुणशरीरमपि प्रहार-
दानग्रहा
गहनराशिशरीरके
व ।
मायोपशाम्यति सुरासुरसिद्धसन्ना
मायाकृतिः पुनरुदेति नचैव सैव
10
Keep
शैलोपमायुधविघट्टितभूधराणि
रक्ताम्बुपूरपरिपूर्णमहार्णवा
नि ।
दैवासुरेन्द्रशवशैलविरूढकुन्त-
तालीवनानि ककुभां वदनानि चासन्
11
Keep
उद्गीर्णकुन्तशरशक्तिगदासिचक्र-
हेलानिगीर्णसुरदानवमुक्तशै
ला ।
काषोल्लसत्क्रकचदन्तनखाग्रमाला
जीवान्विता ह्यपतदायससिंहसृष्टिः
12
Keep
उज्ज्वाललोचनविषज्वलनातपौघ-
दिग्दाहदर्शितयुगान्तदिनेशसे
ना ।
उड्डीयमानपरिदीर्घमहामहीध्र-
मग्नाब्धिवद्विषधरावलिरुल्ललास
13
Keep
उन्नादवज्रमकरोत्करकर्कशान्तः-
क्षुब्धाब्धिवीचिवलयैर्वलिताचलेन्द्
रैः ।
आसीज्जगत्सकलमेव सुसंकटाङ्ग-
मावृत्तिभिर्विविधहेतिनदीप्रवाहैः
14
Keep
शैलास्त्रशस्त्रगरुडाचलचालितोच्च-
नागं
महासुरगणाङ्गणमन्तरिक्ष
म् ।
आसीत्क्षणं जलधिभिः क्षणमग्निपूरैः
पूर्णं क्षणं दिनकरैः क्षणमन्धकारैः
15
Keep
गरुडगुडगुडाकुलान्तरिक्ष-
प्रविसृतहेतिहुताशपर्वतौ
घैः ।
जगदभवदसह्यकल्पकाले
ज्वलितसुरालयभूतलान्तरालम्
16
Keep
उदपतन्नसुरावसुधातला-
द्गगनमद्रितटादिव
पक्षि
णः ।
अतिबलादपतन्विबुधा भुवि
प्रलयचालितशैलशिला इव
17
Keep
शरीररूढोन्नतहेतिवृक्ष-
वनावलीलग्नमहाग्निदा
हाः ।
सुरासुराः प्रापुरथाम्बरान्तः
कल्पानिलान्दोलितशैलशोभाम्
18
Keep
सुरासुराद्रीन्द्रशरीरमुक्तै
रक्तप्रवाहैरभितो
भ्रमद्
भिः ।
बभार पूर्णं परितोऽम्बरोऽद्रेः
संध्याकरौघक्षतमङ्ग गङ्गाम्
19
Keep
गिरिवर्षणमम्बुवर्षणं
विविधोग्रायुधवर्षणं
त
था ।
विषमाशनिवर्षणं च ते
सममन्योन्यमथाग्निवर्षणम्
20
Keep
अनयन्नयमार्गकोविदा
दलिताशेषगिरीन्द्रभित्त
यः ।
ससृजुश्च समं समन्ततः
करिकुम्भेष्विव पुण्यवर्षणम्
21
Keep
देवासुराः समरसंभ्रममाकुलास्ते
अन्योन्यमङ्गदलनाकुलहेतिहस्
ताः ।
नागेन्द्रडिम्भपृतनापृथुपीठपेषैः
कीर्णश्रियो नभसि बभ्रमुरक्षिपन्तः
22
Keep
छिन्नैः शिरःकरभुजोरुभरैर्भ्रमद्भि-
राकाशकाष्ठशलभैरशिवैस्तदानी
म् ।
आसीज्जगज्जठरमभ्रभरैरिवोग्रै-
राभास्करस्थगितदिक्तटशैलजालम्
23
Keep
रटद्भटास्फोटकटिस्फुटद्भिः
समीरितैर्हेतिकलासितौ
घैः ।
परस्पराघातहतैः पतद्भि-
र्जगाम शीर्णा दलशो धरित्री
24
Keep
अन्योन्यमायुधशिलाचलवृक्षवर्षै-
र्मेरुप्रमाणकठिनाङ्गनिघर्षणैश्
च ।
आसीद्रणं चटचटास्फुटदन्तरिक्षं
कल्पक्षयान्तमिव भीमभरोग्रनादैः
25
Keep
मत्तानिलक्षुब्धजलानलार्क-
दलद्वयं
दीर्घसुरासुरौघ
म् ।
ब्रह्माण्डमाखण्डितकुड्यकोण-
सकालकल्पान्तकरालमासीत्
26
Keep
भ्रान्तैर्भृशं भरितदिक्तटमद्रिकूटै-
रात्मप्रमाणघनहेतिहतै रणद्भिः
कूजद्भिरार्तिभिरिवोग्रगुहोच्चवातैः
क्रन्दद्भिरापतितसिंहरवैरदभ्रैः
27
Keep
मायानदीजलधियोधघनाग्निदाहै-
र्वृक्षैः सुरासुरशवैरचलैः
शिलोच्
चैः ।
भ्रान्तेः शरासिशितशक्तिगदास्त्रशस्त्रै-
र्वातावकीर्णवनपर्णवदन्तरन्तः
28
Keep
अद्रीन्द्रपक्षपरिमाणगमाक्षमोक्त-
दुर्वारहस्तिबलदारुणदेहकैर्द्रा
क् ।
आसीत्पतद्भटशरीरगिरीन्द्रवात-
विभ्रष्टदेवपुरपूर्णजलार्णवौघम्
29
Keep
घनघुंघुमपूरितान्तरिक्षा
क्षतजक्षालितभूधरा धरा
च ।
रुधिरह्रदवृत्तिवर्तिनी वा
भुवनाभोगगुहा तदाकुलाभूत्
30
Keep
अनन्तदृक्प्रसृतविकारकारिणी
क्षयोदयोन्मुखसुखदुःखशंसि
नी ।
रणक्रियासुरसुरघट्टसंकटा
तदाभवत्खलु सदृशीह संसृतेः
Previous
←
Sarga 27
Next
Sarga 29
→