Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 15
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
कुसुमापूर्णकल्पाभ्रकुन्तले तस्य मूर्धनि ।
कल्पाङ्गमहमद्राक्षं शाखाचक्रमिव स्थितम्
2
Keep
पुष्परेण्वभ्रवलितं रत्नस्तबकदन्तुरम् ।
उत्सेधनिर्जिताकाशं शृङ्गे शृङ्गमिवार्पितम्
3
Keep
ताराद्विगुणपुष्पौघं मेघद्विगुणपल्लवम् ।
रश्मिद्विगुणरेण्वभ्रं तडिद्द्विगुणमञ्जरीम्
4
Keep
स्कन्धेषु किन्नरीगीतद्विगुणभ्रमरस्वनम् ।
दोलालोलाप्सरोलोकद्विगुणीकृतपल्लवम्
5
Keep
सिद्धगन्धर्वसंघातद्विगुणोत्थविहंगमम् ।
रत्नकान्त्यच्छनीहारद्विगुणत्वग्वृतांशुकम्
6
Keep
चन्द्रबिम्बसमाश्लेषद्विगुणाङ्गबृहत्फलम् ।
मूलसंलीनकल्पाभ्रद्विगुणीकृतपर्वकम्
7
Keep
सुरसंवलितस्कन्धं पत्रविश्रान्तकिन्नरम् ।
निकुञ्जकुञ्जजीमूतं कच्छसुप्तसुरादिकम्
8
Keep
स्वाकारविपुलं भृङ्गानुत्सार्य वलयस्वनैः ।
अप्सरोभ्रमरीभिश्च गृहीतकुसुमान्तरम्
9
Keep
सुरकिंनरगन्धर्वविद्याधरवरान्वितम् ।
जगज्जालमिवानन्तदशाशाकाशपूरकम्
10
Keep
नीरन्ध्रकलिकाजालं नीरन्ध्रमृदुपल्लवम् ।
नीरन्ध्रविकसत्पुष्पं नीरन्ध्रवनमालितम्
11
Keep
नीरन्ध्रमञ्जरीपुञ्जं नीरन्ध्रमणिगुच्छकम् ।
नीरन्ध्रांशुकरत्नाढ्यं लताविलसनाकुलम्
11-2
Keep
सर्वत्र कुसुमापूरैः सर्वत्र फलपल्लवैः ।
सर्वामोदरजःपुञ्जैः परं वैचित्र्यमागतम्
13
Keep
तस्य कक्षेषु कुञ्जेषु लतापत्रेषु पर्वसु ।
पुष्पेष्वालयसंलीनान्विहगान्दृष्टवानहम्
14
Keep
निशानाथकलाखण्डमृणालशकलैधितान् ।
अर्जुनाम्भोजिनीकन्दकवलान्ब्रह्मसारसान्
15
Keep
विरंचेरथ हंसानां पोतकान्सामगायिनः ।
ॐकारवेदसुहृदो ब्रह्मविद्यानुशासनान्
16
Keep
उद्गीर्णमन्त्रनिचयान्स्वाहाकारनिभस्वनान् ।
अस्थिनैकतडित्पुञ्जनीलमेघसमोपमान्
17
Keep
देवैर्निरीक्षितान्नित्यं यज्ञवेदिलतादलान् ।
शुकान्कार्शानवाञ्छयामाञ्छिशूञ्छिखिशिखाशिखान्
18
Keep
गौरीरक्षितबर्हौघान्कौमारान्वरबर्हिणः ।
स्कन्दोपन्यस्तनिःशेषशैवविज्ञानकोविदान्
19
Keep
व्योम्नैव जातनष्टानां महतां व्योमपक्षिणाम् ।
बन्धूनाबद्धनिलयाञ्छरदभ्रसमाकृतीन्
20
Keep
विरंचिहंसजानन्यानन्यानग्निशुकोद्भवान् ।
कौमारबर्हिजानन्यानन्यानम्बरपक्षिजान्
21
Keep
द्वितुण्डांश्च भरद्वाजान्हेमचूडान्विहंगमान् ।
कलविङ्कबलान्गृध्रान्कोकिलान्क्रौञ्चकुक्कुटान्
22
Keep
भासचाषबलाकादीन्बहूनन्यांश्च राघव ।
भूतौघं जगतीवाहं दृष्टवांस्तत्र पक्षिणः
23
Keep
दक्षिणस्कन्धशाखायां स्थितायां वै दवीयसि ।
अथाहं दृष्टवान्पुष्टपत्रायामम्बरस्थितः
24
Keep
काले काकोलवलयं मञ्जरीजालमालितम् ।
लोकालोकाचलेऽरण्ये कल्पाभ्रौघमिव स्थितम्
25
Keep
तत्र पश्याम्यहं यावदेकान्ते स्कन्धकोटरे ।
विचित्रकुसुमास्तीर्णे विविधामोदशालिनि
26
Keep
पुण्यकृद्योषितां स्वर्गे प्रियस्तबकवासिताः ।
अपरिक्षुभिताकाराः सभायां वायसाः स्थिताः
27
Keep
विभेद्यमेघा वातेन समेनेवापसारिताः ।
तेषां मध्ये स्थितः श्रीमान्भुशुण्डः प्रोन्नताकृतिः
28
Keep
मध्ये च काचखण्डानामिन्द्रनील इवोन्नतः ।
परिपूर्णमना मानी समः सर्वाङ्गसुन्दरः
29
Keep
प्राणस्पन्दावधानेन नित्यमन्तर्मुखः सुखी ।
चिरंजीवीति विख्यातश्चिरजीवितया तया
30
Keep
जगद्विदितदीर्घायुर्भुशुण्ड इति विश्रुतः ।
युगागमापायदशादशनप्रौढमानसः
31
Keep
प्रतिकल्पं च गणयन्खिन्नश्चक्रपरम्पराम् ।
जन्मनां लोकपालानां शर्वशक्रमरुत्वताम्
32
Keep
संस्मर्ता समतीतानां सुरासुरमहीभृताम् ।
प्रसन्नगम्भीरमनाः पेशलः स्निग्धमुग्धवाक्
33
Keep
अव्यक्तवक्ता विज्ञाता निर्ममो निरहंकृतिः ।
सुहृद्बन्धुस्तथा मित्रं मृत्युपुत्रो गुरुप्रभुः ।
सर्वदा सर्वथा सत्यं सर्वं सर्वस्य संस्तवे
34
Keep
सौम्यः प्रसन्नमधुरो रसवान्महात्मा
हृद्यः सरोवर इवान्तरखण्डशैत्यः ।
हृत्पुण्डरीककुहरं व्यवहारवेत्ता
गाम्भीर्यमच्छमजहात्प्रकटाशयश्रीः
Previous
←
Sarga 14
Next
Sarga 16
→