Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 4
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
श्रीवाल्मीकिरुवाच ।
मेघगम्भीरया वाचा विश्रब्धपदसुन्दरम् ।
इदं दशरथो वाक्यमुवाच मुनिनायकम्
2
Keep
भगवन्ह्यस्तनेन त्वं वाक्यसंदर्भजन्मना ।
कच्चिन्मुक्तोऽसि खेदेन तपःकार्श्यातिशायिना
3
Keep
ह्यस्तनोक्तो य आनन्दी विविक्तो वचसां गणः ।
अमृतावर्षणेनेव तेनैवाश्वासिता वयम्
4
Keep
चन्द्रांशव इवोत्सार्य तमांस्यमृतनिर्मलाः ।
अन्तःशीतलयन्त्येता महताममला गिरः
5
Keep
अपूर्वाह्लाददायिन्य उच्चैस्तरपदाश्रयाः ।
अतिमोहापहारिण्यः सूक्तयो हि महीयसाम्
6
Keep
आत्मरत्नावलोकैकदीपिका सरसात्मिका ।
यमाद्युक्तिलतोदेति स वन्द्यः सुजनद्रुमः
7
Keep
दुरीहितं दुर्विहितं सर्व सज्जनसूक्तयः ।
प्रमार्जयन्ति शीतांशोस्तमःकाण्डमिवाङ्घ्रयः
8
Keep
तृष्णालोभादयोऽस्माकं संसारनिगडा मुने ।
तवोक्त्या तनुतां याताः शरदीवासिताम्बुदाः
9
Keep
संप्रवृत्ता वयं द्रष्टुमात्मानमपकल्मषम् ।
रसाञ्जनानीतदृशो जात्यन्धा इव काञ्चनम्
10
Keep
संसारवासनानाम्नी मिहिका हृदयाम्बरे ।
प्रवृत्ता तनुतां गन्तुं त्वदुक्तिशरदेव नः
11
Keep
मुने मन्दारमञ्जर्यस्तरङ्गा वामृताम्भसः ।
न तथा ह्लादयन्त्यन्तर्यथोदारधियां गिरः
12
Keep
यद्यद्राघव संयाति महाजनसपर्यया ।
दिनं तदिह सालोकं शेषास्त्वन्धा दिनालयः
13
Keep
राम राजीवपत्राक्ष प्रकृतार्थमिहाव्ययम् ।
मुनिमाबोधय पुनः प्रसादे समवस्थितम्
14
Keep
इत्युक्तो भूभृता तत्र रामाभिमुखमास्थितः ।
उवाचेदमुदारात्मा वसिष्ठो भगवान्मुनिः
15
Keep
राघव स्वकुलैकेन्दो यन्मयोक्तं महामते ।
कच्चित्स्मरसि वाक्यार्थं पूर्वापरविचारितम्
16
Keep
उत्पत्तीनां विचित्राणां सत्त्वादिगुणभेदतः ।
कच्चित्स्मरसि सर्वासां विभागमरिमर्दन
17
Keep
कश्चित्सर्वमसर्वं च सदसच्च सदोदितम् ।
रूपं स्मरसि वेत्स्येव विविक्तं परमात्मनः
18
Keep
यथेदमुदितं विश्वं विश्वेशादेव चेश्वरात् ।
कच्चित्स्मरसि तत्साधो साधुवादैकभाजन
19
Keep
रूपं कच्चिदविद्याया बलाद्भङ्गुरमाततम् ।
अनन्तमन्तवच्चैव सम्यक्स्मरसि सन्मते
20
Keep
चित्तमेव नरो नान्यदिति यत्प्रतिपादितम् ।
लक्षणादिविचारेण कच्चित्स्मरसि साधु तत्
21
Keep
वाक्यार्थश्चाखिलः कच्चित्त्वया राम विचारितः ।
ह्यस्तनस्य विचारस्य रात्रौ हृदि निवेशितः
22
Keep
भूयोभूयः परामृष्टं हृदये सुनियोजितम् ।
प्रयोजनं फलत्युच्चैर्न हेलाहतसंस्थितेः
23
Keep
भाजनं त्वं विविक्तानां वचसां शुद्धिशालिनाम् ।
विविक्तहृदयः कण्ठे मुक्तानामिव राघव
24
Keep
श्रीवाल्मीकिरुवाच ।
कमलासनपुत्रेण मुनिना समहौजसा ।
एवं वितीर्णावसरो रामो वाक्यमुवाच ह
25
Keep
भगवन्सर्वधर्मज्ञ तवैवैतद्विजृम्भितम् ।
यदहं परमोदारो बुद्धवान्वचनं तव
26
Keep
यदादिशसि तत्सर्वं तथैव न तदन्यथा ।
अपास्तनिद्रेण मया वाक्यार्थो हृदि चिन्तितः
27
Keep
भवान्धकारक्षतये भवतोक्तिविवस्वता ।
ह्यः प्रसादितमाह्लादि वाग्रश्मिपटलं प्रभो
28
Keep
तदतीतमदीनात्मन्सर्वमन्तःकृतं मया ।
रम्यं पुण्यं पवित्रं च रत्नवृन्दमिवान्वितम्
29
Keep
हितानुबन्धि हृद्यं च पुण्यमानन्दसाधनम् ।
शिरसा ध्रियते कैर्नो सिद्धैस्त्वदनुशासनम्
30
Keep
प्रतिक्षिपन्तः संसारमिहिकावरणं वयम् ।
प्रसन्नास्त्वत्प्रसादेन वर्षान्त इव वासराः
31
Keep
आपातमधुरारम्भं मध्ये सौभाग्यवर्धनम् ।
अनुत्तमफलोदर्कं पुण्यं त्वदनुशासनम्
32
Keep
विकासिसितमम्लानमाह्लादितशुभाशुभम् ।
त्वद्वचःकुसुमं नित्यं श्रीमत्फलदमस्तु नः
33
Keep
सकलशास्त्रविचारविशारद प्रसृतपुण्यजलैकमहाह्रद ।
भज भृशं विततव्रत संप्रति प्रसृततां हतकिल्बिष संततिम्
Previous
←
Sarga 3
Next
Sarga 5
→