Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 14
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
अस्ति तावदनन्तस्य तस्य क्वचिदयं
कि
ल ।
जगद्रूपः परिस्पन्दो मृगतृष्णा मराविव
2
Keep
तत्र कारणतां यातो ब्रह्मा
कमलसंभ
वः ।
स्थितः पितामहत्वेन सृष्टभूतभरभ्रमः
3
Keep
तस्याहं मानसः पुत्रो वसिष्ठः
श्रेष्ठचेष्टि
तः ।
ऋक्षचक्रे ध्रुवधृते निवसामि युगं प्रति
4
Keep
सोऽहं कदाचिदास्थाने स्वर्गे
तिष्ठञ्छतक्र
तोः ।
श्रुतवान्नारदादिभ्यः कथां सुचिरजीविनाम्
5
Keep
कथाप्रसङ्गे कस्मिंश्चिदथ तत्राभ्युवाच
ह ।
शातातपो नाम मुनिमौनी मानी महामतिः
6
Keep
मेरोरीशानकोणस्थे पद्मरागमये
दि
वि ।
अस्ति कल्पतरुः श्रीमाञ्छृङ्गे चूत इति श्रुतः
7
Keep
तस्य कल्पतरोर्मूर्ध्नि
दक्षिणस्कन्धकोट
रे ।
कलधौतलताप्रोते विद्यते विहगालयः
8
Keep
तस्मिन्निवसति श्रीमान्भुशुण्डो नाम
वाय
सः ।
वीतरागो बृहत्कोशे ब्रह्मेव निजपङ्कजे
9
Keep
स यथा जगतां कोशे जीवतीह
सुराश्चिर
म् ।
चिरंजीवी तथा स्वर्गे न भूतो न भविष्यति
10
Keep
स दीर्घायुः स नीरागः स श्रीमान्स
महाम
तिः ।
स विश्रान्तमतिः शान्तः स कान्तः कालकोविदः
11
Keep
स यथा जीवति खगस्तथेह यदि
जीव्य
ते ।
तद्भवेज्जीवितं पुण्यं दीर्घं चोदयमेव च
12
Keep
इति तेन भुशुण्डोऽसौ भूयः पृष्टेन
वर्णि
तः ।
यथावदेव देवानां सभायां सत्यमुक्तवान्
13
Keep
कथावसरसंशान्तावथ याते
सुरव्र
जे ।
भुशुण्डं विहगं द्रष्टुमहं यातः कुतूहलात्
14
Keep
भुशुण्डः संस्थितो यत्र मेरोः श्रृङ्गं
तदुत्तम
म् ।
संप्राप्तवान्क्षणेनाहं पद्मरागमयं बृहत्
15
Keep
रत्नगैरिककान्तेन तेजसा
वह्निवर्च
सा ।
मध्वासवरसेनेव रञ्जयत्ककुभां गणम्
16
Keep
कल्पान्तज्वलनोज्ज्वालापिण्डाद्रिमिव
संचित
म् ।
इन्द्रनीलशिखाधूममालोकारुणिताम्बरम्
17
Keep
सर्वेषामेव रागाणां राशिमद्राविव
स्थित
म् ।
सर्वसंध्याभ्रजालानां घनमेकमिवाकरम्
18
Keep
उत्क्रान्तिं कुर्वतो मेरोर्ब्रह्मनाड्येव
निर्गत
म् ।
मूर्धानमागतं कान्तं वाडवं जठरानलम्
19
Keep
सुमेरुवनदेव्येव
नवालक्तकरञ्जित
म् ।
लीलयाऽऽदातुमिन्दुं खे नीतं हस्तशिखाङ्गुलिम्
20
Keep
ज्वालाभिरिव मालाभिररुणाभिः
पयोमुख
म् ।
खं गन्तुमिव सस्पन्दं शैलस्थमिव वाडवम्
21
Keep
ताराः स्प्रष्टुमिवाकाशमङ्गुलीभिरिव
त्रि
भिः ।
कचदंशुनखाग्राभिः परिचुम्बदिवोन्नतम्
22
Keep
गर्जज्जीमूतमुरजं भूभृतानां तु
मण्डप
म् ।
हसत्कुसुमगुच्छाढ्यं ध्वनत्षट्पदपेटकम्
23
Keep
दन्ततालदलावल्या परिहासादिव
स्फुर
त् ।
दोलालोलाप्सरोवृन्दमुदारमदमन्मथम्
24
Keep
शिलाविश्रान्तविबुधमिथुनाश्रितकन्दर
म् ।
वराम्बराजिनं शुभ्रगङ्गायज्ञोपवीति च
25
Keep
तापसं पिङ्गलमिव वेणुदण्डधरं
स्थित
म् ।
गङ्गानिर्झरनिर्ह्रादि लतागृहगतामरम्
26
Keep
गन्धर्वगीतसुभगमामोदमधुरानिल
म् ।
फुल्लहेमाम्बुजोत्तंसं
तारारत्नविभूषित
म् ।
व्योम्नः पारमिव प्राप्तं पिङ्गलं मैरवं शिरः
27
Keep
सितहरितपीतपाटल-
धवलैर्वनकुसुमराशिनवरङ्
गैः ।
दिवि विहितामलचित्रं
लीलाचलममरयुवतिवर्गस्य
Previous
←
Sarga 13
Next
Sarga 15
→