Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 50
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 4 — Sthiti
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
तमथासौ तथा
बुद्धिफलपल्लवशालिन
म् ।
आनन्दमन्थरमनाः षुष्परूपाचलोपमम्
2
Keep
कदम्बं रोदसीस्तम्भमारुरोह
वनस्थित
म् ।
एकार्णवगतं शौरिर्वटवृक्षमिवोन्नतम्
3
Keep
तत्रासौ व्योमलग्नायाः शाखायाः
प्रान्तपल्ल
वे ।
विवेश विगताशङ्कमेकाग्रं तप आस्थितः
4
Keep
अथोपविश्य मृदुनि
नवपल्लवविष्ट
रे ।
क्षणमालोकितास्तेन दिशः कौतुकचञ्चलम्
5
Keep
सरिदेकावलीरम्याः
शैलेन्द्रस्तनकुड्म
लाः ।
निर्मलाकाशकबरा लोलनीलाम्बुदालकाः
6
Keep
नीलपल्लववसनाः
पुष्पपूरावतंसि
काः ।
गृहीतसागरापूर्णकलशाः पुरुभूषणाः
7
Keep
धृतप्रफुल्लपद्मिन्यः
सुगन्धिमुखमारु
ताः ।
नीलघुंघुमकाकल्यो निर्झरारावनूपुराः
8
Keep
द्युमूर्धानो महीपादा
वनालीरोमराज
यः ।
जङ्गलोरुनितम्बिन्यश्चन्द्रार्ककृतकुण्डलाः
9
Keep
शालिसंसारकेदाराश्चन्दनस्थालिकान्वि
ताः ।
शिखरोरसिजालग्नहिमशुभ्राम्बुदांशुकाः
10
Keep
महार्णवपयःपूरनवमण्डनदर्प
णाः ।
ऋक्षौघघर्मपुलका भुवनान्तःपुरान्तराः
11
Keep
आर्तवस्तनधारिण्यो
लग्नसूर्यांशुकुङ्कु
माः ।
विचित्रकुसुमोपेताश्चन्द्रांशुसितचन्दनाः
12
Keep
गगनगतलतादलोपविष्टः
प्रसृतवनावनिवारिवाहवे
षाः ।
त्रिभुवनवनिता ददर्श हृष्टः
कुसुमनिरन्तरमण्डिता दशाशाः
Previous
←
Sarga 49
Next
Sarga 51
→