Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 7
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
एष तावत्क्रमः प्रोक्तः सामान्यः सर्वदेहिनाम् ।
इममन्यं विशेषं त्वं श्रृणु राजीवलोचन
2
Keep
अस्मिन्संसारसंरम्भे जातानां देहधारिणाम् ।
अपवर्गक्षमौ राम द्वाविमावुत्तमौ क्रमौ
3
Keep
एकस्तावद्गुरुप्रोक्तादनुष्ठानाच्छनैः शनैः ।
जन्मना जन्मभिर्वापि सिद्धिदः समुदाहृतः
4
Keep
द्वितीयस्त्वात्मनैवाशु किंचिद्व्युत्पन्नचेतसा ।
भवति ज्ञानसंप्राप्तिराकाशफलपातवत्
5
Keep
नभःफलनिपाताभज्ञानसंप्रतिपत्तये ।
तत्रेमं श्रृणु वृत्तान्तं प्राक्तनं कथयामि ते
6
Keep
श्रृणु सुभग कथां महानुभावा
व्यपगतपूर्वशुभाशुभार्गलौघाः ।
खपतितफलवत्परं विवेकं
चरमभवा विमलं समश्नुवन्ति
Previous
←
Sarga 6
Next
Sarga 8
→