Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 119
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
मनुरुवाच ।
सर्गात्मभिर्विभुः स्पन्दैः क्रीडते बालवत्स्वयम् ।
संहारात्मकशक्त्याथ संहृत्यात्मनि तिष्ठति
2
Keep
स्वयमस्य तथा शक्तिरुदेत्याबध्यते यया ।
स्वयमस्य तथा शक्तिरुदेत्युन्मुच्यते यया
3
Keep
चन्द्रार्कवह्नितप्तायोरत्नादीनां यथार्चिषः ।
यथा पत्रादि वृक्षाणां निर्झराणां यथा कणाः
4
Keep
तथेदं ब्रह्मणि स्फारे जगद्बुद्ध्यादि कल्पितम् ।
दुःखप्रदमतज्ज्ञानां तदेवातदिव स्थितम्
5
Keep
अहो नु चित्रा मायेयं तात विश्वविमोहिनी ।
सर्वाङ्गप्रोतमप्यात्मा यदात्मानं न पश्यति
6
Keep
चिदादर्शमयं सर्वं जगदित्येव भावयन् ।
यस्तिष्ठत्युपशान्तेच्छं स ब्रह्मकवचः सुखी
7
Keep
अहमर्थविमुक्तेन भावेनाभावरूपिणा ।
सर्वं शून्यं निरालम्बं चिद्रूपमिति भावयेत्
8
Keep
इदं रम्यमिदं नेति बीजं ते दुःखसंततेः ।
तस्मिन्साम्याग्निना दग्धे दुःखस्यावसरः कुतः
9
Keep
राजन्नभावनास्त्रेण रम्यारम्यविभागिता ।
पौरुषातिशयेनाशु स्वेनैवान्तर्विलूयताम्
10
Keep
अभावनेन भावनं विलूय कर्मकाननम् ।
परं समेत्य तानवं विशोक एव तिष्ठ भोः
11
Keep
भरितभुवनाभोगो भूत्वा विभागबहिष्कृतो
गलितकलनाभासोल्लासो विवेकविलासवान् ।
अधिगतपरानन्दस्पन्दश्चिराय निरामयः ।
शमसमसितस्वच्छाभोगो भवाभयचिद्वपुः
Previous
←
Sarga 118
Next
Sarga 120
→