Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 8
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अस्त्यस्तमितसर्वापदुद्यत्संपदुदारधीः ।
विदेहानां महीपालो जनको नाम वीर्यवान्
2
Keep
कल्पवृक्षोऽर्थिसार्थानां मित्रालानां दिवाकरः ।
माधवो बन्धुपुष्पाणां स्त्रीणां मकरकेतनः
3
Keep
द्विजकैरवशीतांशुर्द्विपत्तिमिरभास्करः ।
सौजन्यरत्नजलधिर्भुवं विष्णुरिवास्थितः
4
Keep
प्रफुल्लवाललतिके मञ्जरीपुञ्जपिञ्जरे ।
स कदाचिन्मधौ मत्ते कोकिलालापलासिनि
5
Keep
ययौ कुसुमिताभोगंसुविलासलताङ्गनम् ।
लीलयोपवनं कान्तं नन्दनं वासवो यथा
6
Keep
तस्मिन्वरवने हृद्ये केसरोद्दाममारुते ।
दूरस्थानुचरः सानुकुञ्जेषु विचचार ह
7
Keep
अथ शुश्राव कस्मिंश्चित्तमालवनगुल्मके ।
सिद्धानामप्रदृश्यानां स्वप्रसङ्गादुदाहृताः
8
Keep
विविक्तवासिनां नित्यं शैलकन्दरचारिणाम् ।
इमाः कमलपत्राक्ष गीता गीतात्मभावनाः
9
Keep
सिद्धा ऊचुः ।
.
द्रष्टृदृश्यसमायोगात्प्रत्ययानन्दनिश्चयः ।
यस्तं स्वमात्मतत्त्वोत्थं निःस्पन्दं समुपास्महे
10
Keep
अन्ये ऊचुः ।
द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह ।
दर्शनप्रथमाभासमात्मानं समुपास्महे
11
Keep
अन्ये ऊचुः ।
द्वयोर्मध्यगतं नित्यमस्तिनास्तीति पक्षयोः ।
प्रकाशनं प्रकाश्यानामात्मानं समुपास्महे
12
Keep
अन्ये ऊचुः ।
यस्मिन्सर्वं यस्य सर्वं यतः सर्वं यस्मायिदम् ।
येन सर्वं यद्धि सर्वं तत्सत्यं समुपास्महे
13
Keep
अन्ये ऊचुः ।
अशिरस्कं हकारान्तमशेषाकारसंस्थितम् ।
अजस्रमुच्चरन्तं स्वं तमात्मानमुपास्महे
14
Keep
अन्ये ऊचुः ।
संत्यज्य हृद्गुहेशानं देवमन्यं प्रयान्ति ये ।
ते रत्नमभिवाञ्छन्ति त्यक्तहस्तस्थकौस्तुभाः
15
Keep
अन्ये ऊचुः ।
सर्वाशाः किल संत्यज्य फलमेतदवाप्यते ।
येनाशाविषवल्लीनां मूलमाला विलूयते
16
Keep
अन्ये ऊचुः ।
बुद्ध्वाप्यत्यन्तवैरस्यं यः पदार्थेषु दुर्मतिः ।
बध्नाति भावनां भूयो नरो नासौ स गर्दभः
17
Keep
अन्ये ऊचुः ।
उत्थितानुत्थितानेतानिन्द्रियाहीन्पुनः पुनः ।
हन्याद्विवेकदण्डेन वज्रेणेव हरिर्गिरीन्
18
Keep
अन्ये ऊचुः ।
उपशमसुखमाहरेत्पवित्रं
सुशमवतः शममेति साधुचेतः ।
प्रशमितमनसः स्वके स्वरूपे
भवति सुखे स्थितिरुत्तमा चिराय
Previous
←
Sarga 7
Next
Sarga 9
→