Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 45
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
अथापश्यदसौ गाधिः स्वाधिपीवरया
धि
या ।
अन्तर्जलस्थ एवान्तरात्मनात्मनि निर्मले
2
Keep
भूतमण्डलपर्यन्तग्रामोपान्तनिवासिना
म् ।
श्वपचानां स्त्रिया गर्भे स्थितिमात्मानमाकुलम्
3
Keep
गर्भवासभराक्रान्तं पीडितं
पेलवाङ्गक
म् ।
श्वपचीहृदये सुप्तं स्वविष्ठायामिवाकुलम्
4
Keep
शनैः पक्वतया काले प्रसूतं
मेचकच्छवि
म् ।
श्वपच्या प्रावृषेवाब्दं श्याममावलितं मलैः
5
Keep
संपन्नं श्वपचागारे शिशुं
श्वपचवल्लभ
म् ।
इतश्चेतश्च गच्छन्तमुत्पीडमिव यामुनम्
6
Keep
द्वादशाब्ददशां यातं संस्थितं
षोडशाब्दिक
म् ।
पीवरांसमुदाराङ्गं पयोदमिव मेदुरम्
7
Keep
सारमेयपरीवारं विहरन्तं
वनाद्वन
म् ।
निघ्नन्तं मृगलक्षाणि पौलिन्दीं स्थितिमागतम्
8
Keep
तमाललतयेवाथ श्रितं
श्वपचकान्त
या ।
स्तनस्तबकशालिन्या नवपल्लवहस्तया
9
Keep
श्यामया
मलिनाकारदशनामलमाल
या ।
वनपल्लवया भूरिविलासवलिताङ्गया
10
Keep
विलसन्तं वनान्तेषु तया सह
नवेष्ट
या ।
श्यामलं श्यामया भृङ्गं भृंग्येव कुसुमर्द्धिषु
11
Keep
वनपर्णलतापत्रे वसन्तं
व्यसनातुर
म् ।
विन्ध्यकान्तारमाकारमभ्यागतमिवोद्भटम्
12
Keep
विश्रान्तं वनकुञ्जेषु सुप्तं गिरिदरीषु
च ।
निलीनं पत्रपुञ्जेषु गुल्मकेषु कृतालयम्
13
Keep
किंकिरातावतंसाढ्यं
यूथिकास्त्रग्विभूषित
म् ।
केतकोत्तंससुभगं सहकारस्रगाकुलम्
14
Keep
लुलितं पुष्पशय्यासु भ्रान्तमद्रितटीषु
च ।
तज्ज्ञं काननकोशेषु बहुज्ञं मृगमारणे
15
Keep
प्रसूतमथ शैलेषु
पुत्रान्निजकुलाङ्कुरा
न् ।
अत्यन्तविषमोदन्तान्खदिरः कण्टकानिव
16
Keep
कलत्रवन्तं संपन्नं स्थितं
प्रक्षीणयौवन
म् ।
शनैर्जर्जरतां यातं वृष्टिहीनमिव स्थलम्
17
Keep
ततो भूतग्रहग्रामजन्मदेशमुपेत्य
त
म् ।
संस्थितं मठिकां पर्णैः कृत्वा दूरे मुनीन्द्रवत्
18
Keep
जराजरठतां यातं
स्वदेहसमपुत्रक
म् ।
जीर्णंप्रायरसश्वभ्रतमालतरुसंनिभम्
19
Keep
प्रौढं श्वपचगार्हस्थ्यं कुर्वाणं
बहुबान्धव
म् ।
क्रूरनामार्थवचनं परां वृद्धिमुपागतम्
20
Keep
अथापश्यदसौ गाधिर्यावत्तस्य
कलत्रि
णः ।
जरठः श्वपचेभ्यश्च स्वात्मनो भ्रमहारिणः
21
Keep
तत्कलत्रमशेषेण नीतमावृत्य
मृत्यु
ना ।
आसारसलिलेनाशु वनपर्णगणो यथा
22
Keep
प्रलपत्येक एवासावटव्यां
दुःखकर्शि
तः ।
वियूथ इव सारङ्गो विगतास्थोऽश्रुलोचनः
23
Keep
दिनानि कतिचित्तत्र नीत्वा
शोकपरीत
धीः ।
जहौ स्वदेशं संशुष्कपद्मं सर इवाण्डजः
24
Keep
विजहार
बहून्देशाननास्थश्चिन्तयान्वि
तः ।
प्रेर्यमाण इवान्येन वातनुन्न इवाम्बुदः
25
Keep
