Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 31
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अतः प्रबोधाय तव वच्मि राम महामते ।
दामव्यालकटन्यायो मा तेऽस्त्विति तु लीलया
2
Keep
अविवेकानुसंधानाच्चित्तमापदमीदृशीम् ।
अनन्तभवदुःखाय परिगृह्णाति हेलया
3
Keep
क्व किलामरविध्वंसिशम्बरानीकनाथता ।
क्व तापतप्तजम्बालजालजर्जरमीनता
4
Keep
क्व धैर्यममरानीकविद्रावणकरं महत् ।
क्व किरातमहीपालक्षुद्रकिङ्कररूपता
5
Keep
क्व नाम निरहङ्कारचित्सत्त्वोदारधीरता ।
क्व मिथ्यावासनावेशादहङ्कारकुकल्पना
6
Keep
शाखाप्रतानगहना संसारविषमञ्जरी ।
अहङ्काराङ्कुरा देव समुदेतीयमातता
7
Keep
अहङ्कारमतो राम मार्जयान्तः प्रयत्नतः ।
अहं न किंचिदेवेति भावयित्वा सुखी भव
8
Keep
अहङ्काराम्बुदच्छन्नं परमार्थेन्दुमण्डलम् ।
रसायनमयं शीतमदृश्यत्वमुपागतम्
9
Keep
अहङ्कारपिशाचार्ता दामव्यालकटास्त्रयः ।
गताः सत्तामसन्तोऽपि मायामाहात्म्यदानवाः
10
Keep
काश्मीरेषु महारण्यसरसीवनपल्वले ।
अद्य मत्स्याः स्थिता राम शैवाललवलालसाः
11
Keep
नासतो विद्यते भावो नाभावो विद्यते सतः ।
ते ह्यसन्तः कथं सत्तां संपन्ना इति मे वद
12
Keep
एवमेतन्महाबाहो नासत्संभवति क्वचित् ।
कदाचित्किंचिदप्येव बृहत्संपद्यते तनु
13
Keep
किमसत्संस्थितं ब्रूहि किं तत्सद्वाथ संस्थितम् ।
सम्यङ्निदर्शनेनैव करिष्ये तव बोधनम्
14
Keep
सन्त एव स्थिताः सन्तो ब्रह्मन्वयमिमे किल ।
दामादयस्त्वसन्तोऽपि वक्षि सन्तः स्थिता इति
15
Keep
यथा दामादयो राम स्थिता मायामया इति ।
असत्या एव सत्याभा मृगतृष्णाम्बुपूरवत्
16
Keep
तथैवेमे वयमपि ससुरासुरदानवाः ।
असत्या एव वल्गामो याम आयाम एव च
17
Keep
अलीकमेव त्वद्भावो मद्भावोऽलीकमेव च ।
अनुभूतोऽप्यसद्रूपः स्वप्ने स्वमरणं यथा
18
Keep
मृतो बन्धुर्यथा स्वप्नेऽप्यनुभूतोऽप्यसन्मयः ।
मृतोऽयमिति चेज्ज्ञप्तिर्भवेदेवमिदं जगत्
19
Keep
एषातिमूढविषय उक्तिरेव न राजते ।
अभ्यासेन विनोदेति नानुभूतेरपह्नवः
20
Keep
निश्चयोऽन्तःप्ररूढो यः संपन्नोऽभ्यसनं विना ।
नाशमायाति लोकेऽस्मिन्न कदाचन कस्यचित्
21
Keep
इदं जगदसद्ब्रह्म सत्यमित्येव वक्ति यः ।
तमुन्मत्तमिवोन्मत्तो विमूढोऽपि हसत्यलम्
22
Keep
अक्षीबक्षीवयोरैक्यं क्व किलेहाज्ञतज्ज्ञयोः ।
अन्धप्रकाशयोर्बोधे स्याच्छायातपयोरिव
23
Keep
यत्नेनाप्यनुभूतोऽर्थः सत्ये कर्तुमपह्नवम् ।
अज्ञोऽन्तश्च न शक्रोति शवमाक्रमणं यथा
24
Keep
ब्रह्म सर्वं जगदिति वक्तुं नाज्ञस्य युज्यते ।
तपोविद्याननुभवे स तदेवानुभूतवान्
25
Keep
अबुद्धविषये ह्येषा राम वाक्प्रविराजते ।
बुद्धस्यास्मीति रूपेण किल नास्त्येव किंचन
26
Keep
