Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 112
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
इति प्राप्य परं योगमुपदेशमनुत्तमम् ।
जीवन्मुक्तो बभूवासौ ततो देवगुरोः सुतः
2
Keep
निर्ममो निरहंकारश्छिन्नग्रन्थिः प्रशान्तधीः ।
कचो यथा स्थितो राम तथा तिष्ठाविकारवान्
3
Keep
अहंकारमसद्विद्धि मैनमाश्रय मा त्यज ।
असतः शशशृङ्गस्य किल त्यागग्रहौ कुतः
4
Keep
असंभवत्यहंकारे क्व ते मरणजन्मनी ।
नभःक्षेत्रे तथा व्युप्तं केन संगृह्यते फलम्
5
Keep
निरंशं शान्तसंकल्पं सर्वभावात्मकं ततम् ।
परमादप्यणोः सूक्ष्मं चिन्मात्रं त्वमनोमयम्
6
Keep
यथाम्भसस्तरङ्गादि यथा हेम्नोऽङ्गदादि च ।
तदेवातदिवाभासं तथाहंभावभावितः
7
Keep
अबोधेन जगत्सर्वं मायामयमिव स्थितम् ।
बोधेन सकलं ब्रह्मरूपं संपद्यतेऽनघ
8
Keep
द्वित्वैकत्वमती त्यक्त्वा शेषस्थः सुखितो भव ।
मा दुःखितो भव व्यर्थं त्वं मिथ्यापुरुषो यथा
9
Keep
मायेयमतिदुष्पारा सांसारी गाढतां गता ।
शरदा मिहिकेवाशु बोधेनायाति तानवम्
10
Keep
परमामागतोऽस्म्यन्तस्तृप्तिं ज्ञानामृतेन ते ।
अवग्रहभयाक्रान्तः स्वासारेणेव चातकः
11
Keep
अमृतेनेव सिक्तोऽहमन्तर्गच्छामि शीतताम् ।
उपर्यपि समस्तानां तिष्ठाम्यतुलसंपदाम्
12
Keep
न तृप्तिमनुगच्छामि वचांसि वदतस्तव ।
ऐन्दवीनां मरीचीनां चकोरस्तृषितो यथा
13
Keep
तृप्तोऽपि भूयः पृच्छामि त्वां प्रश्नमिममीश्वर ।
को नाम तृप्तोऽप्यग्रस्तं न पिबत्यमृतासवम्
14
Keep
किमुच्यते मुनिश्रेष्ठ मिथ्यापुरुषनामकम् ।
वस्त्ववस्तु कृतं जगद्वस्तुजातं वदाशु मे
15
Keep
मिथ्यापुरुषबोधाय श्रृणु राघव शोभनाम् ।
इमामाख्यायिकां हासजननीं मदुदीरिताम्
16
Keep
अस्ति कश्चिन्महाबाहो मायायन्त्रमयः पुमान् ।
बालपेलवधीमूढो गूढो मौर्ख्येण केवलम्
17
Keep
स एकान्ते क्वचिज्जातः शून्ये तत्रैव तिष्ठति ।
केशोण्ड्रकमिव व्योम्नि मृगतृष्णेव वा मरौ
18
Keep
तस्मादन्यन्न तत्रास्ति यदस्ति च स एव तत् ।
यच्चान्यत्तत्तदाभासं न च पश्यति दुर्मतिः
19
Keep
संकल्पस्तस्य संजातस्तत्र वृद्धिमुपेयुषः ।
खस्याहं खमहं खं मे खं रक्षामीति निश्चलः
20
Keep
खं स्थापयित्वा रक्षामि वस्त्विष्टं स्वयमादरात् ।
इति संचिन्तयन्व्योमरक्षार्थं सोऽकरोद्गृहम्
21
Keep
तस्य कोशे बबन्धास्थां रक्षितं खं मयेत्यसौ ।
गृहाकाशेन संतुष्टस्ततः स रघुनन्दन
22
Keep
अथ कालेन तत्तस्य गृहं नाशमुपाययौ ।
ऋत्वन्तरेणाब्द इव वातेनेव तरङ्गकः
23
Keep
हा गृहाकाश नष्टं त्वं हा क्व यातमसि क्षणात् ।
हा हा भग्नमसि स्वच्छमित्येवैतच्छुशोच सः
24
Keep
इति शोकशतं कृत्वा पुनस्तत्रैव दुर्मतिः ।
कूपं चक्रे खरक्षार्थं कूपाकाशपरोऽभवत्
25
Keep
ततो नाशं स कालेन नीतः कूपोऽपि तस्य वै ।
कूपाकाशे गते शोकनिमग्नोऽसौ ततोऽभवत्
26
Keep
कूपाकाशप्रलापान्ते कुम्भं शीघ्रमथाकरोत् ।
कुम्भाकाशपरो भूत्वा स्वयं निर्वृतिमाययौ
27
Keep
कुम्भोऽपि तस्य कालेन नाशं नीतो रघूद्वह ।
यामेव दिशमादत्ते दुर्भगः सा हि नश्यति
28
Keep
कुम्भाकाशप्रलापान्ते खरक्षार्थं चकार सः ।
कुण्डं तथैव तेनासौ कुण्डाकाशपरोऽभवत्
29
Keep
कुण्डमप्यस्य कालेन केनचिन्नाशमाययौ ।
तेजसेव तमस्तेन कुण्डाकाशं शुशोच सः
30
Keep
कुण्डाकाशस्य शोकान्ते खरक्षार्थं चकार सः ।
चतुःशालं महाशालं तदाकाशमयोऽभवत्
31
Keep
तदप्यस्य जहाराशु कालः कवलितप्रजः ।
जीर्णपर्णं यथा वातस्ततः शोकपरोऽभवत्
32
Keep
स चतुःशालशोकान्ते खरक्षार्थं चकार ह ।
कुसूलमम्बुदाकारं तदाकाशपरः स्थितः
33
Keep
तदप्यस्य जहाराशु कालो वात इवाम्बुदम् ।
कुसूलनाशशोकेन तेनासौ पर्यतप्यत
34
Keep
एवं गृहचतुःशालकुम्भकुण्डकुसूलकैः ।
तस्यापर्यवसानात्मा कालोऽयमतिवर्तते
35
Keep
एवं स्थितः स विवशो गगनं गुहायां
गृह्णन्गृहेण गहनेन किलात्मबुद्ध्या ।
दुःखान्तराद्धनतराद्धनदुःखजात-
मायाति याति च गतागतिसङ्गमूढः
Previous
←
Sarga 111
Next
Sarga 113
→