एकदा प्राप कीराणां मण्डले श्रीमतीं
पुरी
म् ।
खेचरो विहरन्शून्ये सद्विमानमिवाम्बरे
26
Keep
नृत्यद्रत्नांशुकच्छन्नमार्गवृक्षलताङ्गन
म् ।
आगुल्फाकीर्णकुसुमं चन्दनागुरुसुन्दरम्
27
Keep
सामन्तैर्ललनाभिश्च नागरैश्च
निरन्तर
म् ।
स्वर्गमार्गोपमं राजमार्गमध्यमवाप सः
28
Keep
मणिरत्नकृतागारं तत्र
मङ्गलहस्तिन
म् ।
ददर्शामरशैलेन्द्रमिव संचारचञ्चलम्
29
Keep
मृते राजनि राजार्थं
विहरन्तमितस्त
तः ।
रत्नज्ञमिव रत्नार्थं चिन्तामणिदिदृक्षया
30
Keep
तमसौ श्वपचो नागं कौतुकोद्धुरया
दृ
शा ।
चिरमालोकयामास स्पन्दयुक्ताचलोपमम्
31
Keep
आलोकयन्तमादाय तं करेण स
वार
णः ।
स्वकटेऽयोजयन्मेरुस्तटेऽर्कमिव सादरम्
32
Keep
तस्मिन्कटगते
नेदुर्जयदुन्दुभयोऽभि
तः ।
कल्पाम्बुद इवाकाशमधिरूढे महार्णवाः
33
Keep
पूरिताशो बभौ राजा जयतीति
जनस्व
नः ।
उदभूत्संप्रबुद्धानां विहगानामिवारवः
34
Keep
उदभूद्बन्दिवृन्दानां
घनकोलाहलस्त
तः ।
वेलाविलुलिताम्बूनामम्बुधीनामिव ध्वनिः
35
Keep
तं तत्रावरयामासुर्मण्डनार्थं
वराङ्ग
नाः ।
क्षीरोदगतविभ्रान्ता लहर्य इव मन्दरम्
36
Keep
मानिन्यस्तं
गुणप्रोतैर्नानारत्नैरपूरय
न् ।
नानाप्रभाप्रभातार्का वेला इव तटाचलम्
37
Keep
तुषारशिशिरस्पर्शैस्तास्तं
हारैरभूषय
न् ।
श्यामा वननदीपूरैर्वर्षाः श्रृङ्गमिवोत्तमम्
38
Keep
विचित्रवर्णसौगन्ध्यैः
पुष्पैरावलयन्स्त्रि
यः ।
वनं मधुश्रिय इव तं लोलकरपल्लवाः
39
Keep
नानावर्णरसामोदैस्तास्तमाशु
विलेप
नैः ।
अलेपयन्प्रभाजालैर्नगोऽभ्रमिव धातुभिः
40
Keep
रत्नकाञ्चनकान्तोऽसावाददे
चित्तमातत
म् ।
संध्याभ्रतारेन्दुनदीव्याप्तं मेरुरिवाम्बरम्
41
Keep
भूषितः
सविलासाभिर्बालवल्लीभिरावृ
तः ।
रत्नपुष्पांशुकाकीर्णः कल्पवृक्ष इवाबभौ
42
Keep
तादृशं तमुपाजग्मुः
परिवारसमन्वि
ताः ।
सर्वाः प्रकृतयः फुल्लं मार्गद्रुममिवाध्वगाः
43
Keep
ता एनमासने सैंहे तत्राभिषिषिचुः
क्रमा
त् ।
तस्मिन्नेव गजे शक्रमैरावत इवामराः
44
Keep
एवं स श्वपचो राज्यं प्राप
कीरपुरान्त
रे ।
आरण्यं हरिणं पुष्टमप्राणमिव वायसः
45
Keep
कीरीकरतलाम्भोजप्रमृष्टचरणाम्बु
जः ।
सर्वाङ्गे कुङ्कुमालेपैः संध्याम्बुधरशोभनः
46
Keep
जज्वाल कीरनगरे
नागरीगणवान
सौ ।
सिंहीगणयुतः सिंहो यथा कुसुमिते वने
47
Keep
हरिहतकरिकुम्भोन्मुक्तमुक्ताकलाप-
प्रविरचितशरीरः
शान्तचिन्ताविषा
दः ।
अरमत सह सद्भिस्तत्र भोगैः सरस्यां
रविकरमदतप्तो वारिपूरैरिवेभः
48
Keep
परिविसृतनृपौजाः सर्वदिक्संस्थिताज्ञः
कतिपयदिवसेहासिद्धदेशव्यवस्
थः ।
प्रकृतिभिरलमूढाशेषराजन्यभारः
स गवल इति नाम्ना तत्र राजा बभूव
Previous
←
Sarga 44
Next
Sarga 46
→