Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 117
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
भवतामादिपुरुष इक्ष्वाकुर्नाम भूपतिः ।
इक्ष्वाकुवंशप्रभव यथा मुक्तस्तथा श्रृणु
2
Keep
इक्ष्वाकुर्नाम भूपालः स्वराज्यं परिपालयन् ।
कदाचिदेकान्तगतो मनसा समचिन्तयत्
3
Keep
जरामरणसंक्षोभसुखदुःखभ्रमस्थितेः ।
अस्य दृश्यप्रपञ्चस्य को हेतुः स्यादिति स्वयम्
4
Keep
जगतो न विवेदासौ कारणं चिन्तयन्नपि ।
अथैकदा पृच्छदसौ ब्रह्मलोकागतं मनुम्
5
Keep
पूजितं स्वसभासंस्थं भगवन्तं प्रजापतिम् ।
इक्ष्वाकुरुवाच ।
मां योजयति धार्ष्ट्येन भगवन्करुणानिधे
6
Keep
भवत्प्रसाद एवायं भवन्तं प्रष्टुमञ्जसा ।
कुतः सर्गोऽयमायातः स्वरूपं चास्य कीदृशम्
7
Keep
कियदेतज्जगत्कस्य कदा केनेति कथ्यते ।
अहं कथं च विषमादस्मात्संसृतिविभ्रमात्
8
Keep
विमुच्येय घनास्तीर्णाज्जालादिव विहंगमः ।
मनुरुवाच ।
अहो नु चिरकालेन विवेके सुविकासिनि
9
Keep
वितथानर्थविच्छेत्ता सारः प्रश्नस्त्वया कृतः ।
यदिदं दृश्यते किंचित्तन्नास्ति नृप किंचन
10
Keep
यथा गन्धर्वनगरं यथा वारि मरुस्थले ।
यत्तु नो दृश्यते किंचित्तन्न किंचिदिव स्थितम्
11
Keep
मनःषष्ठेन्द्रियातीतं यत्स्यादपि न किंचन ।
अविनाशं तदस्तीह तत्सदात्मेति कथ्यते
12
Keep
इयं तु सर्वदृश्याढ्या राजन्सर्गपरंपरा ।
तस्मिन्नेव महादर्शे प्रतिबिम्बमुपागता
14
Keep
भाः स्वभावसमुत्पन्ना ब्रह्मस्फुरणशक्तयः ।
काश्चिद्ब्रह्माण्डतां यान्ति काश्चिद्गच्छन्ति भूतताम् । ।
अन्यास्त्वन्यत्वमायान्ति भवत्येवं जगत्स्थितिः ।
न बन्धोऽस्ति न मोक्षोऽस्ति ब्रह्मैवास्ति निरामयम् ।
नैकमस्ति न च द्वित्वं संवित्सारं विजृम्भते
15
Keep
एकं यथा स्फुरति वारि तरङ्गभङ्गै-
रेवं परिस्फुरति चिन्न च किंचिदेव ।
त्वं बन्धमोक्षकलने प्रविमुच्य दूरे
स्वस्थो भवाऽभवभयोऽभयसार एव
Previous
←
Sarga 116
Next
Sarga 118
→