Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 14
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अस्ति तावदनन्तस्य तस्य क्वचिदयं किल ।
जगद्रूपः परिस्पन्दो मृगतृष्णा मराविव
2
Keep
तत्र कारणतां यातो ब्रह्मा कमलसंभवः ।
स्थितः पितामहत्वेन सृष्टभूतभरभ्रमः
3
Keep
तस्याहं मानसः पुत्रो वसिष्ठः श्रेष्ठचेष्टितः ।
ऋक्षचक्रे ध्रुवधृते निवसामि युगं प्रति
4
Keep
सोऽहं कदाचिदास्थाने स्वर्गे तिष्ठञ्छतक्रतोः ।
श्रुतवान्नारदादिभ्यः कथां सुचिरजीविनाम्
5
Keep
कथाप्रसङ्गे कस्मिंश्चिदथ तत्राभ्युवाच ह ।
शातातपो नाम मुनिमौनी मानी महामतिः
6
Keep
मेरोरीशानकोणस्थे पद्मरागमये दिवि ।
अस्ति कल्पतरुः श्रीमाञ्छृङ्गे चूत इति श्रुतः
7
Keep
तस्य कल्पतरोर्मूर्ध्नि दक्षिणस्कन्धकोटरे ।
कलधौतलताप्रोते विद्यते विहगालयः
8
Keep
तस्मिन्निवसति श्रीमान्भुशुण्डो नाम वायसः ।
वीतरागो बृहत्कोशे ब्रह्मेव निजपङ्कजे
9
Keep
स यथा जगतां कोशे जीवतीह सुराश्चिरम् ।
चिरंजीवी तथा स्वर्गे न भूतो न भविष्यति
10
Keep
स दीर्घायुः स नीरागः स श्रीमान्स महामतिः ।
स विश्रान्तमतिः शान्तः स कान्तः कालकोविदः
11
Keep
स यथा जीवति खगस्तथेह यदि जीव्यते ।
तद्भवेज्जीवितं पुण्यं दीर्घं चोदयमेव च
12
Keep
इति तेन भुशुण्डोऽसौ भूयः पृष्टेन वर्णितः ।
यथावदेव देवानां सभायां सत्यमुक्तवान्
13
Keep
कथावसरसंशान्तावथ याते सुरव्रजे ।
भुशुण्डं विहगं द्रष्टुमहं यातः कुतूहलात्
14
Keep
भुशुण्डः संस्थितो यत्र मेरोः श्रृङ्गं तदुत्तमम् ।
संप्राप्तवान्क्षणेनाहं पद्मरागमयं बृहत्
15
Keep
रत्नगैरिककान्तेन तेजसा वह्निवर्चसा ।
मध्वासवरसेनेव रञ्जयत्ककुभां गणम्
16
Keep
कल्पान्तज्वलनोज्ज्वालापिण्डाद्रिमिव संचितम् ।
इन्द्रनीलशिखाधूममालोकारुणिताम्बरम्
17
Keep
सर्वेषामेव रागाणां राशिमद्राविव स्थितम् ।
सर्वसंध्याभ्रजालानां घनमेकमिवाकरम्
18
Keep
उत्क्रान्तिं कुर्वतो मेरोर्ब्रह्मनाड्येव निर्गतम् ।
मूर्धानमागतं कान्तं वाडवं जठरानलम्
19
Keep
सुमेरुवनदेव्येव नवालक्तकरञ्जितम् ।
लीलयाऽऽदातुमिन्दुं खे नीतं हस्तशिखाङ्गुलिम्
20
Keep
ज्वालाभिरिव मालाभिररुणाभिः पयोमुखम् ।
खं गन्तुमिव सस्पन्दं शैलस्थमिव वाडवम्
21
Keep
ताराः स्प्रष्टुमिवाकाशमङ्गुलीभिरिव त्रिभिः ।
कचदंशुनखाग्राभिः परिचुम्बदिवोन्नतम्
22
Keep
गर्जज्जीमूतमुरजं भूभृतानां तु मण्डपम् ।
हसत्कुसुमगुच्छाढ्यं ध्वनत्षट्पदपेटकम्
23
Keep
दन्ततालदलावल्या परिहासादिव स्फुरत् ।
दोलालोलाप्सरोवृन्दमुदारमदमन्मथम्
24
Keep
शिलाविश्रान्तविबुधमिथुनाश्रितकन्दरम् ।
वराम्बराजिनं शुभ्रगङ्गायज्ञोपवीति च
25
Keep
तापसं पिङ्गलमिव वेणुदण्डधरं स्थितम् ।
गङ्गानिर्झरनिर्ह्रादि लतागृहगतामरम्
26
Keep
गन्धर्वगीतसुभगमामोदमधुरानिलम् ।
फुल्लहेमाम्बुजोत्तंसं तारारत्नविभूषितम् ।
व्योम्नः पारमिव प्राप्तं पिङ्गलं मैरवं शिरः
27
Keep
सितहरितपीतपाटल-
धवलैर्वनकुसुमराशिनवरङ्गैः ।
दिवि विहितामलचित्रं
लीलाचलममरयुवतिवर्गस्य
Previous
←
Sarga 13
Next
Sarga 15
→