Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 40
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
उत्पत्तिः कथमेतेषां जीवानां ब्रह्मणः
पदा
त् ।
कियती कीदृशी चेति विस्तरेण वद प्रभो
2
Keep
उत्पद्यन्ते यथा चित्रा ब्रह्मणो
भूतजात
यः ।
यथा नाशं प्रयान्त्येता यथा मुक्ता भवन्ति हि
3
Keep
यथा च परिवर्धन्ते तिष्ठन्त्यन्तर्हिता
य
था ।
संक्षेपेण महाबाहो श्रृणु वक्ष्यामि तेऽनघ
4
Keep
ब्राह्मी चिच्छक्तिरमला कल्पयन्ती
यदृच्छ
या ।
सर्वशक्तिः स्वयं चेत्यं भवत्याकलनात्मकम्
5
Keep
कलनाद्धनतामेत्य यत्किंचिदपि सा
स्वय
म् ।
संकल्पयति पश्चात्तत्तत्तामेति मनःपदम्
6
Keep
मनःसंकल्पमात्रेण
गन्धर्वपुरवत्क्षणा
त् ।
तनोतीदमसद्दृश्यं ब्राह्मीं स्थितिमिव त्यजत्
7
Keep
चित्स्वरूपं
परिकचच्छून्यमेवावतिष्ठ
ते ।
यत्तद्दृश्यं स्थितं तत्स्याद्दृश्यमाकाशमेव तत्
8
Keep
कृत्वा पद्मजसंकल्पं रूपं पश्यति
पद्मज
म् ।
ततो जगत्कल्पयति सप्रजापतिपूर्वकम्
9
Keep
चतुर्दशविधानन्तभूतजातसघुंघु
मा ।
सृष्टिरेवमियं राम चित्तनिर्मितिमागता
10
Keep
चित्तमात्रमयी शून्या
व्योममात्रशरीरि
का ।
संकल्पमात्रनगरी भ्रान्तिमात्रात्मिका सती
11
Keep
इह काश्चिन्महामोहा भूतानां जातयः
स्थि
ताः ।
काश्चिदभ्युदितज्ञानाःकाश्चिन्मध्ये स्खलन्ति हि
12
Keep
भुवि संबध्यमानानां
यान्त्येनामुपदेश्यता
म् ।
सर्वासां भूतजातीनां या एता नरजातयः
13
Keep
बह्वाधयो दुःरवमया
मोहद्वेषभयातु
राः ।
तासां सम्यक्प्रवक्ष्यामि तावद्राजससात्त्विकीः
14
Keep
यत्तदप्यमृतं ब्रह्म सर्वव्यापि
निरामय
म् ।
चिदाभासमनन्ताख्यमनादि विगतभ्रमम्
15
Keep
निस्पन्दवपुषस्तस्य स्पन्दः
सत्तैकदेश
तः ।
घनतामेति सौम्येऽब्धौ चलता चलतामिव
16
Keep
अनन्तस्यात्मतत्त्वस्य एकदेशः क
उच्य
ते ।
कथं विकारिता वा स्यात्कथं वा द्वयविक्रमः
17
Keep
तेन जातं ततोजातमितीयं रचना
गिरा
म् ।
शास्त्रसंव्यवहारार्थं न राम परमार्थतः
18
Keep
विकारितावयवितादिक्सत्तादेशताद
यः ।
क्रमा न संभवन्तीशे दृश्यमानोदया अपि
19
Keep
तं विना कल्पनैवान्या नास्ति नापि
भविष्य
ति ।
कुतस्त्यौ क्रमशब्दार्थावुक्तयो व्यवहारजाः
20
Keep
या येह कलना योऽर्थो यः शब्दो यो गिरां
ग
णः ।
