Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 88
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 5 — Upaśama
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
प्राप्य संसृतिसीमान्तं दुःखाब्धेः पारमागतः ।
वीतहव्यः शशामैवमपुनर्मनने मुनिः
2
Keep
तस्मिंस्तथोपशान्ते हि परां निर्वृतिमागते ।
पयःकण इवाम्भोधौ स्वे पदे परिणामिनि
3
Keep
तथैव तिष्ठन्निःस्पन्दः स कायो म्लानिमाययौ ।
अन्तर्विरसतां प्राप्य मार्गशीर्षान्तपद्मवत्
4
Keep
तस्य देहद्रुमान्तःस्थं त्यक्त्वा हृन्नीडमाययुः ।
प्रोड्डीय विहगायन्तो युन्त्रोन्मुक्ता इवासवः
5
Keep
भूतेष्वेव प्रतिष्ठानि भूतानि सकलान्यलम् ।
मांसास्थियन्त्रदेहस्तु वनावनितलेऽवसत्
6
Keep
चिदर्णवप्रतिष्ठा चिद्धातवो धातुषु स्थिताः ।
स्वे स्वरूपे स्थितं सर्वं मुनावुपशमं गते
7
Keep
एषा ते कथिता राम विचारशतशालिनी ।
विश्रान्तिर्वीतहव्यस्य प्रज्ञयैनां विवेचय
8
Keep
एवंप्रकारया चार्व्या स्वविचारणयेद्धया ।
तत्त्वमालोक्य तत्सारमातिष्ठोत्तिष्ठ राघव
9
Keep
यदेतदखिलं राम भवते वर्णितं मया ।
यदिदं वर्णयाम्यद्य वर्णयिष्यामि यच्च वा
10
Keep
त्रिकालदर्शिना नित्यं चिरं च किल जीवता ।
विचारितं च दृष्टं च मया तदखिलं स्वयम्
11
Keep
तदेताममलां दृष्टिमवलम्ब्य महामते ।
ज्ञानमासादय परं ज्ञानान्मुक्तिर्हि लभ्यते
12
Keep
ज्ञानान्निर्दुःखतामेति ज्ञानादज्ञानसंक्षयः ।
ज्ञानादेव परा सिद्धिर्नान्यस्माद्राम वस्तुतः
13
Keep
ज्ञानेन सकलामाशां विनिकृत्य समन्ततः ।
शातिताशेषचित्ताद्रिर्वीतहव्यो मुनीश्वरः
14
Keep
वीतहव्यात्मिका संवित्संकल्पजगतीति सा ।
अनुभूतवती दृश्यमिदमेव च तज्जगत्
15
Keep
वीतहव्यो मनोमात्रं मनोहंत्वमिवैन्द्रियः ।
मनो जगदिदं कृत्स्नमन्यतानन्यते तु के
16
Keep
अधिगतपरमार्थः क्षीणरागादिदोषः
सकलमलविकारोपाधिसङ्गाद्यपेतः ।
चिरमनुसृतमन्तः स्वं स्वभावं विवेकी
पदममलमनन्तं प्राप्तवान्शान्तशोकः
Previous
←
Sarga 87
Next
Sarga 89
→