Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 111
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
एतत्ते सर्वमाख्यातं शिखिध्वजकथानकम् ।
अनेन गच्छन्मार्गेण न कदाचन खिद्यसे
2
Keep
एतां दृष्टिमवष्टभ्य रागद्वेषविनाशिनीम् ।
नित्यं नीरागया बुद्ध्या तिष्ठावष्टब्धतत्पदः
3
Keep
यथा शिखिध्वजो राज्यं कृतवानेवमीदृशम् ।
राम व्यवहरन्राज्ये भोगमोक्षमयो भव
4
Keep
शिखिध्वजक्रमेणैव यथा बोधमवाप्तवान् ।
कचो बृहस्पतेः पुत्रस्तथा बुध्यस्व राघव
5
Keep
बृहस्पतेर्भगवतः पुत्रोऽसौ भगवान्कचः ।
यथा प्रबुद्धो भगवन्समासेन तथा वद
6
Keep
श्रृणु राजन्कथां श्रीमाञ्छिखिध्वजवदेव सः ।
प्रबोधं परमं यातो देवदेशिकजः कचः
7
Keep
बालभावात्समुत्तीर्णः संसारोत्तरणोन्मुखः ।
कचः पदपदार्थज्ञो बृहस्पतिमभाषत
8
Keep
भगवन्सर्वधर्मज्ञ कथं संसृतिपञ्जरात् ।
अस्मान्निर्गम्यते ब्रूहि जन्तुना जीवतन्तुना
9
Keep
बृहस्पतिरुवाच ।
अनर्थमकरागारादस्मात्संसारसागरात् ।
उड्डीयते निरुद्वेगं सर्वत्यागेन पुत्रक
10
Keep
इत्याकर्ण्य कचो वाक्यं पितुः परमपावनम् ।
सर्वमेव परित्यज्य जगामैकान्तकाननम्
11
Keep
बृहस्पतेस्तद्गमनं नोद्वेगाय बभूव ह ।
संयोगे च वियोगे च महान्तो हि महाशयाः
12
Keep
अथ वर्षेषु जातेषु त्रिषु पञ्चसु सोऽनघ ।
पुनः प्राप महारण्ये कस्मिंश्चित्पितरं कचः
13
Keep
परिपूज्याभिवाद्यैनं समालिङ्गितपुत्रकम् ।
अपृच्छद्वाक्पतिं भूयः स कचः कान्तया गिरा
14
Keep
अद्येदमष्टमं वर्षं सर्वत्यागः कृतो मया ।
तथापि तात विश्रान्तिं नाधिगच्छाम्यनिन्दिताम् । ।
एवमार्तवचस्तस्मिन्कचे वदति कानने ।
सर्वमेव त्यजेत्युक्त्वा वाक्पतिर्दिवमुद्ययौ
16
Keep
गते तस्मिन्कचो देहाद्वल्कलाद्यप्यथात्यजत् ।
गतेन्द्वभ्रार्कतारेण शरद्व्योम्ना समोऽभवत्
17
Keep
पुनर्वर्षत्रयेणैष कस्मिंश्चित्काननान्तरे ।
तत्याजाम्बुदवर्षादि शरदीव नभस्तलम्
18
Keep
उपासैको दिगन्तेषु शान्तशून्यवपुः श्वसन् ।
दूयमानमनाः प्राप तमेव पितरं गुरुम्
19
Keep
कृतपूजाक्रमो भक्त्या समालिङ्गितपुत्रकम् ।
अपृच्छत्स कचो भूयः खेदगद्गदया गिरा
20
Keep
तात सर्वं परित्यक्तं कन्थां वेणुलताद्यपि ।
तथापि नास्ति विश्रान्तिः स्वपदे किं करोम्यहम्
21
Keep
बृहस्पतिरुवाच ।
चित्तं सर्वमिति प्राहुस्तत्त्यक्त्वा पुत्र राजसे ।
चित्तत्यागं विदुः सर्वत्यागं सर्वविदो जनाः