तज्जत्वात्तन्मयत्वाच्च तत्तत्पदमिवेष्यते
21
Keep
तज्जः स एव भवति
वह्नेर्वह्निरिवोत्थि
तः ।
जन्योऽयं जनकश्चायमित्युक्ता भेदकल्पना
22
Keep
अयमस्मात्समुत्पन्न इतीयं या
जगत्स्थि
तिः ।
आधिक्यं तत्क्रियाशक्तौ जन्यं जनकमेव वा
23
Keep
इदमन्यदिदं चान्यदिति
शब्दार्थविक्ल
वः ।
उक्तावेव न देवेऽस्ति प्रमितौ भिन्नता यतः
24
Keep
तज्जयैव मनःशक्त्या स्वतः संज्ञा
प्रवर्त
ते ।
दृढभावनया तस्मादिष्टोऽर्थः प्रतिपद्यते
25
Keep
अग्नेः शिखाया एकस्या द्वितीया जनकेति
या ।
उक्तिवैचित्र्यमेवैतन्नोक्त्यर्थेऽत्रास्ति सत्यता
26
Keep
न जन्यजनकाद्यास्ताः संभवन्त्युक्तयः
प
रे ।
एकमेव ह्यनन्तत्वात्किं कथं
जनयिष्य
ति ।
27
Keep
उक्तेरेव
स्वभावोऽयमुक्तेरुक्तिरनन्तर
म् ।
प्रतियोगिव्यवच्छेदसंख्याद्यर्थे न युज्यते
28
Keep
ऊर्मिजालमिवाम्भोधौ परे यः
परिदृश्य
ते ।
शब्दोऽर्थकलनाकारस्तद्ब्रह्मैव विदुर्बुधाः
29
Keep
ब्रह्म चिद्ब्रह्म च मनो ब्रह्म विज्ञानवस्तु
च ।
ब्रह्मार्थो ब्रह्म शब्दश्च ब्रह्म चिद्ब्रह्म धातवः
30
Keep
ब्रह्म सर्वमिदं विश्वं विश्वातीतं च
तत्पद
म् ।
वस्तुतस्तु जगन्नास्ति सर्वं ब्रह्मैव केवलम्
31
Keep
अयमन्योऽयमन्योऽयं भाग
इत्यम्बरात्म
नि ।
मिथ्याज्ञानविकल्पोक्तिर्वाचि सत्यार्थतात्र का
32
Keep
वह्नेः शिखेव जातेयं शिखेति
मनसोऽभि
धा ।
चापलोत्थविकल्पश्रीर्वस्तुतः स्यान्न सिद्ध्यति
33
Keep
असत्यैव विकल्पोक्तिः सत्यभावो
विकल्प
ते ।
तमोपहतदृष्टित्वाद्द्विचन्द्रज्ञानदोषवत्
34
Keep
सर्वस्मात्सर्वगात्तस्मादनन्ताद्ब्रह्मणः
पदा
त् ।
नान्यत्किंचित्संभवति तदुत्थं यत्तदेव तत्
35
Keep
ब्रह्मतत्त्वं विना नेह
किंचिदेवोपपद्य
ते ।
खर्वं च खल्विदं ब्रह्मेत्येषैव परमार्थता
36
Keep
एवंप्रायश्च हे प्राज्ञ सिद्धान्तस्ते
भविष्य
ति ।
तत्रैवोदाहरिष्यामः सिद्धान्तार्थोक्तिपञ्जरम्
37
Keep
इहाविद्यादिकाः केचिद्विद्यन्ते
नेतरक्र
माः ।
ज्ञास्यस्यलमशेषार्थांस्तत्तदज्ञानसंक्षये
38
Keep
अवस्तुसंक्षये वस्तु यथावस्तु
प्रसीद
ति ।
यथा च दृश्यते दृश्यं जगन्नैशतमःक्षये
39
Keep
यदिदमखिलमाततं कुदृष्ट्या
तदुपशमे तव राम
निर्मला
मे ।
अवितथपदनिर्मले भविष्य-
त्यवितथमेव न संशयोऽत्र कश्चित्
Previous
←
Sarga 39
Next
Sarga 41
→