Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 87
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
एवं कलितवानन्तः प्रशान्तमननैषणः ।
शनैरुच्चारयंस्तारं प्रणवं प्राप्तभूमिकः
2
Keep
मात्रादिपादभेदेन प्रणवं संस्मरन्यतिः ।
अध्यारोपापवादेन स्वरूपं शुद्धमव्ययम्
3
Keep
सबाह्याभ्यन्तरान्भागान्स्थूलान्सूक्ष्मतरानपि ।
त्रैलोक्यसंभवांस्त्यक्त्वा संकल्पाकल्पकल्पितान्
4
Keep
तिष्ठन्नक्षुभिताकारश्चिन्तामणिरिवात्मनि ।
संपूर्ण इव शीतांशुर्विश्रान्त इव मन्दरः
5
Keep
कुम्भकारगृहे चक्रं संरोधित इव भ्रमात् ।
अम्भोधिरिव संपूर्णस्तिमितस्फारनिर्मलः
6
Keep
शान्ततेजस्तमःपुञ्जं विगतार्केन्दुतारकम् ।
अधूमाभ्ररजःस्वच्छमनन्तं शरदीव खम्
7
Keep
सहप्रणवपर्यन्तदीर्घनिःस्वनतन्तुना ।
जहाविन्द्रियतन्मात्रजालं गन्धमिवानिलः
8
Keep
ततो जहौ तमोमात्रं प्रतिभातमिवाम्बरे ।
उत्तिष्ठत्प्रस्फुरद्रूपं प्राज्ञः कोपलवं यथा
9
Keep
प्रतिभातं ततस्तेजो निमेषार्धं विचार्य सः ।
जहौ बभूव च तदा न तमो न प्रकाशकम्
10
Keep
तामवस्थामथासाद्य मनसा तन्मनस्तृणम् ।
मनागपि प्रस्फुरितं निमिषार्धादशातयत्
11
Keep
ततोऽङ्ग संविदं स्वस्थां प्रतिभासमुपागताम् ।
सद्यो जातशिशुज्ञानसमानकलनामलम्
12
Keep
निमेषार्धार्धभागेन कालेन कलनां प्रभुः ।
जहौ चितश्चेत्यदशां स्पन्दशक्तिमिवानिलः
13
Keep
पश्यन्तीपदमासाद्य सत्तामात्रात्मके ततः ।
प्रसुप्तपदमालम्ब्य तस्थौ गिरिरिवाचलः
14
Keep
ततः सुषुप्तसंस्थानं स्थित्वा स्थित्वा विभुर्मनाक् ।
सुषुप्ते स्थैर्यमासाद्य तुर्यरूपमुपाययौ
15
Keep
निरानन्दोऽपि सानन्दः सच्चासच्चापि तत्र सः ।
आसीन्न किंचित्किंचित्तत्प्रकाशस्तिमिरं यथा
16
Keep
अचिन्मयं चिन्मयं च नेति नेति यदुच्यते ।
ततस्तत्संबभूवासौ यद्गिरामप्यगोचरः
17
Keep
तदसौ सुसमं स्फारं पदं परमपावनम् ।
सर्वभावान्तरगतमभूत्सर्वविवर्जितम्
18
Keep
यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां वरम् ।
विज्ञानमात्रं विज्ञानविदां यदमलं पदम्
19
Keep
पुरुषः सांख्यदृष्टीनामीश्वरो योगवादिनाम् ।
शिवः शशिकलाङ्कानां कालः कालैकवादिनाम्
20
Keep
आत्मात्मनस्तद्विदुषां नैरात्म्यं तादृशात्मनाम् ।
मध्यं माध्यमिकानां च सर्वं सुसमचेतसाम्
21
Keep
यत्सर्वशास्त्रसिद्धान्तो यत्सर्वहृदयानुगम् ।
यत्सर्वं सर्वगं सार्वं यत्तत्तत्सदसौ स्थितः
22
Keep
यदनुत्तमनिःस्पन्दं दीप्यते तेजसामपि ।
स्वानुभूत्यैकमात्रं यद्यत्तत्तत्सदसौ स्थितः
23
Keep
यदेकं चाप्यनेकं च साञ्जनं च निरञ्जनम् ।
यत्सर्वं चाप्यसर्वं च यत्तत्तत्सदसौ स्थितः
24
Keep
अजमजरमनाद्यनेकमेकं
पदममलं सकलं च निष्कलं च ।
स्थित इति स तदा नभःस्वरूपा-
दपि विमलस्थितिरीश्वरः क्षणेन
Previous
←
Sarga 86
Next
Sarga 88
→