ब्रह्मेवेदं परं शान्तमित्येवानुभवन्सुधीः ।
अपह्नवः स्वानुभूतेः कर्तुं तस्य क्व युज्यते ।
27
Keep
परस्माद्व्यतिरेकेण नाहमात्मनि किंचन ।
हेमनीवोर्मिकादित्वं न मय्यस्ति विशिष्टता
28
Keep
भूतता व्यतिरेकेण मूढे नात्मनि किंचन ।
ऊर्म्यादिबुद्धौ हेमेव ज्ञे नास्ति परमार्थता
29
Keep
मिथ्याहंतामयो मूढः सत्यैकात्ममयः सुधीः ।
युज्यते न क्वचिन्नाम स्वभावापह्नवोऽनयोः
30
Keep
यो यन्मयस्तस्य तस्मिन्युज्यतेऽपह्नवः कथम् ।
पुरुषस्य घटोऽस्मीति वाक्यमुन्मत्तमेव हि
31
Keep
तस्मान्नेमे वयं सत्या नच दामादयः क्वचित् ।
असत्यास्ते वयं चेमे नास्ति नः खलु संभवः
32
Keep
सत्यं संवेदनं शुद्धं बोधाकाशं निरञ्जनम् ।
सत्यं सर्वगतं शान्तमस्त्यनस्तमयोदयम्
33
Keep
सर्वं शान्तं च निःशून्यं न किंचिदिव संस्थितम् ।
तत्र व्योम्नि विभान्तीमा निजा भासोऽङ्ग सृष्टयः
34
Keep
यथा तैमिरिकाक्षस्य सहजा एव दृष्टयः ।
केशोण्ड्रकादिवद्भान्ति तथेमास्तत्र दृष्टयः
35
Keep
स आत्मानं यथा वेत्ति तथानुभवति क्षणात् ।
चिदाकाशस्ततोऽसत्यमपि सत्यं तदीक्षणात्
36
Keep
न सत्यमस्ति नासत्यमिति तस्माज्जगत्त्रये ।
यद्यथा वेत्ति चिद्रूपं तत्तथोदेत्यसंशयम्
37
Keep
यथा दामादयस्तद्वदेवमभ्युदिता वयम् ।
सत्यासत्याः किमत्राङ्ग तान्प्रत्यपि विकल्पना
38
Keep
अस्यानन्तस्य चिद्व्योम्नः सर्वगस्य निराकृतेः ।
चिदुदेति यथा यान्तस्तथा सा तत्र भात्यलम्
39
Keep
यत्र दामादिरूपेण संवित्प्रकचिता स्वयम् ।
तथा सा तत्र संपन्ना तथाकारानुभूतितः
40
Keep
अस्मदादिस्वरूपेण संविद्यत्रोदिता स्वयम् ।
तथासौ तत्र संपन्ना तथाकारानुभूतितः
41
Keep
स्वस्वप्नप्रतिभासस्य जगदित्यभिधा कृता ।
चिद्व्योम्नो व्योमवपुषस्तापस्येव मृगाम्बुता
42
Keep
यत्र प्रबुद्धं चिद्व्योम तत्र दृश्याभिधा कृता ।
यत्र सुप्तं तु तेनैव तत्र मोक्षाभिधा कृता
43
Keep
नच तत्क्वचिदासुप्तं न प्रबुद्धं कदाचन ।
चिद्व्योम केवलं दृश्यं जगदित्यवगम्यताम्
44
Keep
निर्वाणमेव सर्गश्रीः सर्गश्रीरेव निर्वृतिः ।
नानयोः शब्दयोरर्थभेदः पर्याययोरिव
45
Keep
परमार्थो जगदिति रूपं वेत्ति स्वयं स्वकम् ।
यथा तैमिरिकं चक्षुः केशोण्ड्रकमिवेक्षते
46
Keep
न तत्केशोण्डृकं किंचित्सा हि दृष्टिस्तथा स्थिता ।
नेदं दृश्यमिदं किंचिदित्थं चिद्व्योम संस्थितम्
47
Keep
सर्वत्र सर्वमिदमस्ति यथानुभूतं
नो किंचन क्वचिदिहास्ति न चानुभूतम् ।
शान्तं सदेकमिदमाततमित्थमास्ते
संत्यक्तशोकभयमेदमतस्त्वमास्स्व
48
Keep
शिलोदराकारघनं प्रशान्तं
महाचिते रूपमिदं स्वमच्छम् ।
नैवास्ति नास्तीति दृशौ क्वचित्तु
यच्चास्ति तत्साधु तदेव भाति
Previous
←
Sarga 30
Next
Sarga 32
→