Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 50
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
तमथासौ तथा बुद्धिफलपल्लवशालिनम् ।
आनन्दमन्थरमनाः षुष्परूपाचलोपमम्
2
Keep
कदम्बं रोदसीस्तम्भमारुरोह वनस्थितम् ।
एकार्णवगतं शौरिर्वटवृक्षमिवोन्नतम्
3
Keep
तत्रासौ व्योमलग्नायाः शाखायाः प्रान्तपल्लवे ।
विवेश विगताशङ्कमेकाग्रं तप आस्थितः
4
Keep
अथोपविश्य मृदुनि नवपल्लवविष्टरे ।
क्षणमालोकितास्तेन दिशः कौतुकचञ्चलम्
5
Keep
सरिदेकावलीरम्याः शैलेन्द्रस्तनकुड्मलाः ।
निर्मलाकाशकबरा लोलनीलाम्बुदालकाः
6
Keep
नीलपल्लववसनाः पुष्पपूरावतंसिकाः ।
गृहीतसागरापूर्णकलशाः पुरुभूषणाः
7
Keep
धृतप्रफुल्लपद्मिन्यः सुगन्धिमुखमारुताः ।
नीलघुंघुमकाकल्यो निर्झरारावनूपुराः
8
Keep
द्युमूर्धानो महीपादा वनालीरोमराजयः ।
जङ्गलोरुनितम्बिन्यश्चन्द्रार्ककृतकुण्डलाः
9
Keep
शालिसंसारकेदाराश्चन्दनस्थालिकान्विताः ।
शिखरोरसिजालग्नहिमशुभ्राम्बुदांशुकाः
10
Keep
महार्णवपयःपूरनवमण्डनदर्पणाः ।
ऋक्षौघघर्मपुलका भुवनान्तःपुरान्तराः
11
Keep
आर्तवस्तनधारिण्यो लग्नसूर्यांशुकुङ्कुमाः ।
विचित्रकुसुमोपेताश्चन्द्रांशुसितचन्दनाः
12
Keep
गगनगतलतादलोपविष्टः
प्रसृतवनावनिवारिवाहवेषाः ।
त्रिभुवनवनिता ददर्श हृष्टः
कुसुमनिरन्तरमण्डिता दशाशाः
Previous
←
Sarga 49
Next
Sarga 51
→