Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 5
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
इदमुत्तमसिद्धान्तसुन्दरं सुन्दराकृते ।
उपशान्तिप्रकरणं श्रृणुष्वावहितो हितम्
2
Keep
दीर्घसंसारमायेयं राम राजसतामसैः ।
धार्यते जन्तुभिर्नित्यं सुस्तम्भैरिव मण्डपः
3
Keep
सत्त्वस्यजातिभिर्धीरैस्त्वादृशैर्गुणबृंहितैः ।
हेलया त्यज्यते पक्वा मायेयं त्वगिवोरगैः
4
Keep
ये सत्त्वजातयः प्राज्ञास्तथा राजससात्त्विकाः ।
विचारयन्ति ते साधो जगत्पूर्वपरम्पराम्
5
Keep
शास्त्रसज्जनसत्कार्यसङ्गेनोपहतैनसाम् ।
सारावलोकिनी बुद्धिर्जायते दीपिकोपमा
6
Keep
स्वयमेव विचारेण विचार्यात्मानमात्मना ।
यावन्नाधिगतं ज्ञेयं न तावदधिगम्यते
7
Keep
प्रज्ञावतां नयवतां धीराणां कुलशालिनाम् ।
जात्या राजससत्त्वानां मुख्यस्त्वं रघुनन्दन
8
Keep
स्वयमालोकय प्राज्ञ संसारारम्भदृष्टिषु ।
किं सत्यं किमसत्यं वा भव सत्यपरायणः
9
Keep
आदावन्ते च यन्नास्ति कीदृशी तस्य सत्यता ।
आदावन्ते च यन्नित्यं तत्सत्यं नाम नेतरत्
10
Keep
आद्यन्तासन्मये यस्य वस्तुन्यासज्जते मनः ।
तस्य मुग्धपशोर्जन्तोर्विवेकः केन जन्यते
11
Keep
जायते मन एवेह मन एव विवर्धते ।
सम्यग्दर्शनदृष्ट्या तु मन एव हि मुच्यते
12
Keep
ज्ञातमेतन्मया ब्रह्मन्यथास्मिन्भुवनत्रये ।
मन एव हि संसारिजरामरणभाजनम्
13
Keep
यस्तस्योत्तरणोपायस्तन्मे ब्रूहि सुनिश्चितम् ।
हार्दं तमस्त्वयार्केण राघवाणां विनाश्यते
14
Keep
पूर्वं राघव शास्त्रेण वैराग्येण परेण च ।
तथा सज्जनसङ्गेन नीयतां पुण्यतां मनः
15
Keep
सौजन्योपहितं चेतो यदा वैराग्यमागतम् ।
तदानुगम्या गुरवो विज्ञानगुरवोऽपि ये
16
Keep
ततस्तस्योपदिष्टेन कृत्वा ध्यानार्चनादिकम् ।
क्रमेण पदमाप्नोति तद्यत्परमपावनम्
17
Keep
विचारेणावदातेन पश्यत्यात्मानमात्मना ।
इन्दुना शीतलेनान्तर्विश्वं खमिव तेजसा
18
Keep
तावद्भवमहाम्भोधौ जनस्तृणवदुह्यते ।
विचारतटविश्रान्तिमेति यावन्न चेतसा
19
Keep
विचारेण परिज्ञातवस्तुनोऽस्य जनस्य धीः ।
सर्वानधःकरोत्याधीन्सौम्याम्भ इव वालुकाः
20
Keep
इदं रुक्ममिदं भस्म परिज्ञातमिति स्फुटम् ।
न यथा हेमकारस्य हेमज्ञानात्मनस्तथा
21
Keep
अक्षयोऽयं मनागात्मा स्वात्मन्यवगते चिरम् ।
भवतीति नरस्येह मोहस्यावसरः कुतः
22
Keep
अपरिज्ञातसारे हि मनोऽन्तर्यदि मुह्यते ।
ज्ञातसारे त्वसंदिग्धमसती किल मूढता
23
Keep
हे जना अपरिज्ञात आत्मा वो दुःखसिद्धये ।
परिज्ञातस्त्वनन्ताय सुखायोपशमाय च
24
Keep
मिश्रीभूतमिवानेन देहेनोपहतात्मना ।
व्यक्तीकृत्य स्वमात्मानं स्वस्था भवत मा चिरम्
25
Keep
देहेनास्य न संबन्धो मनागेवामलात्मनः ।
हेम्नः पङ्कलवेनेव तद्गतस्यापि मानवाः
26
Keep
पृथगात्मा पृथग्देही जलपद्मलवोपमौ ।
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे
27
Keep
जडधर्मि मनो यावद्गर्तकच्छपवत्स्थितम् ।
भोगमार्गवदामूढं विस्मृतात्मविचारणम्
28
Keep
तावत्संसारतिमिरं सेन्दुनापि सवह्निना ।
