Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 48
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
क्रियाविशेषबहुला भोगैश्वर्यहताशयाः ।
नापेक्षन्ते यदा सत्यं न पश्यन्ति शठास्तदा
2
Keep
ये तु पारं गता बुद्धेरिन्द्रियैर्न वशीकृताः ।
त एनां जागतीं मायां पश्यन्ति करबिल्ववत्
3
Keep
तुच्छां तां जागतीं मायां दृष्ट्वा जीवो विचारवान् ।
अहंकारमयीं मायां त्यजत्यहिरिव त्वचम्
4
Keep
असक्ततां ततोऽभ्येत्य पुना राम न जायते ।
क्षेत्रेष्वपि चिरं तिष्ठन्बीजं दग्धमिवाग्निना
5
Keep
आधिव्याधिपरीताय प्रातर्वाद्य विनाशिने ।
प्रयतन्ते शरीराय हितमज्ञास्तु नात्मने
6
Keep
त्वमप्यज्ञवदज्ञस्य शरीरस्य समीहितम् ।
मा संपादय दुःखाय भवात्मैकपरायणः
7
Keep
दाशूराख्यायिकेवेयं सुखसंसारचक्रिका ।
कल्पनारचिताकारा वस्तुशून्येति किं प्रभो
8
Keep
जगन्मायास्वरूपस्य वर्णनाव्यपदेशतः ।
दाशूराख्यायिका राम वर्ण्यमानां मया शृणु
9
Keep
अस्त्यस्मिन्वसुधापीठे विचित्रकुसुमद्रुमः ।
मागधो नाम विख्यातः श्रीमाञ्जनपदो महान्
10
Keep
कदम्बवनविस्तारलीलावलितजङ्गलः ।
विचित्रविहगव्यूहसर्वाश्चर्यमनोहरः
11
Keep
सस्यसंकटसीमान्तः पुरोपवनमण्डितः ।
कमलोत्पलकह्लारपूर्णसर्वसरित्तटः
12
Keep
उद्यानदोलाविलसल्ललनागेयघुंघुमः ।
निशोपभुक्तकुसुमनीरन्ध्रविशिखावनिः
13
Keep
तत्रैकस्मिन्गिरितटे कर्णिकारसमाकुले ।
कदलीखण्डनीरन्ध्रनीपगुल्मविराजिते
14
Keep
पुष्पौघस्फूर्जदनिले केसरारुणधूलिनि ।
कारण्डवकृतारावे रसत्सरससारसे
16
Keep
तस्मिन्नगवरे पुण्ये विचित्रविहगद्रुमे ।
कश्चित्परमधर्मात्मा मुनिरासीन्महातपाः
15
Keep
दाशूरनामा महता तपोयोगेन संयुतः ।
कदम्बपृष्ठवास्तव्यो वीतरागो महामतिः
17
Keep
असौ तपस्वी भगवन्विपिने केन हेतुना ।
कथं चाप्यवसत्पृष्ठे कदम्बस्य महातरोः
18
Keep
शरलोमेति विख्यातः पिता तस्य बभूव ह ।
रामाऽपर इव ब्रह्मा तस्मिन्नेवावसद्गिरौ
19
Keep
तस्यासावेकपुत्रोऽभूत्कचो देवगुरोरिव ।
तेन सार्धं स पुत्रेण नीतवाञ्जीवितं वने
20
Keep
अथासौ शरलोमात्र भुक्त्वा युगगणं ययौ ।
त्यक्तदेहः सुरागारं मुक्तनीडः खगो यथा
21
Keep
एक एव वने तस्मिन्दाशूरः प्ररुरोद ह ।
दशापनीतपितृकः करुणं कुररो यथा
22
Keep
मातापितृवियोगेन शोकसंतापिताशयः ।
म्लानिमभ्याययौ नूनं हेमन्त इव पङ्कजम्
