Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 118
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
118
Keep
अष्टादशाधिकशततमः सर्ग
1
Keep
मनुरुवाच ।
संकल्पोन्मुखतां याताः सत्यश्चिन्मात्रसंविदः ।
आपस्तरङ्गत्वमिव यान्ति भूमिप जीवताम्
2
Keep
ते जीवाः संसरन्तीह संसारे पूर्वमुत्थिते ।
सुखदुःखदशामोहो मनस्येवास्ति नात्मनि
3
Keep
अदृश्यो दृश्यते राहुर्गृहीतेन यथेन्दुना ।
तथानुभवमात्रात्मा दृश्येनात्मावलोक्यते
4
Keep
न शास्त्रैर्नापि गुरुणा दृश्यते परमेश्वरः ।
दृश्यते स्वात्मनैवात्मा स्वया सत्त्वस्थया धिया
5
Keep
पथिकाः पथि दृश्यन्ते रागद्वेषविमुक्तया ।
यथा धिया तथवते द्रष्टव्याः स्वेन्द्रियादयः
6
Keep
एतेषु नादरः कार्यः सता नैवावधीरणम् ।
पदार्थमात्रताविष्टास्तिष्ठन्त्वेते यथासुखम्
7
Keep
पदार्थमात्रं देहादि धिया संत्यज्य दूरतः ।
आशीतलान्तःकरणो नित्यमात्ममयो भव
8
Keep
देहोऽहमिति या बुद्धिः सा संसारनिबन्धनी ।
न कदाचिदियं बुद्धिरादेया हि मुमुक्षुभिः
9
Keep
नकिंचिन्मात्रचिन्मात्ररूपोऽस्मि गगनादणुः ।
इति या शाश्वती बुद्धिः सा न संसारबन्धनी
10
Keep
यथा विमलतोयानां बहिरन्तश्च भावनम् ।
तेजस्तिष्ठति सर्वत्र तथात्मा सर्ववस्तुषु
11
Keep
संनिवेशांशवैचित्र्यं यथा हेम्नोऽङ्गदादिता ।
आत्मनस्तदतद्रूपा तथैव जगदादिता
12
Keep
विनाशवाडवाक्रान्तं भीमं काममहार्णवम् ।
जगज्जालतरङ्गिण्यो यान्ति भूततरङ्गिकाः
13
Keep
तथाप्यद्याप्यपूर्णस्य यः पाता कालवारिधेः ।
तमात्मानं महागस्त्यं राजन्भावय सर्वदा
14
Keep
अनात्मन्यात्मतामस्मिन्देहादौ दृश्यजालके ।
त्यक्त्वा सत्त्वमुपारूढो गूढस्तिष्ठ यथासुखम्
15
Keep
कुचकोटरसंसुप्तं विस्मृत्य जननी सुतम् ।
यथा रोदिति पुत्रार्थं तथात्मार्थमयं जनः
16
Keep
अजरामरमात्मानमबुद्ध्वा परिरोदिति ।
हा हतोऽहमनाथोऽहं नष्टोऽस्मीति वपुर्व्यये
17
Keep
यथा वारि परिस्पन्दान्नानाकारं विलोक्यते ।
तथा संकल्पवशतश्चिद्ब्रह्म परिबृंहति
18
Keep
संस्थाप्य संकल्पकलङ्कमुक्तं
चित्तं त्वमात्मन्युपशान्तकल्पः ।
स्पन्देऽप्यसंस्पन्दमिवेह तिष्ठ
स्वस्थः सुखी राज्यमिदं प्रशाधि
Previous
←
Sarga 117
Next
Sarga 119
→