Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 72
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
देहे जाते न जातोऽसि देहे नष्टे न नश्यसि ।
त्वमात्मन्यकलङ्कात्मा देहस्तव न कश्चन
2
Keep
यः कुण्डबदरन्यायो या घटाकाशसंस्थितिः ।
तत्रैकस्मिन्क्षते क्षीणे द्वे इति व्यर्थकल्पना
3
Keep
विनाशिनि विनष्टेऽस्मिन्देहे स्वां स्थितिमागते ।
विनश्यामीति यः खेदी तं धिगस्त्वन्धचेतसम्
4
Keep
यादृशो रश्मिरथयोः स्नेहोद्वेगविवर्जितः ।
संबन्धस्तादृशो देहचित्तेन्द्रियमुखैश्चितेः
5
Keep
गतेतरेतरापेक्षः सरःपङ्कामलाम्भसाम् ।
यथा राघव संबन्धस्तथा देहेन्द्रियात्मनाम्
6
Keep
यादृशोऽध्वा गताध्वानां निरास्थापरिदेवनः ।
संयोगो विप्रयोगश्च तादृशो देहदेहिनोः
7
Keep
यथा कल्पितवेतालविकारभयभीतयः ।
मिथ्यैव कल्पिता एते तथा स्नेहसुखादयः
8
Keep
भूतपञ्चकसंपिण्डाद्रचिता जनताः पृथक् ।
एकस्मादेव विटपाद्विचित्रा इव पुत्रिकाः
9
Keep
काष्ठेतरत्काष्ठभारे किंचिदन्यन्न दृश्यते ।
भूतपिण्डेतरद्देहे किंचिदन्यन्न दृश्यते
10
Keep
भूतपञ्चकविक्षोभनाशोत्पादेषु हे जनाः ।
हर्षामर्षविषादानां किं भवन्तो वशं गताः
11
Keep
को नामातिशयः पुंसां स्त्रीनाम्न्यपरनाम्नि च ।
पेलवे भूतसंघाते प्रोद्भूतजनपातवत्
12
Keep
संनिवेशांशवैचित्र्यमज्ञानामेव तुष्टये ।
तज्ज्ञानां तु यथाभूतभूतपञ्चकदर्शनम्
13
Keep
मिथः शिलापुत्रकयोर्यथैकोपलपुत्रयोः ।
श्लिष्टयोरपि नो रागस्तथा चित्तशरीरयोः
14
Keep
मृत्पुंसां यादृशोऽन्योन्यमाशयः संगमे भवेत् ।
बुद्धीन्द्रियात्ममनसां संगमे तादृशोऽस्तु ते
15
Keep
नान्योन्यस्नेहसंबन्धभाजनं शैलपुत्रकाः ।
देहेन्द्रियात्मप्राणाश्च कस्यात्र परिदेवना
16
Keep
इतश्चेतश्च जातानि यथा संश्लेषयन्त्यलम् ।
तरङ्गास्तृणजालानि तथा भूतानि देहदृक्
17
Keep
संयुज्यन्ते वियुज्यन्ते तृणान्यब्धिजले यथा ।
मुक्तान्तःकलनं देहे भूतान्यात्मनि वै तथा
18
Keep
आत्मा चित्ततया देहभूतान्याश्लेषयन्स्थितः ।
तृणान्यावृत्तवृत्तान्तकलनोत्सिक्तमब्धिवत्
19
Keep
प्रबोधाच्चेत्यतां त्यक्त्वा व्रजत्यात्मात्मतां स्वयम् ।
स्वस्पन्दवशतो वारि त्यक्त्वाच्छत्वमिवाच्छतां
20
Keep
ततो विश्लिष्टभूतौघो देहं संप्रति पश्यति ।
वायुस्कन्धगतो जन्तुर्वसुधामण्डलं यथा
21
Keep
पृथग्भूतगणं दृष्ट्वा देहातीतो भवत्यजः ।
परं प्रकाशमायाति सूर्यकान्तिरिवाहनि
22
Keep
जानात्यथात्मनात्मानं मानमेयामयोज्झितम् ।
मुक्तक्षीबतयेवान्तः स्वां संविदमनुस्मरन्
23
Keep
आत्मैव स्पन्दते विश्वं वस्तुजातैरिवोदितम् ।
तरङ्गकणकल्लोलैरनन्ताम्ब्वम्बुधाविव
24
Keep
एवंप्रायमहाबोधा वीतरागा गतैनसः ।
