Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 43
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
भगवन्सर्वधर्मज्ञ
शुद्धैस्त्वद्वचनांशु
भिः ।
निर्वृताः स्म शशाङ्कस्य करैरोषधयो यथा
2
Keep
कर्णाभिवाञ्छ्यमानानि पवित्राणि मृदूनि
च ।
सुखयन्ति गृहीतानि पुष्पाणीव वचांसि ते
3
Keep
पौरुषेण प्रयत्नेन सर्वमासाद्यते
य
दि ।
प्रह्लादस्तत्कथं बुद्धो न माधववरं विना
4
Keep
यद्यद्राघव संप्राप्तं प्रह्लादेन
महात्म
ना ।
तत्तदासादितं तेन पौरुषादेव नान्यतः
5
Keep
आत्मा नारायणश्चैव न
भिन्नस्तिलतैलव
त् ।
तथैव शौक्ल्यपटवत्कुसुमामोदवत्तथा
6
Keep
यो हि विष्णुः स एवात्मा यो ह्यात्मासौ
जनार्द
नः ।
विष्ण्वात्मशब्दौ पर्यायौ यथा विटपिपादपौ
7
Keep
प्रह्लादनामा प्रथममात्मैव
स्वयमात्म
ना ।
स्वयैव परया शक्त्या विष्णुभक्तौ नियोजितः
8
Keep
प्रह्लादो ह्यात्मनैवैनं
वरमर्जितवान्स्वय
म् ।
स्वत्रं विचारगं कृत्वा स्वयं विदितवान्मनः
9
Keep
कदाचिदात्मनैवात्मा स्वयं शक्त्या
प्रबुध्य
ते ।
कदाचिद्विष्णुदेहेन भक्तिलभ्येन बोध्यते
10
Keep
चिरमाराधितोऽप्येष
परमप्रीतिमान
पि ।
नाविचारवतो ज्ञानं दातुं शक्नोति माधवः
11
Keep
मुख्यः पुरुषयत्नोत्थो विचारः
स्वात्मदर्श
ने ।
गौणो वरादिको हेतुर्मुख्यहेतुपरो भव
12
Keep
पूर्वमेव
बलात्तस्मादाक्रम्येन्द्रियपञ्चक
म् ।
अभ्यसन्सर्वयत्नेन चित्तं कुरु विचारवत्
13
Keep
यद्यदासाद्यते किंचित्केनचित्क्वचिदेव
हि ।
स्वशक्तिसंप्रवृत्त्या तल्लभ्यते नान्यतः क्वचित्
14
Keep
पौरुषं यत्नमाश्रित्य
प्रोल्लङ्घ्येन्द्रियपर्वत
म् ।
संसारजलधिं तीर्त्वा पारं गच्छ परं पदम्
15
Keep
विना पुरुषयत्नेन दृश्यते
चेज्जनार्द
नः ।
मृगपक्षिगणं कस्मात्तदासौ नोद्धरत्यजः
16
Keep
गुरुश्चेदुद्धरत्यज्ञमात्मीयात्पौरुषादृ
ते ।
उष्ट्रं दान्तं बलीवर्दं तत्कस्मान्नोद्धरत्यसौ
17
Keep
न हरेर्न गुरोर्नार्थात्किंचिदासाद्यते
मह
त् ।
आक्रान्तमनसः स्वस्माद्यदासादितमात्मनः
18
Keep
अभ्यासवैराग्ययुतादाक्रान्तेन्द्रियपन्नगा
त् ।
नात्मनः प्राप्यते यत्तत्प्राप्यते न जगत्त्रयात्
19
Keep
आराधयात्मनात्मानमात्मनात्मानमर्च
य ।
आत्मनात्मानमालोक्य संतिष्ठस्वात्मनात्मनि
20
Keep
शास्त्रयत्नविचारेभ्यो मूर्खाणां
प्रपलायिना
म् ।
