Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 4
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
इन्द्रियग्रामसंग्रामसेतुना भवसागरः ।
तीर्यते नेतरेणेह केनचिन्नाम कर्मणा
2
Keep
शास्त्रसत्संगमाभ्यासात्सविवेको जितेन्द्रियः ।
अत्यन्ताभावमेतस्य दृश्यस्याप्यवगच्छति
3
Keep
एतत्ते कथितं सर्वं स्वरूपं रूपिणां वर ।
संसारसागरश्रेण्यो यथा यान्ति प्रयान्ति च
4
Keep
बहुनात्र किमुक्तेन मनःकर्मद्रुमाङ्कुरः ।
तस्मिंश्छिन्ने जगच्छाखी छिन्नः कर्मतनुर्भवेत्
5
Keep
मनः सर्वमिदं राम तस्मिन्नन्तश्चिकित्सिते ।
चिकित्सितो वै सकलो जगज्जालामयो भवेत्
6
Keep
तदेतज्जायते लोके मनोमननमाकुलम् ।
मनसो व्यतिरेकेण देहः क्व किल दृश्यते
7
Keep
दृश्यात्यन्तासंभवेन ऋते नान्येन हेतुना ।
मनःपिशाचः प्रशमं याति कल्पशतैरपि
8
Keep
एतच्च संभवत्येव मनोव्याधिचिकित्सिते ।
दृश्यात्यन्तासंभवात्म परमौषधमुत्तमम्
9
Keep
मनो मोहमुपादत्ते म्रियते जायते मनः ।
तत्स्वचिन्ताप्रसादेन बध्यते मुच्यते पुनः
10
Keep
स्फुरतीदं जगत्सर्वं चित्ते मननमूर्च्छिते ।
शून्यमेवाम्बरे स्फारे गन्धर्वाणां पुरं यथा
11
Keep
मनसीदं जगत्कृत्स्नं स्फारं स्फुरति चास्ति च ।
पुष्पगुच्छ इवामोदस्तत्स्थं तस्मादिवेतरत्
12
Keep
यथा तिलकणे तैलं गुणो गुणिनि वा यथा ।
यथा धर्मिणि वा धर्मस्तथेदं चित्तके जगत्
13
Keep
रश्मिजालं यथा सूर्ये यथालोकस्तु तेजसि ।
यथौष्ण्यं चित्रभानौ च मनसीदं तथा जगत्
14
Keep
शैत्यं यथैव तुहिने यथा नभसि शून्यता ।
यथा चञ्चलता वायौ मनसीदं तथा जगत्
15
Keep
मनो जगज्जगदखिलं तथा मनः
परस्परं त्वविरहिते सदैव हि ।
तयोर्द्वयोर्मनसि निरन्तरं क्षिते
क्षितं जगन्नतु जगति क्षिते मनः
Previous
←
Sarga 3
Next
Sarga 5
→