Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 122
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
मनुरुवाच ।
येन केनचिदाच्छन्नो येन केनचिदाशितः ।
यत्रक्वचनशायी च स सम्राडिव राजते
2
Keep
वर्णधर्माश्रमाचारशास्त्रयन्त्रणयोज्झितः ।
निर्गच्छति जगज्जालात्पञ्जरादिव केसरी
3
Keep
वाचामतीतविषयो विषयाशादशोज्झितः ।
कामप्युपगतः शोभां शरदीव नभस्तलम्
4
Keep
गम्भीरश्च प्रसन्नश्च गिराविव महाह्रदः ।
परानन्दरसाक्षुब्धो रमते स्वात्मनात्मनि
5
Keep
सर्वकर्मफलत्यागी नित्यतृप्तो निराश्रयः ।
न पुण्येन न पापेन लिप्यते नेतरेण च
6
Keep
स्फटिकः प्रतिबिम्बेन यथा याति न रञ्जनम् ।
तज्ज्ञः कर्मफलेनान्तस्तथा नायाति रञ्जनम्
7
Keep
विहरञ्जनतावृन्दे देहकर्तनपूजनैः ।
खेदाह्लादौ न जानाति प्रतिबिम्बगतैरिव
8
Keep
निःस्तोत्रो निर्विकारश्च पूज्यपूजाविवर्जितः ।
संयुक्तश्च वियुक्तश्च सर्वाचारनयक्रमैः
9
Keep
तस्मान्नोद्विजते लोको लोकान्नोद्विजते च सः ।
रागद्वेषभयानन्दैस्त्यज्यतेऽपि च युज्यते
10
Keep
प्रमेये कस्यचिदपि न रोहति महाशयः ।
प्रमेयीक्रियते चापि बालेनाप्यदुराशयः
11
Keep
तनुं त्यजतु वा तीर्थे श्वपचस्य गृहेऽपि वा ।
मा कदाचन वा राजन्वर्तमानेऽपि वा क्षणे
12
Keep
ज्ञानसंप्राप्तिसमये मुक्तोऽसौ विगताशयः ।
अहंभ्रान्तिर्हि बन्धाय मोक्षो ज्ञानेन तत्क्षयः
13
Keep
स पूजनीयः स स्तुत्यो नमस्कार्यः स यत्नतः ।
स निरीक्ष्योऽभिवाद्यश्च विभूतिविभवैषिणा
14
Keep
न यज्ञतीर्थैर्न तपःप्रदानै-
रासाद्यते तत्परमं पवित्रम् ।
आसाद्यते क्षीणभवामयानां
भक्त्या सतामात्मविदां यदङ्ग
15
Keep
एवमुक्त्वा स भगवान्मनुर्ब्रह्मगृहं ययौ ।
इक्ष्वाकुरपि तां दृष्टिमवष्टभ्य स्थिरोऽभवत्
Previous
←
Sarga 121
Next
Sarga 123
→