22
Keep
इत्युक्त्वा वाक्पतिः पुत्रं पुप्लुवे तरसा नभः ।
अन्वियेष कचश्चित्तं परित्यक्तुमखिन्नधीः
23
Keep
चिन्तयन्नप्यसौ चित्तं न यदा वेद कानने ।
तदा संचिन्तयामास धियैव पितरं ययौ
24
Keep
पदार्थवृन्दं देहादि न चित्तमिति कथ्यते ।
तदेतत्किं क्व वा व्यर्थं निरागस्कं त्यजाम्यहम्
25
Keep
पितुः सकाशं गच्छामि ज्ञातुं चित्तं महारिपुम् ।
ज्ञात्वा तत्संत्यजाम्याशु ततस्तिष्ठामि विज्वरः
26
Keep
इति संचिन्त्य स कच उज्जगाम त्रिविष्टपम् ।
वाक्पतिं प्राप्य सस्नेहं ववन्दे प्रणनाम च
27
Keep
अपृच्छच्चैनमेकान्ते किं चित्तं भगवन्वद ।
स्वरूपं ब्रूहि चित्तस्य येन तत्संत्यजाम्यहम्
28
Keep
बृहस्पतिरुवाच ।
चित्तं निजमहंकारं विदुश्चित्तविदो जनाः ।
अन्तर्योऽयमहंभावो जन्तोस्तच्चित्तमुच्यते
29
Keep
त्रयस्त्रिंशन्महाकोटिप्रमाणस्य महामते ।
गुरो गीर्वाणवृन्दस्य कथमेतद्वदेति मे
30
Keep
मन्येऽस्य दुष्करस्त्यागो न सिद्धिमुपगच्छति ।
कथमेष किल त्यक्तुं शक्यते योगिनां वर
31
Keep
बृहस्पतिरुवाच ।
अपि पुष्पावदलनादपि लोचनमीलनात् ।
सुकरोऽहंकृतेस्त्यागो न क्लेशोऽत्र मनागपि
32
Keep
यथैतदेवं तनय तथा श्रृणु वदामि ते ।
अज्ञानमात्रसंसिद्धं वस्तु ज्ञानेन नश्यति
33
Keep
वस्तुतो नास्त्यहंकारः पुत्र मिथ्याभ्रमो यथा ।
असन्सन्निव संपन्नो बालवेतालवत्स्थितः
34
Keep
यथा रज्ज्वां भुजंगत्वं मरावम्बुमतिर्यथा ।
मिथ्यावभासः स्फुरति तथा मिथ्याप्यहंकृतिः
35
Keep
असदेव यथा द्वित्वं मोहादिन्दौ विलोक्यते ।
तथा स्फुरत्यहंकारो न सत्यो वाप्यसन्न च
36
Keep
एकमाद्यन्तरहितं चिन्मात्रममलान्तरम् ।
खादप्यतितरामच्छं विद्यते सर्ववेदनम्
37
Keep
सर्वत्र सर्वदा सर्वप्रकाशं सर्वजन्तुषु ।
तदेवैकं कचत्यम्बु विलोलास्वब्धिवीचिषु
38
Keep
अत्र कोऽयमहंभावः कुतो वा कथमुत्थितः ।
क्वाप्सु जातो रजोराशिः क्वानलादुत्थितं जलम्
39
Keep
अयं सोऽहमिति व्यर्थं प्रत्ययं त्यज पुत्रक ।
तुच्छं परिमिताकारं दिक्कालविवशीकृतम्
40
Keep
दिक्कालाद्यनवच्छिन्नं स्वच्छं नित्योदितं ततम् ।
सर्वार्थमयमेकार्थचिन्मात्रममलं भवान्
41
Keep
फलकुसुमदलानां सर्वदिक्संस्थितानां
रस इव जगतां त्वं संस्थितः सर्वदैव ।
विमलतरचिदात्मा नित्यमेवास्यनन्तः
क इव कच तवाहंनिश्चयो भावमूर्तेः
Previous
←
Sarga 110
Next
Sarga 112
→