अर्कद्वादशकेनापि मनागपि न भिद्यते
29
Keep
संप्रबुद्धे हि मनसि स्वां विवेचयति स्थितिम् ।
नैशमर्कोदय इव तमो हार्दं पलायते
30
Keep
नित्यमुत्तमबोधाय योगशय्यागतं मनः ।
बोधयेद्भवभेदाय भवो ह्यत्यन्तदुःखदः
31
Keep
यथा रजोभिर्गगनं यथा कमलमम्बुभिः ।
न लिप्यते हि संश्लिष्टैर्देहैरात्मा तथैव च
32
Keep
कर्दमादि यथा हेम्ना श्लिष्टिमेति पृथक्स्थितम् ।
नान्तःपरिणतिं याति जडो देहस्तथात्मना
33
Keep
सुखदुःखानुभावित्वमात्मनीत्यवबुध्यते ।
असत्यमेव गगने बिन्दुताम्लानते यथा
34
Keep
सुखदुःखे न देहस्य सर्वातीतस्य नात्मनः ।
एते ह्यज्ञानकस्यैव तस्मिन्नष्टे न कस्यचित्
35
Keep
न कस्यचित्सुखं किंचिद्दुःखं च नच कस्यचित् ।
सर्वमात्ममयं शान्तमनन्तं पश्य राघव
36
Keep
इमा याः परिदृश्यन्ते वितताः सृष्टिदृष्टयः ।
पयसीव तरङ्गास्ते पिच्छं व्योम्नीव चात्मनि
37
Keep
यथा मणिर्ददात्यात्मच्छायाः स्वयमकारणम् ।
तेजोमयीस्तथैवायमात्मा सृष्टीः प्रयच्छति
38
Keep
आत्मा जगच्च सुमते नैकं न द्वैतमप्यसत् ।
आभासमात्रमेवेदमित्थं संप्रति जृम्भते
39
Keep
समस्तं खल्विदं ब्रह्म सर्वमात्मैवमाततम् ।
अहमन्यदिदं चान्यदिति भ्रान्तिं त्यजानघ
40
Keep
तते ब्रह्मघने नित्ये संभवन्ति न कल्पनाः ।
विच्छित्तयः पयोराशौ यथा राम न सन्मयाः
41
Keep
एकस्मिन्नेव सर्वस्मिन्परमात्मनि वस्तुनि ।
द्वितीया कल्पना नास्ति वह्नौ हिमकणा यथा
42
Keep
भावयन्नात्मनात्मानं चिद्रूपेणैव चिन्मयम् ।
ऋजूज्ज्वलमये ह्यात्मा स्वयमात्मनि जृम्भते
43
Keep
न शोकोस्ति न मोहोस्ति न जन्मास्ति न जन्मवान् ।
यदस्तीह तदेवास्ति विज्वरो भव राघव
44
Keep
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ।
अद्वितीयो विशोकात्मा विज्वरो भव राघव
45
Keep
समः स्वस्थः स्थिरमतिः शान्तशोकमना मुनिः ।
मौनी वरमणिस्वच्छो विज्वरो भव राघव
46
Keep
विविक्तः शान्तसंकल्पो धीरधीर्विजिताशयः ।
यथाप्राप्तानुवर्ती च विज्वरो भव राघव
47
Keep
वीतरागो निरायासो विमलो वीतकल्मषः ।
नादाता न परित्यागी विज्वरो भव राघव
48
Keep
विश्वातीतपदं प्राप्तः प्राप्तप्राप्तव्यपूरितः ।
पूर्णार्णववदक्षुब्धो विज्वरो भव राघव
49
Keep
विकल्पजालनिर्मुक्तो मायाञ्जनविवर्जितः ।
आत्मनात्मनि तृप्तात्मा विज्वरो भव राघव
50
Keep
अनन्तापारपर्यन्तवपुरात्मविदांवर ।
धराधरशिरोधीरो विज्वरो भव राघव
51
Keep
यथाप्राप्तानुभवनात्सर्वत्रानभिवाञ्छनात् ।
त्यागादानपरित्यागाद्विज्वरो भव राघव
52
Keep
आत्मन्येवात्मनौदार्यं भज पूर्णं इवार्णवः ।
आत्मन्येवात्मनाह्लादं भज पूर्णन्दुबिम्बवत्
53
Keep
विश्वप्रपञ्चरचनेयमसत्यरूपा
नासत्यरूपमनुधावति राम तज्ज्ञः ।
तज्ज्ञोऽसि शान्तकलनोऽसि निरामयोऽसि
नित्योदितोऽसि भव सुन्दर शान्तशोकः
54
Keep
एकातपत्रमवनौ गुरुणोपदिष्टं
सम्यक्सुपालय चिरं समयेह दृष्ट्या ।
राज्यं समस्तगुणरञ्जितराजलोक-
स्त्वाशो न युक्तइह कर्मसु नापि रागः
Previous
←
Sarga 4
Next
Sarga 6
→