23
Keep
बालोऽसावतिदीनात्मा वनदेवतया वने ।
इत्थमाश्वासितो राम तदाऽदृश्यशरीरया
24
Keep
ऋषिपुत्र महाप्राज्ञ किमज्ञ इव रोदिषि ।
संसारस्य न कस्मात्त्वं स्वरूपं वेत्सि चञ्चलम्
25
Keep
सर्वदैवेदृशी साधो संसारे संसृतिश्चला ।
जायते जीव्यते पश्चादवश्यं च विनश्यति
26
Keep
यद्यत्किंचिद्दृश्यदृशि ब्रह्मादिकमिदं मुने ।
गन्तव्यस्तेन सर्वेण विनाशो नात्र संशयः
27
Keep
तदर्थं मा कृथा व्यर्थं विषादं मरणे पितुः ।
अवश्यभाव्यस्तमयो जातस्याहर्षतेरिव
28
Keep
अशरीरामिति श्रुत्वा गिरमारक्तलोचनः ।
धैर्यमासादयामास शिखण्डी स्तनितादिव
29
Keep
उत्थायावश्यकं कृत्वा पाश्चात्यं पितुरादरात् ।
चकार तपसे बुद्धिं दृढामुत्तमसिद्धये
30
Keep
ब्राह्मेण कर्मणा तस्य विपिने चरतस्तपः ।
अनन्तसंकल्पमयं श्रोत्रियत्वं बभूव ह
31
Keep
अज्ञातज्ञेयबुद्धेस्तु श्रोत्रियस्य तया तया ।
न विशश्राम चेतोऽस्य पवित्रेऽपि धरातले
32
Keep
केवलं सर्वमेवेदमपि शुद्धं धरातलम् ।
अशुद्धमिव पश्यन्स न रेमे क्वचिदेव हि
33
Keep
अथ संकल्पयामास स्वसंकल्पनयैव सः ।
वृक्षाग्रमेव संशुद्धं स्थितिस्तत्रोचिता मम
34
Keep
तदिदानीं तपस्तप्स्ये तपसा येन शाखिषु ।
खगवत्स्थितिमाप्नोमि शाखासु च दलेषु च
35
Keep
इति संचिन्त्य संज्वाल्य हुताशमतिभास्वरम् ।
जुहाव तस्मिन्प्रोत्कृत्त्य मांसं स्वस्कन्धभित्तितः
36
Keep
अथ गीर्वाणवृन्दस्य समग्रा गलभित्तयः ।
मन्मुखत्वेन मा यान्तु विप्रमांसेन भस्मताम्
37
Keep
इति संचिन्त्य भगवान्सप्तार्चिस्तस्य देवता ।
पुरो बभूव दीप्तांशुर्दीप्तांशुर्वाक्पतेरिव
38
Keep
उवाच वचनं धीरं कुमाराभिमतं वरम् ।
गृहाण स्थापितं साधो कोशाकाशान्मणिं यथा
39
Keep
इत्युक्तवन्तमनलमर्घपुष्पेण शोभिना ।
संपूज्य स्तुतिवादेन प्राह विप्रकुमारकः
40
Keep
भगवन् भूतपूर्णाया भुवः पावनमण्डलम् ।
नाप्नोमि तेन वृक्षाणामुपरि स्थितिरस्तु मे
41
Keep
। इत्युक्ते मुनिपुत्रेण सर्वदेवमुखं शिखी । ।
एवमस्तु तवेत्युक्त्वा जगामान्तर्द्धिमीश्वरः
42
Keep
तस्मिन्नन्तर्हिते देवे क्षणात्सान्ध्य इवाम्बुजे ।
पूर्णकामः कुमारोऽसौ पूर्णेन्दुरिव चाबभौ
43
Keep
अधिगताभिमताननमण्डल-
द्युतिभरेण जहास स तुष्टिमान् ।
शशिनमाप्तकलाकुलमम्बुजं
विकसितं च सितस्मितशोभिना
Previous
←
Sarga 47
Next
Sarga 49
→