Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 121
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
मनुरुवाच ।
यावद्विषयभोगाशा जीवाख्या तावदात्मनः ।
अविवेकेन संपन्ना साप्याशा हि न वस्तुतः
2
Keep
विवेकवशतो याता क्षयमाशा यदा तदा ।
आत्मा जीवत्वमुत्सृज्य ब्रह्मतामेत्यनामयः
3
Keep
ऊर्ध्वादधस्तथाधस्तात्पुनरूर्ध्वं व्रजंश्चिरम् ।
मा संसारारघट्टस्य चिन्तारज्ज्वां घटीभव
4
Keep
इदं ममाहमस्येति व्यवहारघनभ्रमम् ।
ये मोहात्परिसेवन्ते अधस्ताद्यान्त्यधः शठाः
5
Keep
अस्याहमेष मे सोऽयमहमेवं तु यैः किल ।
मोहो बुद्ध्या परित्यक्त ऊर्ध्वादूर्ध्वं प्रयान्ति ते
6
Keep
स्वप्रकाशं स्वमात्मानमवलम्ब्याविलम्बितम् ।
आस्स्व संपूरिताकाशं जगन्ति नृप पश्य हे
7
Keep
यदैवैवं चितो रूपं ततं बुद्धमखण्डितम् ।
तदैव तीर्णः संसारः परमेश्वरतां गतः
8
Keep
ब्रह्मेन्द्रविष्णुवरुणा यद्यत्कर्तुं समुद्यताः ।
तदहं चिद्वपुः सर्वं करोमीत्येव भावयेत्
9
Keep
येषु येषु यदा यद्यद्दर्शनेषु निगद्यते ।
सर्वमेवाङ्ग तत्सत्यं चिद्विलासो ह्यनङ्कुशः
10
Keep
चिन्मात्रत्वं प्रयातस्य तीर्णमृत्योरचेतसः ।
यो भवेत्परमानन्दः केनासावुपमीयते
11
Keep
नाप्यशून्यं न शून्यं च नाचिद्रूपं न चिन्मयम् ।
नात्मरूपं नान्यरूपं भुवनं भावयन्भव
12
Keep
एतत्स्वरूपमासाद्य प्रकृतिः परिशाम्यति ।
न देशो मोक्षनामास्ति न कालो नेतरा स्थितिः
13
Keep
अहंकृतेर्विमोहस्य क्षयेणेयं विलीयते ।
प्रकृतिर्भावनानाम्नी मोक्षः स्यादेष एव सः
14
Keep
प्रशान्तशास्त्रार्थविचारचापलो
निवृत्तनानारसकाव्यकौतुकः ।
निरस्तनिःशेषविकल्पविप्लवः
समः सुखं तिष्ठति शाश्वतात्मकः
Previous
←
Sarga 120
Next
Sarga 122
→