Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 29
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
एवंप्रायाकुलारम्भैरसुरैरसुहारिभिः ।
सहसा हृतसंरब्धैरारब्धः सुमहान् रणः
2
Keep
माययाथ विवादेन सन्धिना विग्रहेण च ।
पलायनेन धैर्येण च्छन्नगोपायनेन च
3
Keep
कार्पण्येनास्त्रयुद्धेन स्वान्तर्धानैश्च भूरिशः ।
धृतः स संगरो देवैस्त्रिंशद्वर्षाणि पञ्चकम्
4
Keep
वर्षाणि दिवसान्मासान्दशाष्टौ सप्त पञ्च च ।
वर्षाणि पेतुर्वृक्षाग्निहेत्येकाशनिभूभृताम्
5
Keep
एतावता तु कालेन दृढाभ्यासादहंकृतेः ।
दामादयोऽहमित्यास्थां जगृहुर्ग्रस्तचेतसः
6
Keep
नैकट्यातिशयाद्यद्वद्दर्पणं बिम्बवद्भवेत् ।
अभ्यासातिशयात्तद्वत्ते साहंकारतां गताः
7
Keep
यद्वद्दूरगतं वस्तु नादर्शे प्रतिबिम्बति ।
पदार्थवासना तद्वदनभ्यासान्न जायते
8
Keep
यदा दामादयो जाता अहंकारात्मवासनाः ।
तदा मे जीवितं मेऽर्थ इति दैन्यमुपागताः
9
Keep
भववासनया ग्रस्ता मोहवासनया ततः ।
आशापाशनिबद्धास्ते ततः कृपणतां गताः
10
Keep
मुग्धेव ह्यनहंकारैर्ममत्वमुपकल्पितम् ।
रज्ज्वां भुजङ्गत्वमिव दामव्यालकटैस्ततः
11
Keep
आपादमस्तको देहः कथं मे भवतु स्थिरः ।
ममेति तृष्णाकृपणा दीनतां ते समाययुः
12
Keep
स्थिरो भवतु मे देहः सुखायास्तु धनं मम ।
इति बद्धधियां तेषां धैर्यमन्तर्द्धिमाययौ
13
Keep
सवासनत्वाद्वपुषामल्पसत्त्वात्सुरद्विषाम् ।
या तु प्रहारपरता मार्जितेवाशु साभवत्
14
Keep
कथं सुरा जगत्यस्मिन्भवाम इति चिन्तया ।
विवशा दीनतां जग्मुः पद्मा इव निरम्भसः
15
Keep
तेषां योषान्नपानेन स्वाहंकृतिमतां रतिः ।
बभूव भावभावस्था भीषणा भवभाजिनी
16
Keep
अथ तस्मिन्रणे भीत्या सापेक्षत्वमुपाययुः ।
मत्तेभघनसंरब्धे वने हरिणका इव
17
Keep
मरिष्यामो मरिष्याम इति चिन्ताहताशयाः ।
मन्दं मन्दं किल भ्रेमुः कुपितैरावणे रणे
18
Keep
शरीरैकार्थिनां तेषां भीतानां मरणादपि ।
अल्पसत्त्वतया मूर्घ्नि कृतमेव परैः पदम्
19
Keep
अथ प्रम्लानसत्त्वास्ते हन्तुमग्रगतं भटम् ।
न शेकुरिन्धने क्षीणे हविर्दग्धुमिवाग्नयः
20
Keep
विबुधानां प्रहरतां मशकत्वमुपागताः ।
क्षतविक्षतसंघातास्तस्थुः सामान्यसद्भटाः
21
Keep
बहुनात्र किमुक्तेन मरणाद्भीतचेतसः ।
दैत्या देवेषु वलगत्सु दुद्रुवुः समराजिरात्
22
Keep
तेषु द्रवत्सु भीतेषु सर्वतो दानवादिषु ।
दामव्यालकटाख्येषु विख्यातेषु सुरालये
23
Keep
तद्दैत्यसैन्यं न्यपतद्विद्रुतं खादितस्ततः ।
कल्पान्तपवनोद्भूतं ताराजालमिवाभितः
24
Keep
अमराचलकुञ्जेषु शिखराणां शिखासु च ।
तटेषु वारिराशीनां पयोदपटलेषु च
25
Keep
सागरावर्तगर्तेषु श्वभ्रेषूद्यत्सरित्सु च ।
जङ्गलेषु दिगन्तेषु ज्वलत्सु विपिनेषु च
26
Keep
तद्वाणोच्छिन्नदेशेषु ग्रामेषु नगरेषु च ।
अटवीषूग्रपक्षासु मरुभूमिदवाग्निषु
27
Keep
लोकालोकाचलान्तेषु पर्वतेषु ह्रदेषु च ।
आन्ध्रद्वविडकाश्मीरपारसीकपुरेषु च
28
Keep
नानाम्भोधितरङ्गासु गङ्गाजलघटासु च ।
द्वीपान्तरेषु जालेषु जम्बूखण्डलतासु च
29
Keep
सर्वतः पर्वताकाराः पतितास्ते सुरारयः ।
विस्फोटिताङ्गचरणा विभिन्नकरबाहवः
30
Keep
शाखालग्नान्त्रतन्त्रीका मुक्तरक्तभरच्छटाः ।
व्यस्तशेखरमूर्धानो निष्क्रान्ताः कुपितेक्षणाः
31
Keep
सायुधा बलमायेषुच्छिन्नकङ्कटहेतयः ।
दूरापातविपर्यस्तपतन्नानायुधांशुकाः
32
Keep
कण्ठलम्बिशिरस्त्राणचटत्कारोग्रभीतयः ।
शिखाशतशिलाप्रोता देहभागविलम्बिनः
33
Keep
शाल्मल्युग्रदृढापातकटत्कण्टकसंकटाः ।
सुशिलाफलकास्फालशतधाशीर्णमस्तकाः
34
Keep
सर्वं एव सकलायुधशस्त्र-
पातमात्रसमनन्तरमेव ।
दिक्षु नाशमगमन्नसुरेन्द्राः
पांसवोऽम्बुदनिधौ पयसीव
Previous
←
Sarga 28
Next
Sarga 30
→