Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 1
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अथ स्थितिप्रकरणादनन्तरमिदं श्रृणु ।
उपशमप्रकरणं ज्ञातं निर्वाणकारि यत्
2
Keep
श्रीवाल्मीकिरुवाच ।
शरत्तारकिताकाशस्तिमितायां सुसंसदि ।
कथयत्येवमाह्लादि वसिष्ठे पावनं वचः
3
Keep
श्रवणार्थित्वमौनस्थपार्थिवे संसदन्तरे ।
निर्वात इव निस्पन्दकमले कमलाकरे
4
Keep
विलासिनीषु संशान्तमदमोहबलासु च ।
शममन्तः प्रयान्तीषु चिरप्रव्रजितास्विव
5
Keep
कराम्भोरुहहंसेषु लीनेषु श्रवणादिव ।
मुक्तघुर्घुरवादेषु वायसेषु तराविव
6
Keep
नासाग्रपरिविश्रान्ततर्जन्यङ्गुलिकोटिषु ।
विचारयत्सु विज्ञानकलां तज्ज्ञेषु राजसु
7
Keep
रामे विकासमायाते प्रभात इव पङ्कजे ।
परित्यक्ततमः पीठे सूर्योदय इवाम्बरे
8
Keep
आकर्णयति वासिष्ठीर्गिरो दशरथे रसात् ।
कलापिनीव जीमूतनिर्ह्रादान्मुक्तवर्षणात्
9
Keep
आहृत्य सर्वभोगेभ्यो मनो मर्कटचञ्चलम् ।
श्रवणं प्रति यत्नेन सारेण मन्त्रिणि स्थिते
10
Keep
वसिष्ठोक्त्या परिज्ञातस्वात्मनीन्दुकलामले ।
लक्ष्मणे विलसल्लक्ष्ये शिक्षावलविचक्षणे
11
Keep
शत्रुघ्ने शत्रुदलने चेतसा पूर्णतां गते ।
अलमानन्दमायाते राकाचन्द्रोपमे स्थिते
12
Keep
सुमित्रे मित्रतां याते मानसे दुःखशीलिते ।
विकासिहृदये जाते तत्काल इव पंकजे
13
Keep
तत्रस्थेषु तथान्येषु तदा मुनिषु राजसु ।
सुधौतचित्तरत्नेषु प्रोल्लसत्स्विव चेतसा
14
Keep
उदभूत्पूरयन्नाशाः कल्पाभ्ररवमांसलः ।
अथ मध्याह्नशंखानामब्धिघोषसमः स्वनः
15
Keep
महता तेन शब्देन तिरोधानं मुनेर्गिरः ।
ययर्जलदनादेन कोकिलध्वनयो यथा
16
Keep
मुनिरन्तरयांचक्रे स्वां वाचमथ संसदि ।
जितसारो गुणः केन महता समुदीर्यते
17
Keep
मुहूर्तमात्रं विश्रम्य श्रुत्वा मध्याह्ननिःस्वनम् ।
घने कोलाहले शान्ते रामं मुनिरुवाच ह
18
Keep
रामाद्यतनमेतावदाह्णिकं कथितं मया ।
प्रातरन्यत्तु वक्ष्यामो वक्तव्यमरिमर्दन
19
Keep
इदं नियतितः प्राप्तं कर्तव्यं तद्विजन्मनाम् ।
मध्याह्नमुपपन्नं यत्कर्तव्यं नावसीदति
20
Keep
त्वमप्युत्तिष्ठ सुभग समस्ताचारसत्क्रियाम् ।
आचराचारचतुरस्नानदानार्चनादिकाम्
21
Keep
इत्युक्त्वा मुनिरुत्तस्थौ समं दशरथः प्रभुः ।
ससदाः सेन्दुरादित्य उदयाद्रितटादिव
22
Keep
तयोरुत्तिष्ठतो सर्वा सभोत्थातुमकम्पत ।
मन्दवातपरामृष्टा नलिनीवालिलोचना
23
Keep
उत्तस्थौ सावतंसोत्थभृंगमण्डलमण्डिता ।
करिसेनेव सन्ध्याद्रावालोलकरपुष्करा
24
Keep
परस्परांगसंघट्टचूर्णितांगदमण्डली ।
रत्नपूर्णारुणाम्भोदसन्ध्यासमयसूचनी
25
Keep
पतदुत्तंसविभ्रान्तभृंगोपहितघुंघुमा ।
मुकुटोद्दामविद्योतशक्रचापीकृताम्वरा
26
Keep
कान्तालताहस्तदलचारुचामरमंजरी ।
वनलेखेव विक्षुब्धवरवारणमण्डला
27
Keep
कचत्कटकभारक्तीकृतान्योन्यतताम्बरा ।
वातव्याधूतपुष्पेव मन्दारवनमालिका
28
Keep
कर्पूरकणनीहाररचितामलवारिदा ।
शरहिक्तटमालेव प्रसृताशेषभूमिका
29
Keep
लोलमौलिमणिप्रान्तपाटलाम्बरकोटरा ।
संध्येवाफुल्लनीलाला कार्यसंहारकारिणी
30
Keep
रत्नांशुसलिलापूरमुखपद्मनिरन्तरा ।
पद्मिनीवालिवलिता नूपुरारवसारसा
31
Keep
संतता सा सभोत्तस्थौ भूभृच्छतसमाकुला ।
भूतसंततिसंभ्रान्ता सृष्टिर्नवमिवोदिता
32
Keep
प्रणम्याथ नृपं भूपा निर्ययुर्नृपमन्दिरात् ।
शक्रचापीकृता रत्नैरम्बुधेरिववीचयः
33
Keep
सुमन्त्रो मन्त्रिणश्चैव वसिष्ठमथ भूमिपम् ।
प्रणम्य जग्मुः स्नानाय रसविज्ञानकोविदाः
34
Keep
वामदेवादयश्चान्ये विश्वामित्रादयस्तथा ।
वसिष्ठं पुरतः कृत्वा तस्थुरावर्जनोन्मुखाः
35
Keep
राजा दशरथस्तत्र पूजयित्वा मुनिव्रजम् ।
तद्विसृष्टो जगामाथ स्वकार्यार्थमरिन्दमः
36
Keep
वनं वनास्पदा जग्मुर्व्योम व्योमनिवासिनः ।
नगरं नागराश्चैव प्रातरागमनाय ते
37
Keep
महीपतिवसिष्ठाभ्यां प्रणयात्प्रार्थितः प्रभुः ।
वसिष्ठसद्मनि निशां विश्वामित्रोऽत्यवाहयत्
38
Keep
वसिष्ठः सह विप्रेन्द्रैः पार्थिवैर्मुनिभिस्तथा ।
उपास्यमानो रामाद्यैः सर्वैर्दशरथात्मजैः
39
Keep
जगाम स्वाश्रमं श्रीमान्सर्वलोकनमस्कृतः ।
अनुयातः सुरौघेन ब्रह्मलोकमिवाब्जजः
40
Keep
तस्मात्प्रदेशाद्रामादीन्पुनर्दशरथात्मजान् ।
सर्वान्विसर्जयामास पादोपान्ते नतानसौ
41
Keep
नभश्चरान्धरणिचरानधश्चरान्विसृज्य संस्तुतगुणगोचरांश्च तान् ।
यथाक्रमं स्वगृहमुदारसत्त्ववांश्चकार तां द्विजजनवासरक्रियाम्
Previous
←
Sarga 62
Next
Sarga 2
→