Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 107
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अथ सूर्याख्यरङ्गेण रञ्जिते भुवनोदरे ।
शिखिध्वजाङ्गना प्रातर्मदनी कुम्भतां ययौ
2
Keep
एवं महेन्द्रदर्यां तावुभौ कुम्भशिखिध्वजौ ।
स्वयं विवाहिताविष्टौ संपन्नौ देवदंपती
3
Keep
विलेसतुर्विचित्रासु प्रत्यहं वनराजिषु ।
प्रपक्वफलभारासु पुष्पपल्लविनीषु च
4
Keep
दिवा प्रीततरौ मित्रे यामिन्यामिष्टदंपती ।
प्रभादीपाविव श्लिष्टौ न वियुक्तौ बभूवतुः
5
Keep
रेमाते वनकुञ्जेषु गुहासु च महीभृताम् ।
तमालजालखण्डेषु मन्दारगहनेषु च
6
Keep
सह्यदर्दुरकैलासमहेन्द्रमलयेषु च ।
गन्धमादनविन्ध्याद्रिलोकालोकतटेषु च
7
Keep
दिनैस्त्रिभिस्त्रिभिर्गत्वा निद्रां गतवति प्रिये ।
चूडाला राजकार्याणि कृत्वा स्वभ्याययौ पुनः
8
Keep
तौ दिवा सुहृदौ मित्रे दंपती कुम्भभूमिपौ ।
नानाकुसुमसंवीतौ तस्थतुर्मुदितौ मिथः
9
Keep
मासमेकं महेन्द्राद्रौ रम्ये सरलसंकुले ।
रत्नकुड्ये गुहागेहे पूजितौ सुरकिंनरैः
10
Keep
हस्तलभ्योदितामोघमन्दारवनमालिते ।
एवं शुक्तिमतः पृष्ठे पक्षं कल्पलतागृहे
11
Keep
मासद्वयं पक्षवतो गिरेर्दक्षिणदिक्तटे ।
पारिजातवने देवपुष्पस्तबकमण्डपे
12
Keep
जम्बूखण्डतले मेरोः पादे जम्बूनदीतटे ।
जाम्बूनदमये मासं जम्बूफलरसासवैः
13
Keep
दशोत्तरकुरूणां च मण्डले दिवसानि तौ ।
कोसलेषूत्तरस्थेषु सप्तविंशतिवासरान्
14
Keep
एवमन्येषु देशेषु विचित्रेषु महीभृताम् ।
स्थितवन्तौ महाभागौ सुहृदौ निशि दम्पती
15
Keep
ततो यातेषु मासेषु शनैः कतिपयेषु सा ।
चूडाला चिन्तयामास देवपुत्रकरूपिणी
16
Keep
सुरूपभोगभारेण परीक्षेऽहं शिखिध्वजम् ।
मा कदाचन चेतोऽस्य भोगेषु रतिमेष्यति
17
Keep
इति संचिन्त्य चूडाला मायया विपिनावनौ ।
आगतं दर्शयामास ससुराप्सरसं हरिम्
18
Keep
इन्द्रमभ्यागतं दृष्ट्वा परिवारसमन्वितम् ।
यथावत्पूजयामास वनसंस्थः शिखिध्वजः
19
Keep
आत्मना किं कृता दूरादभ्यागमकदर्थना ।
देवराज यथा तन्मे प्रसादाद्वक्तुमर्हसि
20
Keep
इमे वयमिहायातास्त्वद्गुणातिशयेन खात् ।
हृदि लग्नेन सूत्रेण खगा वनगता इव
21
Keep
उत्तिष्ठ स्वर्गमागच्छ तत्र सर्वे त्वदुन्मुखाः ।
त्वद्गुणश्रवणाश्चर्याः स्थिता देवाङ्गनागणाः
22
Keep
पादुकागुटिकाखङ्गरसादीदमथापि च ।
गृहीत्वा सिद्धमार्गेण स्वीकुरु स्वर्गमण्डलम्
23
Keep
आगत्य विविधा भोगास्त्वया विबुधसद्मनि ।
जीवन्मुक्तेन भोक्तव्यास्तेन त्वामहमागतः
24
Keep
विमानयन्ति संप्राप्तां न तिरस्करणैः श्रियम् ।
नाभिवाञ्छन्ति न प्राप्तां त्वादृशाः साधु साधवः
25
Keep
अविघ्नमागतेनाद्य सुखं विहरता त्वया ।
स्वर्गः पवित्रतां यातु हरिणेव जगत्त्रयम्
26
Keep
सर्व स्वर्गसमाचारं वेद्मि देवाधिनायक ।
किंतु सर्वत्र मे स्वर्गो नियतो न तु कुत्रचित्
27
Keep
सर्वत्रैव हि तुष्यामि सर्वत्रैव रमे प्रभो ।
अवाञ्छनत्वान्मनसः सर्वत्रानन्दवानहम्
28
Keep
नियतं किंचिदेकत्र स्थितं स्वर्गकमीदृशम् ।
शक्र गन्तुं न जानामि त्वदाज्ञां न करोम्यहम्
29
Keep
साधो विदितवेद्यानां परिपूर्णधियां समम् ।
सज्जनाचरितं युक्तं मन्ये भोगोपसेवनम्
30
Keep
देवेशे प्रोक्तवत्येवं तूष्णीमेव स्थिते नृपे ।
किमितो नापयाम्येष त्वमिति प्रोक्तवान् हरिः
31
Keep
नाहमद्यैव कालेन वदतीति शिखिध्वजे ।
कल्याणं तेऽस्तु कुम्भेति वदन्नन्तर्धिमाययौ
32
Keep
तद्देववृन्दमखिलं त्रिदशेशयुक्तं
तत्र क्षणादलमदृश्यमभूद्द्वितीयम् ।
कल्लोलराशिरिव वारिनिधौ प्रशान्ते
वाते स्फुरन्मकरफेनफणीन्द्रवृन्दम्
Previous
←
Sarga 106
Next
Sarga 108
→