Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 5
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
भगवन्सर्वधर्मज्ञ पूर्वापरविदां वर ।
अयं मनसि संसारः स्फारः कथमिव स्थितः
2
Keep
यथायं मनसि स्फारः संसारः स्फुरति स्फुरन् ।
दृष्टान्तदृष्ट्या स्फुटया तथा कथय मेऽनघ
3
Keep
यथैन्दवानां विप्राणां जगन्त्यवपुषामपि ।
स्थितानि जातदार्ढ्यानि मनसीदं तथा स्थितम्
4
Keep
लवणस्य यथा राज्ञश्चेन्द्रजालाकुलाकृतेः ।
चण्डालत्वमनुप्राप्तं तथेदं मनसि स्थितम्
5
Keep
भार्गवस्य चिरं कालं स्वर्गभोगबुभुक्षया ।
यथा भोगाधिनाथत्वं संसारित्वं बभूव च
6
Keep
भोगेश्वरत्वं च यथा तथेदं मनसि स्थितम् ।
भगवन्भृगुपुत्रस्य स्वर्गभोगबुभुक्षया
7
Keep
कथं भोगाधिनाथत्वं संसारित्वं बभूव च ।
श्रृणु राम पुरा वृत्तं संवादं भृगुकालयोः
8
Keep
सानौ मन्दरशैलस्य तमालविटपाकुले ।
पुरा मन्दरशैलस्य सानौ कुसुमसंकुले
9
Keep
अतप्यत तपो घोरं कस्मिंश्चिद्भगवान्भृगुः ।
तमुपास्ते स्म तेजस्वी बालः पुत्रो महामतिः
10
Keep
शुक्रः सकलचन्द्राभः प्रकाश इव भासुरः ।
भृगुर्वनवरे तस्मिन्समाधावेव संस्थितः
11
Keep
सर्वकालं समुत्कीर्णो वनोपलतलादिव ।
शुक्रः कुसुमशय्यासु कलधौताजिरेषु च
12
Keep
मन्दरोद्दामदोलासु बालो रमणलीलया ।
विद्याविद्यादृशोर्मध्ये शुक्रः प्राप्तमहापदः
13
Keep
त्रिशङ्कुरिव रोदोन्तरवर्तत तदाकुलः ।
निर्विकल्पसमाधिस्थे स कदाचित्पितर्यथ
14
Keep
अव्यग्रोऽभवदेकान्ते जितारिरिव भूमिपः ।
ददर्शाप्सरसं तत्र गच्छन्तीं नभसः पथा
15
Keep
क्षीरोदमध्यलुलितां लक्ष्मीमिव जनार्दनः ।
मन्दारमालावलितां मन्दानिलचलालकाम्
16
Keep
हारझाङ्कारिगमनां सुगन्धितनभोनिलाम् ।
लावण्यपादपलतां मदघूर्णितलोचनाम्
17
Keep
अमृतीकृततद्देशां देहेन्दूदयदीप्तिभिः ।
कान्तामालोक्य तस्याभूदुल्लसत्तरलं मनः
18
Keep
दृष्टनिर्मलपूर्णेन्दुवपुरम्बुनिधेरिव ।
साप्यालोक्य शुक्रमुखं तथा परवशा ह्यभूत्
19
Keep
मनसिजेषु पराहतमाशयं
स परिबोध्य मनस्तदनूशना ।
विगलितेतरवृत्तितयात्मना
स च वधूमय एव वभूव ह
Previous
←
Sarga 4
Next
Sarga 6
→