Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 49
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अथ काननमध्यस्थं चुम्बिताम्बुदमण्डलम् ।
मध्याह्नखिन्नसूर्याश्वसेवितस्कन्धमण्डलम्
2
Keep
वितानमिव दिक्कुक्षिदीर्घं विटपबाहुभिः ।
आलोकयन्तं ककुभो विकासिकुसुमेक्षणैः
3
Keep
वातावधूलितानल्पभ्रमद्भ्रमरकुन्तलम् ।
प्रमार्जयन्तमाशानां मुखं पल्लवपाणिभिः
4
Keep
कच्छैरुरुगुड्डच्छाच्छमञ्जरीपुञ्जकञ्जरैः ।
आस्यैरिव सताम्बूलैर्हसन्तं वनमालिकाः
5
Keep
लताविलसितोल्लासैः पुष्पकेसरधूलिभिः ।
आबद्धमण्डलाभोगं पूर्णेन्दुमिव दीप्तिभिः
6
Keep
संकटं विटपावल्या कुञ्जकूजच्चकोरया ।
छन्नया सिद्धवीथ्येव जगदुच्चतया श्रितम्
7
Keep
स्कन्धपीठोपविष्टानां लम्बमानैः कलापिनाम् ।
कलापैः शोभितं व्योम सेन्द्रचापैरिवाम्बुदैः
8
Keep
मग्नोन्मग्नैः प्रतिस्कन्धमाश्रितैश्चमरैः सितैः ।
पूर्णं मुहुर्दृष्टनष्टैः संवत्सरमिवेन्दुभिः
9
Keep
कपिञ्जलकुलालापैः कलकोकिलकूजितैः ।
जीवंजीवविरावैश्च प्रगायन्तमिवोच्छ्रितैः
10
Keep
कादम्बककदम्बैश्च कुलायकृतकेलिभिः ।
स्वर्गकोटरविश्रान्तैः सिद्धैर्जगदिवावृतम्
11
Keep
प्रवालचलहस्ताभिरलिनेत्राभिराश्रितम् ।
अप्सरोभिरिव स्वर्गं मञ्जरीभिरितस्ततः
12
Keep
सेन्द्रचापविलासेन कुमुदोत्कररेणुना ।
मञ्जरीपिञ्जराश्यामं विद्युत्वन्तमिवाम्बुदम्
13
Keep
सहस्रभुजशाखाख्यं पूरिताकाशकोटरम् ।
विश्वरूपमिवोन्नृत्तं चन्द्रार्ककृतकुण्डलम्
14
Keep
तले निषण्णनागेन्द्रं व्योम्नि तारागणाकुलम् ।
लतापुष्पमयं मध्ये खमण्डलमिवापरम्
15
Keep
पितामहमिवाशेषशैलकाननशालिनम् ।
फलपल्लवपुष्पाणां कोशमेकमिवावनौ
16
Keep
दधानं कलिकाजालं स्थगितं पुष्पधूलिभिः ।
कच्छेष्वर्ककरच्छन्नताराजालमिवाम्बरम्
17
Keep
विलोलविहगैः स्कन्धैः कुलायकुलसंकुलैः ।
वलितं भूतलं लोके पूर्णैर्जनपदैरिव
18
Keep
मञ्जरीसुपताकाढ्यं लतामण्डलमण्डितम् ।
पुष्पमङ्कोलधवलं पुष्पप्रकरपूरितम्
19
Keep
कूजच्चकोरभ्रमरशुककोकिलसारिकम् ।
घनस्तबकसंछन्नकुहरोग्रगवाक्षकम्
20
Keep
संचरत्पक्षिबहुलं जनमन्थरकोटरम् ।
सर्वासां वनदेवीनामन्तःपुरमिवोत्तमम्
21
Keep
कूजद्भृङ्गतरङ्गौघैः पुष्पकेसरराजिभिः ।
राजमानं पतन्तीभिः सरिद्भिरिव पर्वतम्
22
Keep
भ्रमद्भिः पुष्पपत्रौघैर्मन्दवातविलासिभिः ।
वर्धमानैर्वृतस्कन्धं शुभ्राभ्रैरिव भूधरम्
23
Keep
मातङ्गकटघृष्टेन जानुस्तब्धेन पीठिना ।
आभोगिना बद्धपदं तरुणेव महाचलम्
24
Keep
विचित्रवर्णपक्षाणां स्कन्धकोटरचारिणाम् ।
वृतं खगानां वृन्देन भूतानामिव शार्ङ्गिणम्
25
Keep
स्तबकाङ्गुलिजालेन लोलेनाभिनयक्रियाम् ।
दिशन्तमिव वल्लीनां प्रवृत्तानां वनानिलैः
26
Keep
कश्चिदेव निवासो मे नार्थिनामिति तुष्टितः ।
नृत्यन्तमिव बह्वाढ्यलतावलयवल्गनैः
27
Keep
लताकान्तैककान्तत्वाच्छृङ्गाररसनिर्भरम् ।
काकल्येव प्रगायन्तं मत्तालिनिजनिःस्वनैः
28
Keep
आदरोन्मुक्तकुसुमं सिद्धानां व्योमचारिणाम् ।
स्वागतानीव कुर्वाणं कोकिलालिकुलारवैः
29
Keep
लतापुष्पफलोल्लासं प्रान्तपञ्चमहीरुहाम् ।
विहसन्तमिवाच्छाभिः पुष्पकुड्मलदीप्तिभिः
30
Keep
पारिजातमिवाजेतुमूर्ध्वगैः खगमण्डलैः ।
व्योमान्तराभिधावन्तमलमुद्धतकन्धरम्
31
Keep
मध्यभागस्फुरत्तुङ्गैः स्तबकैर्घनपङ्क्तिभिः ।
सहस्राक्षत्वमतुलैर्जेतुमिन्द्रमिवोद्यतम्
32
Keep
क्वचित्कुसुमगुच्छाच्छफणामणिगणावृतम् ।
पातालादुत्थितं शेषमिव व्योमदिदृक्षया
33
Keep
रजसोद्भूलिताकारं द्वितीयमिव शंकरम् ।
छायया फलशालिन्या समस्तजनशंकरम्
34
Keep
निबिडदलनिवाहभिन्नकोशैः कुसुमलतानवमण्डपैरुपेतम् ।
पुरमिव गगने कदम्बवृक्षं खगकुलनागरसंकुलं ददर्श
Previous
←
Sarga 48
Next
Sarga 50
→