Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 110
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
ततः समुदिते सूर्ये वितमस्यम्बरे स्थिते ।
समुद्गकादिव जगन्मणौ तस्मिन्विनिर्गते
2
Keep
विकसत्यरुणोपान्ते चक्षुषीवाम्बुजाकरे ।
आचारेष्विव लोकेषु प्रसृतेष्वर्करश्मिषु
3
Keep
दंपती तौ समुत्थाय कृतसंध्याक्रमौ स्थितौ ।
पत्रासने मृदुस्निग्धे कान्तौ काञ्चनकन्दरे
4
Keep
अथोत्थायात्र चूडाला रत्नकुम्भं पुरःस्थितम् ।
कान्ता संकल्पयामास पूर्णं सप्ताब्धिवारिभिः
5
Keep
तेन मङ्गलकुम्भेन तं पूर्वाभिमुखं स्थितम् ।
भार्या भर्तारमेकान्ते स्वराज्येऽभिषिषेच सा
6
Keep
संकल्पोपगते हैमे स्वभिषिक्तं स्वविष्टरे ।
स्थितं प्रोवाच तन्वी सा चूडाला देवरूपिणी
7
Keep
केवल मौनमुत्सृज्य तेजः शान्तमिदं प्रभो ।
अष्टानां लोकपालानां तेजस्त्वं भर्तुमर्हसि
8
Keep
चूडालयेति संप्रोक्तो वने राजा शिखिध्वजः ।
वदन्नेवं करोमीति महाराजत्वमाययौ
9
Keep
अथ प्रतीहारपदे तिष्ठन्तीमाह मानिनीम् ।
अद्य देवीपदे राज्ञीं त्वां करोम्यभिषेकिनीम्
10
Keep
इत्युक्त्वा सरसि स्नाप्य महादेवीपदे तथा ।
अभिषिक्तां नृपः कृत्वा स तामाह निजां प्रियाम्
11
Keep
प्रिये कमलपत्राक्षि क्षणात्संकल्पसंभवम् ।
महाविभवमुद्दामं सैन्यमाहर्तुमर्हसि
12
Keep
इति कान्तवचः श्रुत्वा चूडाला वरवर्णिनी ।
सैन्यं संकल्पयामास प्रावृड्घनमिवोद्भटम्
13
Keep
सैन्यं ददृशतुस्तत्तौ वाजिवारणसंकुलम् ।
पताकापूरिताकाशं नीरन्ध्रीकृतकाननम्
14
Keep
तूर्यारवध्वनच्छैलगुहागहनकोटरम् ।
मौलिरत्नमहोद्द्योतविचूर्णिततमःपटम्
15
Keep
तत्र गन्धद्विपवरे कृतपार्थिवमण्डले ।
रक्षिते हृष्टसामन्तैरारूढौ नृपदंपती
16
Keep
ततः शिखिध्वजो राजा महिष्या सममिष्टया ।
पदातिरथसंबाधं कर्षन्नतिवृलो बलम्
17
Keep
चचालाचलचालिन्या सेनया स ततो वनात् ।
भिन्दन्निव रसाशैलं वात्ययेवाशु भौमया
18
Keep
तस्मान्महेन्द्रशैलेन्द्राच्चलितः स महीपतिः ।
पथि पश्यन्गिरीन्देशान्नदीर्ग्रामान्सजङ्गलान्
19
Keep
दर्शयन्स्वप्रियायास्तमात्मवृत्तान्तसंचयम् ।
प्रागल्पेनैव कालेन स्वां पुरीं स्वर्गशोभनाम्
20
Keep
तत्र ते तस्य सामन्तास्तदागमनमादृताः ।
विविदुर्जयशब्देन निर्जग्मुश्चोदिताशयाः
21
Keep
एकतां संप्रयातेन तारतूर्यनिनादिना ।
बलद्वयेन तेनासौ विवेश नगरं नृपः
22
Keep
लाजपुष्पाञ्जलिव्रातैरावृष्टः पौरयोषिताम् ।
वणिङ्मार्गमसौ पश्यन्परंपरमनुत्तमम्
23
Keep
पताकाध्वजसंबाधं मुक्ताजालमनोरमम् ।
नृत्यगेयपरस्त्रीकं स्वभूमावचलं स्थितम्
24
Keep
प्रविश्याथ गृहं तैस्तैः संयुतं नृपमङ्गलैः ।
सम्यक्संमानयामास प्रणतं प्रकृतिव्रजम्
25
Keep
पुरोत्सवं भृशं कृत्वा दिनसप्तकमुत्तमम् ।
अकरोद्राजकार्याणि स्वानि स्वान्तःपुरे नृपः
26
Keep
दशवर्षसहस्राणि राज्यं कृत्वा महीतले ।
सहचूडालया राम विरतो देहधारणात्
27
Keep
देहमुत्सृज्य निर्वाणमस्नेह इव दीपकः ।
अपुनर्जन्मने राम जगामेति महामतिः
28
Keep
दशवर्षसहस्राणि समदृष्टितया तया ।
राज्यं तयाऽऽरमय्यापि निर्वाणं पदमाप्तवान्
29
Keep
विगतभयविषादो मानमात्सर्यमुक्तः
प्रकृतसहजकर्मा भुक्तनीरागबुद्धिः ।
इति समसमदृष्टिर्मृत्युमार्योऽथ जित्वा
दशशिशिरसहस्राण्येकराज्यं चकार
30
Keep
भुक्त्वा भोगाननेकान्भुवि सकलमहीपालचूडा-
मणित्वे
स्थित्वा वै दीर्घकालं परममृतपदं प्राप्तवान्सत्त्वशेषः ।
एवं रामागतं त्वं प्रकृतमनुसरन्कार्यजातं विशोक-
स्तिष्ठोत्तिष्ठ स्वयं वा प्रसभमनुभवन्भोगमोक्षादि-
लक्ष्मीः
Previous
←
Sarga 109
Next
Sarga 111
→