Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 2
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
श्रीवाल्मीकिरुवाच ।
ते समेत्य गृहं गत्वा राजपुत्राः शशित्विषः ।
चक्रुः सर्वमशेषेण स्वसद्मसु दिनक्रमम्
2
Keep
वसिष्ठो राघवश्चैव राजानो मुनयो द्विजाः ।
इति चक्रुः स्वकार्याणि तथा स्वगृहवीथिषु
3
Keep
सस्नुः कमलकह्लारकुमुदोत्पलहारिषु ।
जलाशयेषु चक्राह्वहंससारसराजिषु
4
Keep
गोभूतिलहिरण्यानि शयनान्यासनानि च ।
ददुर्दानानि विप्रेभ्यो भाजनान्यंशुकानि च
5
Keep
हेमरत्नविचित्रेषु स्वेषु चामरसद्मसु ।
आनर्चुरच्युतेशानहुताशार्कादिकान्सुरान्
6
Keep
पुत्रपौत्रसुहृद्भृत्यबन्धुमित्रगणैः सह ।
तत आस्वादयामासुर्भोजनान्युचितानि वै
7
Keep
एतस्मिन्समये चास्मिन्नगरे दिवसोऽभवत् ।
तनुरष्टाङ्गशेषत्वाद्दृष्टो न च मनोहरः
8
Keep
सायन्तनदिनान्तं ते तत्कालोचितचेष्टया ।
अनयन्नंशुभिः सार्धं यावदस्तं ययौ रविः
9
Keep
संध्यां ववन्दिरे सुष्टु जेपुश्चैवाघमर्षणम् ।
पेठुः स्तोत्राणि पुण्यानि जगुर्गाथा मनोहराः
10
Keep
ततश्चाभ्युदिता श्यामा कामिनीशोकहारिणी ।
क्षीरोदादिव माहेन्द्री चन्द्रावश्यायदायिनी
11
Keep
शनैरास्तीर्णपुष्पेषु कीर्णकर्पूरमुष्टिषु ।
दीर्घेन्दुबिम्बरम्येषु तस्थुस्तल्पेषु राघवाः
12
Keep
अथ रामादृतेऽन्येषां तत्र तद्व्यवहारिणी ।
व्यतीयाय शनैः श्यामा मुहूर्त इव शोभना
13
Keep
तस्थौ रामस्तु तामेव वासिष्ठीं वचनावलीम् ।
चिन्तयन्मधुरोदारां करिणीं कलभो यथा
14
Keep
किमिदं नाम संसारभ्रमणं किमिमे जनाः ।
भूतानि च विचित्राणि किमायान्ति प्रयान्ति किं
15
Keep
मनसः कीदृशं रूपं कथं चैतत्प्रशाम्यति ।
मायेयं सा किमुत्था स्यात्कथं चैव निवर्तते
16
Keep
निवृत्तयानया कः स्याद्गुणो दोषोऽथ वा भवेत् ।
कथमात्मनि चैवायं तते संकोच आगतः
17
Keep
किमुक्तं स्याद्भगवता मुनिना मनसः क्षये ।
किं चेन्द्रियजये प्रोक्तं किमुक्तमथवात्मनि
18
Keep
जीवश्चित्तं मनो मायेत्येवमादिभिराततैः ।
रूपैरात्मैव संसारं तनोतीममसन्मयम्
19
Keep
एभिरेवं मनोमात्रतन्तुबद्धैः क्षयं गतैः ।
दुःखोपशान्तिरेतानि सुचिकित्स्यानि नः कथम्
20
Keep
भोगाभ्रमालावलयां धीबलाकामिमां कथम् ।
पृथक्करोमि पयसो धारां हंस इवाम्भसः
21
Keep
भोगास्त्यक्तुं न शक्यन्ते तत्त्यागेन विना वयम् ।
प्रभवामो न विपदामहो संकटमागतम्
22
Keep
मनोमात्रमिदं प्राप्यं तथैवेदं प्रयोजनम् ।
संपन्नं नो गिरिगुरु मौर्ख्याद्यक्षः शिशोरिव
23
Keep
परमां शान्तिमागत्य गतसंसारसंभ्रमा ।
बालेव लब्धदयिता कंचित्प्राप्स्यति नो मतिः
24
Keep
कदोपशान्तसंरम्भं विगताशेषकौतुकम् ।
अपापमात्मविश्रान्तं मम स्यात्पावनं मनः
25
Keep
कलाकलापसंपूर्णाच्छशाङ्कादपि शीतले ।
पदे सुरूढं विश्रम्य भ्रमिष्यामि कदा जगत्
26
Keep
कलनापेलवं रूपमुत्सृज्यालीनमात्मनि ।
कदैष्यति मनः शान्तिमम्भसीव तरङ्गकः
27
Keep
तृष्णातरङ्गाकुलितमाशामकरमालिनम् ।
कदा संसारजलधिं तीर्त्वा स्यामहमज्वरः
28
Keep
कदोपशमशुद्धासु पदवीषु विचक्षणाः ।
मुमुक्षूणां निवत्स्यामो निःशोकं समदर्शनाः
29
Keep
संतापितसमस्ताङ्गः सर्वधातुभयंकरः ।
संसृतिज्वर आदीर्घः कदा नाशमुपैष्यति
30
Keep
निर्वातदीपलेखेव कदा चित्तं गतव्यथम् ।
शममेष्यति हे बुद्धे सुप्रकाशघनान्तरम्
31
Keep
कदेन्द्रियाणि दुःखेभ्यः संतरिष्यन्ति हेलया ।
दुरीहादग्धदेहानि गरुत्मन्त इवार्णवान्
32
Keep
अयं सोऽहं रुदन्मूढ इति व्यर्थाहितो भ्रमः ।
शरदीवासितो मेघः कदा नाशमुपैष्यति
33
Keep
मन्दारवनलेखासु या मतिः सा तृणायते ।
याचे तत्पदमात्मीयं संप्राप्स्यामः कदा वयम्
34
Keep
वीतरागजनप्रोक्ता निर्मला ज्ञानदृष्टयः ।
कच्चित्पदं त्वयि मनः करिष्यन्तीति मे वद
35
Keep
हा तात मातः पुत्रेति गिरामासामहं पुनः ।
भाजनं चित्त माभूवं भोजनं दुःखभोगिनाम्
36
Keep
हे बुद्धे भगिनि भ्रातुरर्थितां पूरयाशु मे ।
आवयोर्दुःखमोक्षाय विचारय मुनेर्गिरः
37
Keep
त्वां पादपतितः प्रीत्या याचे सति सुते मते ।
तेन भव्ये भवोच्छेदभूतये सुस्थिरा भव
38
Keep
वसिष्ठमुनिना प्रोक्ता विरक्ताः प्रथमं गिरः ।
ततो मुमुक्षोराचार उत्पत्तीनां क्रमस्ततः
39
Keep
ततः स्थितिप्रकरणं समं दृष्टान्तसुन्दरम् ।
विज्ञानगर्भसुलभं यथावत्स्मर हे मते
40
Keep
कृतमतिं शतशो विचारितं यद्यदि तदुपैति न मानसस्य बुद्धिः ।
भवति तदफलं शरद्धनाभं सततमतो मतिरेव कार्यसारः
Previous
←
Sarga 1
Next
Sarga 3
→