Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 30
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
इति तुष्टेषु देवेषु दानवेषु हतेषु च ।
दामव्यालकटा दीना बभूवुर्भयविह्वलाः
2
Keep
जज्वाल कुपितः क्वेति कल्पान्ताग्निरिव ज्वलन् ।
शम्बरः शमितानीको दामव्यालकटान्प्रति
3
Keep
शम्बरस्य भयाद्गत्वा पातालमथ सप्तमम् ।
दामव्यालकटास्तस्थुस्त्यक्त्वाथ निजमण्डलम्
4
Keep
यमस्य किङ्करा यत्र ये कालत्रासनक्षमाः ।
कुतूहलेन तिष्ठन्ति नरकार्णवपालकाः
5
Keep
ते तेषामथ यातानां दत्त्वा भयमभीरवः ।
चिन्ता इव घनाकाराः कुमारीश्च ददुः क्रमात्
6
Keep
तैः सार्धं नीतवन्तस्ते तत्र दामादयोऽवधिम् ।
दशवर्षसहस्रान्तमात्तानन्तकुवासनाः
7
Keep
इयं मे कामिनी कन्या ममेयं प्रभुतेति च ।
दुरूढस्नेहबन्धानां कालस्तेषां व्यवर्तत
8
Keep
धर्मराजोऽथ तं देशं कदाचित्समुपाययौ ।
महानरककार्याणां विचारार्थं यदृच्छया
9
Keep
अपरिज्ञातमेनं ते धर्मराजं त्रयोऽसुराः ।
न प्रणेमुर्विनाशाय सामान्यमिव किङ्करम्
10
Keep
अथ वैवस्वतेनैते ज्वलितासूग्रभूमिषु ।
विहितभ्रूपरिस्पन्दमात्रेणैव निवेशिताः
11
Keep
तत्र ते करुणाक्रन्दाः ससुहृद्दारबन्धवः ।
प्रदग्धाः पर्णविटपा वृक्षा इव वनानिलैः
12
Keep
स्वया वासनया जातास्तयैव क्रूरया पुनः ।
बन्धकर्मकराकाराः किराता राजकिङ्कराः
13
Keep
तज्जन्माथ परित्यज्य जाताः श्वभ्रेषु वायसाः ।
तदन्ते गृध्रतां यातास्ततोऽपि शुक्लतां गताः
14
Keep
सूकरत्वं त्रिगर्तेषु मेषत्वं पर्वतेषु च ।
मगधेष्वथ कीटत्वं बभ्रुस्ते च कुबुद्धयः
15
Keep
अनुभूयेतरामन्यां चित्रां योनिपरम्पराम् ।
अद्य मत्स्याः स्थिता राम काश्मीरारण्यपल्वले
16
Keep
दावाग्निक्वथिताल्पाल्पपङ्ककल्पाम्बुपायिनः ।
न म्रियन्ते न जीवन्ति जरज्जम्बालजर्जराः
17
Keep
विचित्रयोनिसंरम्भमनुभूय पुनःपुनः ।
भूत्वा भूत्वा पुनर्नष्टास्तरङ्गा जलधाविव
18
Keep
भवजलधिगतास्ते वासनातन्तुनुन्ना-
स्तृणमिव चिरमूढा देहरूपैस्तरङ्गैः ।
उपशममुपयाता राम नाद्याप्यनन्तं
परिकलय महत्त्वं दारुणं वासनायाः
Previous
←
Sarga 29
Next
Sarga 31
→