Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 16
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
अथ तत्याहमपतं दीप्यमानवपुः
पु
रः ।
किंचिद्विक्षोभितसभः खान्नक्षत्रमिवाचले
2
Keep
चुक्षोभ वायसास्थानं
नीलोत्पलसरःसम
म् ।
मत्पातमन्दवातेन भूकम्पेनेव सागरः
3
Keep
अशङ्कितमपि प्राप्तं
दर्शनान्मामनन्तर
म् ।
भुशुण्डस्तु वसिष्ठोऽयं प्राप्त इत्यवबुद्धवान्
4
Keep
पत्रपुञ्जात्समुत्तस्थौ मेघशाव
इवाचला
त् ।
हे मुने स्वागतमिति प्रोवाच मधुराक्षरम्
55
Keep
संकल्पमात्रजाताभ्यां कराभ्यां
कुसुमाञ्जलि
म् ।
मह्यमाशु तदैवादान्मेघो हैममिवोत्करम्
6
Keep
इदमासनमिप्युक्त्वा नवं
कल्पतरुच्छद
म् ।
उपानीतवति त्यक्तभृत्ये वायसनायके
7
Keep
भुशुण्ड उत्थिते स्वीयकलापक्षेषु
पक्षि
षु ।
उपविष्टं मुनिं दृष्ट्वा स्वासनोन्मुखदृष्टिषु
8
Keep
समन्तात्खगवृन्देन भुशुण्डेन समं
त
तः ।
तस्मिन्कल्पलतापुञ्जे ह्युपविष्टोऽहमासने
9
Keep
अर्घ्यपाद्यादि संपाद्य
भुशुण्डस्तुष्टमान
सः ।
मामुवाच महातेजाः सौहृदान्मधुराक्षरम्
10
Keep
अहो भगवताऽस्माकं प्रसादो
दर्शितश्चिरा
त् ।
दर्शनामृतसेकेन यत्सिक्ताः सद्द्रुमा वयम्
11
Keep
मत्पुण्यचिरसंभारप्रेरितेन
त्वयाधु
ना ।
मुने मान्यैकमान्येन कुतश्चागमनं कृतम्
12
Keep
कच्चिदस्मिन्महामोहे चिरं
विहरतस्त
व ।
अखण्डितैव समता स्थिता चेतसि पावने
13
Keep
किमर्थमद्यागमनक्लेशेनात्मा
कदर्थि
तः ।
वचनश्रवणोत्कानामाज्ञां नो वक्तुमर्हसि
14
Keep
त्वत्पाददर्शनादेव सर्वं ज्ञातं मया
मु
ने ।
त्वदागमनपुण्येन वयमायोजितास्त्वया
15
Keep
चिरंजीवितचर्चाभिर्वयं वः
स्मृतिमाग
ताः ।
तेनेदमास्पदं पादैस्त्वं पवित्रितवानयम्
16
Keep
ज्ञातत्वदागमोऽप्येवं त्वां पृच्छामीह
यन्मु
ने ।
भवद्वाक्यामृतास्वादवाञ्छितं प्रविजृम्भते
17
Keep
इत्युक्तवानसौ पक्षी
भुशुण्डश्चिरजीवि
तः ।
त्रिकालामलसंवेदी तत्र प्रोक्तमिदं मया
18
Keep
विहंगम महाराज
सत्यमेतत्त्वयोच्य
ते ।
द्रष्टुमभ्यागतोऽस्म्यद्य त्वामेव चिरजीवितम्
19
Keep
आशीतलान्तःकरणो दिष्ट्या
कुशलवान
सि ।
पतितोऽसि न बुद्धात्मा भीषणां भववागुराम्
21
Keep
तदेतं संशयं छिन्धि भगवन्मम
सत्य
तः ।
कस्मिन्कुले भवाञ्जातो ज्ञातज्ञेयः कथं भवान् 6.1.16.२०
कियदायुश्च ते साधो वृत्तं स्मरसि किंच
वा ।
केनायं वा निवासस्ते निर्दिष्टो दीर्घदर्शिनः
22
Keep
यत्पृच्छसि मुने सर्वं तदिदं
वर्णयाम्यह
म् ।
अनुद्वेगितया यत्नात्कथा श्राव्या महात्मना
23
Keep
युष्मद्विधास्त्रिभुवनप्रभुपूज्यरूपा
आकर्णयन्ति यमुदारधियो
महान्
तः ।
तेनाशुभं प्रकथितेन विनाशमेति
मेघास्पदेन विभवेन यथार्कतापः
Previous
←
Sarga 15
Next
Sarga 17
→