Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 108
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
तां मायां शममानीय चूडाला समचिन्तयत् ।
दिष्टया भोगेच्छया नायं ह्रियते वसुधाधिपः
2
Keep
शान्तः समसमाभोग एवं शक्रसमागमे ।
असंरम्भमहेलं च कृतवान्व्यावहारिकम्
3
Keep
भूय एव प्रपञ्चेन विमृशाम्येव सादरम् ।
रागद्वेषप्रधानेन केनचिद्बुद्धिहारिणा
4
Keep
इति संचिन्त्य सा रात्राविन्दावभ्युदिते वने ।
गृहीतमङ्गनारूपं कान्ता मदनिका सती
5
Keep
वाते वहति फुल्लाढ्ये मधुरामोदमांसले ।
संध्याजप्यपरे नद्यास्तीरसंस्थे शिखिध्वजे
5-2
Keep
संतानकलतागेहं नीरन्ध्रैः पुष्पगुच्छकैः ।
शुद्धान्तं वनदेवीनां प्रविवेश मदान्विता
7
Keep
तत्र संकल्पिते पुष्पशयने माल्यमालिता ।
कण्ठे संकल्पितं कान्तं खिङ्गमादाय संस्थिता
8
Keep
आगत्यान्विष्य कुञ्जात्स प्रददर्श शिखिध्वजः ।
लतागेहे मदनिकां कण्ठे खिङ्गं मनोहरम्
9
Keep
कुन्तलावलितस्कन्धं समालब्धं च चन्दनैः ।
शयनावृतिनिक्षेपपर्याकुलितशेखरम्
10
Keep
हेमाभे द्विगुणाकारबालाबाहूपधानके ।
संसक्तश्रवणापाङ्गकपोलतलकुन्तलम्
11
Keep
मिथुनं तद्ददर्शाथ मिथः प्रहसिताननम् ।
अन्योन्यवदनासक्तं छन्नं कल्पलतांशुकैः
12
Keep
आलोलमाल्यशयनं मदनातुरमाकुलम् ।
अङ्गलग्नच्छलेनात्मरागमन्योन्यमर्पयत्
13
Keep
अभ्युन्मुखं समानन्दमुद्दाममदमन्थरम् ।
परस्पराहतं पुष्पैर्वक्षोभ्यां पीडितस्तनम्
14
Keep
तदालोक्याविकारेण चेतसालं तुतोष सः ।
अहो सुखं स्थितौ खिङ्गावित्याह स शिखिध्वजः
15
Keep
तिष्ठताङ्ग यथाकामं सुखं खिङ्गौ यथास्थितम् ।
विघ्नं माकरवं भीतावित्युक्त्वा निर्जगाम सः
16
Keep
ततो मुहूर्तमात्रेण प्रपञ्चं तमुपेक्ष्य सा ।
निर्ययौ दर्शयन्ती स्वं रतिफुल्लाकुलं वपुः
17
Keep
उपविष्टं ददर्शैनं नृपं हेमशिलातले ।
समाधिसंस्थमेकान्ते मनाग्विकसितेक्षणम्
18
Keep
तं प्रदेशमुपागम्य लज्जावनमितानना ।
तूष्णीमासीत्क्षणं खिन्ना म्लाना मदनिकाङ्गना
19
Keep
क्षणाच्छिखिध्वजो ध्यानाद्विरतस्तामुवाच ह ।
अत्यन्तमधुरं वाक्यमिदमक्षुब्धया धिया
20
Keep
तन्वि किं शीघ्रमेव त्वं विघ्नितानन्दमागता ।
आनन्दायैव भूतानि यतन्ते यानि कानिचित्
21
Keep
भूयस्तोषय तं गच्छ कान्तं प्रणयवृत्तिभिः ।
परस्परेप्सितस्नेहो दुर्लभो हि जगत्त्रये
22
Keep
अहमेतेन चार्थेन नोद्वेगं यामि मानिनि ।
यद्यदिष्टतमं लोके तत्तदेव विजानता
23
Keep
अहं कुम्भश्च तन्वङ्गि वीतरागाविहेतरा ।
दुर्वासःशापजा बाला त्वं यदिच्छसि तत्कुरु
24
Keep
मदनिकोवाच ।
एवमेष महाभाग स्त्रीस्वभावो हि चञ्चलः ।
कामो ह्यष्टगुणः स्त्रीणां न कोपं कर्तुमर्हसि
25
Keep
अबलाहमनेनास्मि रात्रौ गहनकानने ।
त्वयि संध्याजपपरे किं करोमि वराकिका
26
Keep
अबला वा कुमारी वा जारं न रतिरोधनम् ।
करोति परिखिङ्गेन नाङ्गे स्वे विनिवेशितम्
27
Keep
स्त्रियः सुन्दरतां याताः पुरपुंसामसङ्गमे ।
मन्युर्निषेध आक्रन्दः सतीत्वं किं करिष्यति
28
Keep
अबला स्त्री तथा बाला मूढाहमपराधिनी ।
क्षन्तुमर्हसि नाथ त्वं क्षमावन्तो हि साधवः
29
Keep
मन्युर्मम न बालेऽन्तर्विद्यते ख इव द्रुमः ।
केवलं साधुनिन्द्यत्वान्नेच्छामि त्वामहं वधूम्
30
Keep
सुहृत्त्वेन वनान्तेषु पूर्ववत्सुखमङ्गने ।
वीतरागतया नित्यं सममेव रमावहे
31
Keep
एवं समतया तत्र स्थिते तस्मिञ्छिखिध्वजे ।
चूडाला चिन्तयामास तत्सत्त्वेनोदिताशया
32
Keep
अहो वत परं साम्यं भगवानयमागतः ।
वीतरागतयाऽक्रोधो जीवन्मुक्तोऽवतिष्ठते
33
Keep
नैनं हरन्ति ते भोगा न महत्योऽपि सिद्धयः ।
न सुखानि न दुःखानि नापदो न च संपदः
34
Keep
चिन्तिताः सकला एकं प्रयान्त्येनमनिन्दिताः ।
मन्ये महर्द्धयः कान्ता नारायणमिवापरम्
35
Keep
आत्मवृत्तान्तमखिलं तमेनं स्मारयाम्यहम् ।
कुम्भरूपमिदं त्यक्त्वा चूडालैव भवाम्यहम्
33-2
Keep
इति संचिन्त्य चूडाला चूडालावपुरक्षता ।
दर्शयामास तत्राशु त्यक्त्वा मदनिकावपुः
37
Keep
तस्मान्मदनिकादेहाच्चूडाला निर्गतेव सा ।
बभावस्य पुरो युक्ता निर्गतेव समुद्गकात्
38
Keep
तां ददर्शानवद्याङ्गीं पुनः प्रणयपेशलाम् ।
कान्तां मदनिकामेव चूडालां दयितां स्थिताम्
39
Keep
समुदितामिव माधवपद्मिनी-
मुपगतामिव भूमितलाच्छ्रियम् ।
प्रकटितामिव रत्नसमुद्गका-
त्परिददर्श निजां दयितां नृपः
Previous
←
Sarga 107
Next
Sarga 109
→