Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 73
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
एवंविचारया दृष्ट्या द्वैतत्यागेन राघव ।
स्वभावः प्राप्यते तज्ज्ञैस्तज्ज्ञैश्चिन्तामणिर्यथा
2
Keep
अथेमामपरां दृष्टिं श्रृणु रामानया यथा ।
दृश्यस्यात्मानमचलं भविष्यसि च दिव्यदृक्
3
Keep
अहं खमहमादित्यो दिशोऽहमहमप्यधः ।
अहं दैत्या अहं देवा लोकाश्चाहमहं महः
4
Keep
अहं तमोऽहमभ्राणि भूः समुद्रादिकं त्वहम् ।
रजो वायुरथाग्निश्च जगत्सर्वमिदं त्वहम्
5
Keep
जगत्त्रयेऽहं सर्वत्र य आत्मैव किलास्थितः ।
कोऽहं किमन्यद्देहादि द्वित्वमेकस्य कीदृशम्
6
Keep
इति निश्चयवानन्तर्भूतमात्मतया जगत् ।
पश्य हर्षविषादाभ्यां नावशः परिभूयसे
7
Keep
तन्मयेऽस्मिन्किल जगत्यखिले संस्थितेऽनघ ।
किमात्मीयं परं किं स्यात्कमलेक्षण कथ्यताम्
8
Keep
किं तज्ज्ञव्यतिरेकेण विद्यते यदुपागतम् ।
हर्षमेतु विषादं वा विषादे ज्ञो जगन्मयः
9
Keep
अहंकारदृशावेते सात्त्विके द्वेऽतिनिर्मले ।
तत्त्वज्ञानात्प्रवर्तेते मोक्षदे पारमार्थिके
10
Keep
परोऽणुः सकलातीतरूपोऽहं चेत्यहंकृतिः ।
प्रथमा सर्वमेवाहमित्यन्योक्ता रघूद्वह
11
Keep
अहंकारदृगन्या तु तृतीया विद्यतेऽनघ ।
देहोऽहमिति तां विद्धि दुःखायैव न शान्तये
12
Keep
अथ चैतत्त्रयमपि त्यक्त्वा सकलसिद्धये ।
यच्छेषं तदुपालम्ब्य तिष्ठावष्टब्धतत्परः
13
Keep
सर्वातीतस्वरूपोऽपि सर्वसत्तातिगोऽपि च ।
असत्तापूरितजगदस्त्येवात्मा प्रकाशकः
14
Keep
स्वानुभूत्यैव पश्याशु स एवासि सदोदितः ।
आशयं हृदयग्रन्थिं त्यज तत्त्वविदांवर
15
Keep
नात्मास्त्यनुमया राम न चाप्तवचनादिना ।
सर्वदा सर्वथा सर्वं स प्रत्यक्षोऽनुभूतितः
16
Keep
यदिदं स्पर्शनं स्पन्दं किंचिद्यत्संविदाद्यपि ।
तत्सर्वमात्मा भगवान्दृश्यदर्शनवर्जितः
17
Keep
न सन्नासन्नसौ देवो नाणुर्नापि महानसौ ।
नाप्येतयोर्दृशोर्मध्यं स एवेदं च सर्वतः
18
Keep
स एव चैवं वदति स च वक्तुं न युज्यते ।
न तदन्यदिदं तात पश्यात्मानमनामयम्
19
Keep
नात्मायमयमप्यात्मा संज्ञाभेद इति स्वयम् ।
तेनैव सर्वगतया शक्त्या स्वात्मनि कल्पितः
20
Keep
संस्थितः स हि सर्वत्र त्रिषु कालेषु भास्करः ।
सूक्ष्मत्वात्सुमहत्त्वाच्च केवलं न विभाव्यते
21
Keep
सत्स्वनन्तपदार्थेषु जीवत्वेनाभिबिम्बति ।
आत्मा पुर्यष्टकादर्शे स्वभाववशतः स्वतः
22
Keep
पुर्यष्टकोदयादेव स्वयमात्मानुभूयते ।
सर्वदा सर्वसंस्थः खे घनास्पन्दादिवानिलः
23
Keep
चिदात्मा सर्वगो व्यापी न क्वचिन्नाम संस्थितः ।
यद्वत्सर्वपदार्थानां सत्ता तद्वन्महेश्वरः
24
Keep
सति पुर्यष्टके तस्मिञ्जीवः स्फुरति नोपले ।
सति वायाविव रजः सति दीप इवेक्षणम्
25
Keep
इयं पुर्यष्टके स्वेच्छा स्वात्मन्येवात्मनि स्थिते ।
सति स्फुरत्यभ्युदिते भानाविव जनैषणा
26
Keep
यदि सूर्ये स्थिते व्योम्नि तादृशोचितसंस्थितिः ।
नश्यति व्यवहारोऽयं भास्करे तत्किमागतम्
27
Keep
यद्यात्मनि स्थिते देवे तत्सत्ता लब्धसंस्थितिः ।
देहो नाशमुपायाति तत्किं नष्टमिहात्मनि
28
Keep
न जायते न म्रियते नादत्ते नाभिवाञ्छति ।
न मुक्तो न च बद्धोऽयमात्मा सर्वस्य सर्वदा
29
Keep
आत्माप्रबोधाभ्युदिता निरात्मन्यात्मतां गता ।
सर्परज्जुभ्रमाकारा भ्रान्तिर्दुःखाय केवलम्
30
Keep
अनादित्वान्न जातोऽयमजातत्वान्न नश्यति ।
आत्मात्मव्यतिरिक्तं तु नाभिवाञ्छत्यसंभवात्
31
Keep
दिक्कालाद्यनवच्छेदान्न बद्धोऽयं कदाचन ।
बन्धाभावे क्व मुक्तिः स्यादमोक्षस्तेन संस्थितः
32
Keep
एवंगुणविशिष्टोऽयमात्मा सर्वस्य राघव ।
अविचारवशान्मूढो लोकोऽयं परिरोदिति
33
Keep
सम्यगालोकिताशेषपूर्वापरजगत्क्रमः ।
मा शोकं गच्छ सुमते मौर्ख्योपगतलोकवत्
34
Keep
द्वे एव कलने त्यक्त्वा मोक्षबन्धात्मिके यथा ।
विदुषा व्यवहर्तव्यं यन्त्रणेवात्ममौनिना
35
Keep
न मोक्षो नभसः पृष्ठे न पाताले न भूतले ।
मोक्षो हि चेतो विमलं सम्यग्ज्ञानविबोधितम्
36
Keep
सकलाशास्वसंसक्त्या यत्स्वयं चेतसः क्षयः ।
स मोक्षनाम्ना कथितस्तत्त्वज्ञैरात्मदर्शिभिः
37
Keep
यावत्प्रबोधो विमलो नोदितस्तावदेव सः ।
मौर्ख्याद्दीनतया राम भक्त्या मोक्षोभिवाञ्छ्यते
38
Keep
परं प्रबोधमासाद्य चित्ते चित्तत्त्वतां गते ।
दश मोक्षा न वाञ्छ्यन्ते किमुतैको हि मोक्षकः
39
Keep
अयं मोक्षस्त्वयं बन्धः पेलवां कलनामिति ।
परित्यज्य महात्यागी स त्वमेव भवाभव
40
Keep
परिगलितविकल्पनां प्रयातः
सगरसुतौघनिखातमेखलाङ्कम् ।
अवनिवलयमन्तरस्तसङ्ग-
श्चिरमनुपालय सर्वदोदितश्रीः
Previous
←
Sarga 72
Next
Sarga 74
→