Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 20
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
आसीत्किंचित्पुरा कल्पे जगद्यच्चिरमास्थितम् ।
संनिवेशेन चैतद्वदद्यापि च न दूरगम्
2
Keep
तदेतद्वृत्तमभ्यासाद्वर्तमानेन वर्णितम् ।
मया मुनीन्द्र बोधाय प्राग्जन्मसाम्यदर्शिना
3
Keep
अद्य मे फलितं पुण्यैश्चिरकालोपसंभृतैः ।
निर्विघ्नमेव पश्यामि यद्भवन्तं मुने ततः
4
Keep
इदं नीडमिमां शाखामहं चायमयं द्रुमः ।
अद्य पावनतां प्राप्तान्येतानि तव दर्शनात्
5
Keep
इदमर्घ्यमिद पाद्यं गृहीत्वा विहगार्पितम् ।
नूनं पावनतां नीत्वा शेषेणादिश चाशु भोः
6
Keep
इदमर्घ्यं च पाद्यं च भूयो दत्तवति स्वयम् ।
भुशुण्डविहगे तस्मिन्निदं रामाहमुक्तवान्
7
Keep
भ्रातरस्ते विहङ्गेश तादृक्सत्त्वा महाधियः ।
इह कस्मान्न दृश्यन्ते त्वमेवैको हि दृश्यसे
8
Keep
तिष्ठतामिह नः कालो महानतिगतो मुने ।
युगानां पङ्क्तयः क्षीणा दिवसानामिवानघ
9
Keep
एतावताथ कालेन सर्व एव ममानुजाः ।
तनूस्तृणमिव त्यक्त्वा शिवे परिणताः पदे
10
Keep
दीर्घायुषो महान्तोऽपि सन्तोऽपि बलिनोऽपि च ।
सर्व एव निगीर्यन्ते कालेनाकलितात्मना
11
Keep
स्कन्धव्यूढार्कशशिषु वहत्स्वविरतं जवात् ।
वातस्कन्धातिवातेषु कच्चित्तात न खिद्यसे
12
Keep
दग्धोदयास्तशैलेन्द्रवनव्यूहै रवेः करैः ।
चिरमत्यन्तमासन्नैः कच्चित्तात न खिद्यसे
13
Keep
इन्दोरथ करैः शीतैः पाषाणीकृतवारिभिः ।
आसन्नकरकापातैः कच्चित्तात न खिद्यसे
14
Keep
अजस्रमिह विश्रान्तैः कल्पजीमूतमण्डलैः ।
परशुच्छेदनीहारैः कच्चित्तात न खिद्यसे
15
Keep
विषमैर्जागतैः क्षोभैरुच्चैस्तरपदस्थितः ।
कथं न क्षोभमायाति कल्पवृक्षोऽयमुन्नतः
16
Keep
निरालम्बास्पदा ब्रह्मन्सर्वलोकावहेलिता ।
तुच्छेयं सर्वभूतानां मध्ये विहगजीविका
17
Keep
ईदृशेषु च भूतेषु निर्जनेषु वनेषु च ।
कल्पितास्थास्थितिर्धात्रा शून्ये वा व्योमवर्त्मनि
18
Keep
कथमस्यां प्रभो जातौ जातस्य चिरजीविनः ।
आशापाशनिबद्धस्य विहगस्य विशोकिता
19
Keep
वयं तु भगवन्नित्यमात्मसंतोषमास्थिताः ।
न कदाचन नीरूपे मुह्यामो जातविभ्रमैः
20
Keep
स्वभावमात्रसंतुष्टाः कष्टैर्मुक्ता विचेष्टितैः ।
क्षिपामः केवलं कालमस्मिन्ब्रह्मन्निजालये
21
Keep
न जीवितान्न मरणात्कर्मदेहस्य रोधनम् ।
यथा स्थितेन तिष्ठामस्तथैवास्तंगतेहिताः
22
Keep
आलोकिता लोकदशा दृष्टा दृष्टान्तदृष्टयः ।
नूनं संत्यक्तमस्माकं मनसा चञ्चलं वपुः
23
Keep
अनारतनिजालोके नित्यं चापरितापिनि ।
कल्पागस्योपरि सदा वेद्मि कालकलागतिम्
24
Keep
रत्नगुच्छप्रकाशाख्ये ब्रह्मन्कल्पलतागृहे ।
प्राणापानप्रवाहेण वेद्मि कल्पमखण्डितम्
25
Keep
अविज्ञातदिवारात्रौ ह्यस्मिन्नुच्चैः शिलोच्चये ।
जानामि निजया बुद्ध्या लोककालक्रमस्थितिम्
26
Keep
सारासारपरिच्छेदि बोधाद्विश्रान्तिमागतम् ।
निरस्तचापलं शान्तं सुस्थिरं मे मुने मनः
27
Keep
संसारव्यवहारोत्थैराशापाशैरसन्मयैः ।
उद्गारैरिव भूकाको न वैवश्यं व्रजाम्यहम्
28
Keep
परोपशमधर्मिण्या वयमालोकशीतया ।
पश्यन्तो जागतीं मायां धिया धैर्यमुपागताः
29
Keep
भीमास्वपि महाबुद्धे दशास्वचलबुद्धयः ।
विनिर्मलोपलाकाराः संप्राप्तासु यथाक्रमम्
30
Keep
इयमारम्भसुभगा तरला जागती स्थितिः ।
भूयो भूयः परामृष्टा न च किंच न बाधते
31
Keep
सर्वाण्येव प्रयान्त्येव समायान्ति च वा न वा ।
भगवन्भूतजालानि भयमस्माकमत्र किम्
32
Keep
भूतजालतरङ्गिण्या विशन्त्याः कालसागरे ।
वयं संसारसरितस्तटस्था अप्यनादृताः
33
Keep
नोज्झामो न च गृह्णीमस्तिष्ठामो नेह च स्थिताः ।
मृदुपादा दृशा कूरा वयमस्मिन्द्रुमे स्थिताः
34
Keep
वीतशोकभयायासैस्त्वादृशैः पुरुषोत्तमैः ।
तुष्टैरनुगृहीताः स्मः संस्थिता विगतामयाः
35
Keep
ततस्ततश्च पर्यस्तं लुठितं न च वृत्तिषु ।
नापरामृष्टतत्त्वार्थमस्माकं भगवन्मनः
36
Keep
निर्विकारे गतक्षोभे चात्मन्युपशमं गते ।
चित्तरङ्गाः प्रबुद्धाः स्मः पर्वणीव महाब्धयः
37
Keep
भवदागमनाद्ब्रह्मन्निदानीं मुदिताशयाः ।
मन्दरोद्धूतसर्वाङ्गः क्षीरोदो येन तन्यते
38
Keep
नातः परतरं किंचिन्मन्ये कुशलमात्मनः ।
सन्तो यदनुगम्यन्ते संत्यक्तसकलैषणाः
39
Keep
आपातमात्ररम्येभ्यो भोगेभ्यः किमवाप्यते ।
सत्सङ्गचिन्तामणितः सर्वसारमवाप्यते
40
Keep
स्निग्धगम्भीरमसृणमधुरोदारधीरवाक् ।
त्रैलोक्यपद्मकोशेऽस्मिंस्त्वमेकः षट्पदायसे
41
Keep
अधिगतपरमात्मनोऽपि मन्ये भवदवलोकनशान्तदुष्कृतस्य ।
मम सफलमिहाद्य जन्म साधो सकलभयापहरो हि साधुसङ्गः
Previous
←
Sarga 19
Next
Sarga 21
→