कल्पिता वैष्णवी भक्तिः प्रवृत्त्यर्थं शुभस्थितौ
21
Keep
अभ्यासयत्नौ प्रथमं मुख्यो
विधिरुदाहृ
तः ।
तदभावे तु गौणः स्यात्पूज्यपूजामयक्रमः
22
Keep
अस्ति चेदिन्द्रियाक्रान्तिः किं प्राप्यं पूजनैः
फल
म् ।
नास्तिचेदिन्द्रियाक्रान्तिः किं प्राप्यं पूजनैः फलम्
23
Keep
विचारोपशमाभ्यां हि न विनासाद्यते
ह
रिः ।
विचारोपशमाभ्यां च मुक्तस्याब्जकरेण किम्
24
Keep
विचारोपशमोपेतं
चित्तमाराधयात्म
नः ।
तस्मिन्सिद्धे भवान्सिद्धो नो चेत्त्वं वनगर्दभः
25
Keep
क्रियते माधवादीनां प्रणयप्रार्थना
स्वय
म् ।
तथैव क्रियते कस्मान्न स्वकस्यैव चेतसः
26
Keep
सर्वस्यैव जनस्यास्य विष्णुरभ्यन्तरे
स्थि
तः ।
तं परित्यज्य ये यान्ति बहिर्विष्णुं नराधमाः
27
Keep
हृद्गुहावासिचित्तत्त्वं मुख्यं सानातनं
व
पुः ।
शङ्खचक्रगदाहस्तो गौण आकार आत्मनः
28
Keep
यो हि मुख्यं परित्यज्य गौणं
समनुधाव
ति ।
त्यक्त्वा रसायनं सिद्धं साध्यं संसाधयत्यसौ
29
Keep
यस्तु भोः
स्थितिमेवास्यामात्मज्ञानचमत्कृ
तौ ।
नासादयति संमत्तमनाः स' रघुनन्दन
30
Keep
अप्राप्तात्मविवेकोऽन्तरज्ञचित्तवशीकृ
तः ।
शंखचक्रगदापाणिमर्चयेत्परमेश्वरम्
31
Keep
तत्पूजनेन कष्टेन तपसा तस्य
राघ
व ।
काले निर्मलतामेति चित्तं वैराग्यकारिणा
32
Keep
नित्याभ्यासविवेकाभ्यां चित्तमाशु
प्रसीद
ति ।
आम्र एव दशामेति साहकारीं शनैः शनैः
33
Keep
एतदप्यात्मनैवात्मा फलमाप्नोति
भाषित
म् ।
हरिपूजाक्रमाख्येन निमित्तेनारिसूदन
34
Keep
वरमाप्नोति यो वापि
विष्णोरमिततेज
सः ।
तेन स्वस्यैव तत्प्राप्तं फलमभ्यासशाखिनः
35
Keep
सर्वेषामुत्तमस्थानां सर्वासां
चिरसंपदा
म् ।
स्वमनोनिग्रहो भूमिर्भूमिः सस्यश्रियामिव
36
Keep
अप्युर्वीखननोत्कस्य कर्षतोऽपि
शिलोच्चय
म् ।
स्वमनोनिग्रहादन्यो नोपायोऽस्तीह कश्चन
37
Keep
तावज्जन्मसहस्राणि भ्रमन्ति भुवि
मान
वाः ।
यावन्नोपशमं याति मनोमत्तमहार्णवः
38
Keep
ब्रह्मविष्ण्विन्द्ररुद्राद्याश्चिरसंपूजिता
अ
पि ।
उपप्लवान्मनोव्याधेर्न त्रायन्तेऽपि वत्सलाः
39
Keep
आकारभासुरं त्यक्त्वा
बाह्यमान्तरमप्यज
म् ।
कुरु जन्मक्षयायाशु संविन्मात्रैकचिन्तनम्
40
Keep
संवेद्यनिर्मुक्तनिरामयैक-
संविन्मयास्वादमनन्तरूप
म् ।
सन्मात्रमास्वादय सर्वसारं
पारं परं प्राप्स्यसि जन्मनद्याः
Previous
←
Sarga 42
Next
Sarga 44
→