जीवन्मुक्ताश्चरन्तीह महासत्त्वपदं गताः
25
Keep
यथा चरन्ति विविधैर्मणिरत्नैर्महोर्मयः ।
निरस्तवासनाश्चित्तव्यवहारैस्तथोत्तमाः
26
Keep
न कूलकाष्ठैर्जलधिर्न रजोभिर्नभस्तलम् ।
न म्लायति निजैर्लोकव्यवहारैरिहात्मवान्
27
Keep
गतैरभ्यागतैः स्वच्छैश्चपलैर्मलिनैर्जडैः ।
न रागो नाम्बुधेर्द्वेषो भोगैश्चाधिगतात्मनः
28
Keep
यन्मनोमननं किंचित्समग्रं जगति स्थितम् ।
तच्चेत्योन्मुखचित्तत्त्वविलासोल्लसनं विदुः
29
Keep
यदहं यच्च भूतादि कालत्रितयभावि यत् ।
दृश्यदर्शनसंबन्धविस्तारैस्तद्विजृम्भते
30
Keep
यदृश्यं तदसत्सद्वा दृष्टिमेकामुपाश्रितम् ।
अन्यत्त्वलेपकं तस्माद्धर्षशोकदृशौ कुतः
31
Keep
असत्यमेवासत्यं हि सत्यं सत्यं सदेव हि ।
सत्यासत्यमसद्विद्धि तदर्थं किं नु मुह्यसि
32
Keep
असम्यग्दर्शनं त्यक्त्वा सम्यक्पश्य सुलोचन ।
न क्वचिन्मुह्यति प्रौढः सम्यग्दर्शनवानिह
33
Keep
दृश्यदर्शनसंबन्धविस्तारैस्तद्विजृम्भते ।
दृश्यदर्शनसंबन्धे यत्सुखं पारमात्मिकम्
34
Keep
अनुभूतिमयं तस्मात्सारं ब्रह्मेति कथ्यते ।
दृश्यदर्शनसंबन्धे सुखसंविदनुत्तमा
35
Keep
ददात्यज्ञाय संसारं ज्ञाय मोक्षं सदोदयम् ।
दृश्यदर्शनसंबन्धसुखमात्मवपुर्विदुः
36
Keep
तदृश्यवलितं बन्धस्तन्मुक्तं मुक्तिरुच्यते ।
दृश्यदर्शनसंबन्धसुखसंविदनामया
37
Keep
क्षयातिशयमुक्ता चेत्तन्मुक्तिः सोच्यते बुधैः ।
दृश्यदर्शनसंबन्धे यानुभूतिः स्वगोचरा
38
Keep
दृश्यदर्शननिर्मुक्ता तामालम्ब्य भवाभवः ।
सौषुप्ती दृष्टिरेषा हि यात्येवं संप्रकाशते
39
Keep
एवं च याति तुर्यत्वमेवं मुक्तिरिति स्मृता ।
दृश्यदर्शनमुक्तायां युक्तायां परया धिया
40
Keep
दृश्यदर्शनसंबन्धसंविदस्यां तु राघव ।
नात्मा स्थूलो न चैवाणुर्न प्रत्यक्षो न चेतरः
41
Keep
न चेतनो न च जडो न चैवासन्न सन्मयः ।
नाहं नान्यो न चैवैको नानेको नाप्यनेकवान्
42
Keep
नाभ्याशस्थो न दूरस्थो नैवास्ति न च नास्ति च ।
न प्राप्यो नाति चाप्राप्यो न वा सर्वो न सर्वगः
43
Keep
न पदार्थो नापदार्थो न पञ्चात्मा न पञ्च च ।
यदिदं दृश्यतां प्राप्तं मनःषष्ठेन्द्रियास्पदम्
44
Keep
तदतीतं पदं यत्स्यात्तन्न किंचिदिवेह तत् ।
यथाभूतमिदं सम्यग्ज्ञस्य संपश्यतो जगत्
45
Keep
सर्वमात्ममयं विश्वं नास्त्यनात्ममयं क्वचित् ।
काठिन्यद्रवणस्पन्दखावकाशावलोकनैः
46
Keep
आत्मैव सर्वं सर्वेषु भूवार्यनिलखाग्निषु ।
सत्तैवास्ति न वस्तूनां या या राम चिता विना ।
व्यतिरिक्तं ततोऽस्मीति विद्धिप्रोन्मत्तजल्पितम्
47
Keep
एको जगन्ति सकलानि समस्तकाल-
कल्पक्रमान्तरगतानि गतागतानि ।
आत्मैव नेतरकलाकलनास्ति काचि-
दित्थंमतिर्भव तयातिगतो महात्मन्
Previous
←
Sarga 71
Next
Sarga 73
→