Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 21
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
युगक्षोभेषु घोरेषु वाक्यासु विषमासु च ।
सुस्थिरः कल्पवृक्षोऽयं न कदाचन कम्पते
2
Keep
अगम्योऽयं समग्राणां लोकान्तरविहारिणाम् ।
भूतानां तेन तिष्ठाम इह साधो सुखेन वै
3
Keep
हिरण्याक्षो धरापीठं द्वीपसप्तकवेष्टितम् ।
यदा जहार तरसा नाकम्पत तदा तरुः
4
Keep
यदा लोलायितवपुर्बभूवामरपर्वतः ।
सर्वतो दत्तसाम्याद्रिस्तदा नाकम्पत द्रुमः
5
Keep
भुजावष्टम्भविनमन्मेरुर्नारायणो यदा ।
मन्दरं प्रोद्दधाराद्रिं तदा नाकम्पत द्रुमः
6
Keep
यदा सुरासुरक्षोभपतच्चन्द्रार्कमण्डलम् ।
आसीज्जगदतिक्षुब्धं तदा नाकम्पत द्रुमः
7
Keep
उन्मूलिताद्रीन्द्रशिला यदोत्पातानिला ववुः ।
आधूतमेरुतरवस्तदा नाकम्पत द्रुमः
8
Keep
यदा क्षीरोदलोलाद्रिकन्दरानिलकम्पिताः ।
कल्पाभ्रपङ्क्तयश्चेरुस्तदा नाकम्पत द्रुमः
9
Keep
यदा समन्ततो मेरुः कालनेमिभुजान्तरे ।
किंचिदुन्मूलितोऽतिष्ठत्तदा नाकम्पत द्रुमः
10
Keep
पक्षीशपक्षपवना अमृताक्रान्तिसंगरे ।
यदा ववुः पतत्सिद्धास्तदायं नापतद्द्रुमः
11
Keep
.१०
यदा शेषाकृतिं रुद्रो नसमाप्तैकचेष्टिताम् ।
ययौ गरुत्मान्ब्रह्माण्डं तदा नाकम्पत द्रुमः
12
Keep
यदा कल्पानलशिखाः शैलाब्धिसकलोल्बणः ।
शेषः फणाभिस्तत्याज तदा नाकम्पत द्रुमः
13
Keep
एवंरूपे द्रुमवरे तिष्ठतामापदः कुतः ।
अस्माकं मुनिशार्दूल दौःस्थित्येन किलापदः
14
Keep
कल्पान्तेषु महाबुद्धे वहत्सूत्पातवायुषु ।
प्रपतत्स्विन्दुभार्केषु कथं तिष्ठसि विज्वरः
15
Keep
यदा पपात कल्पान्ते व्यवहारो जगत्स्थितौ ।
कृतघ्न इव सन्मित्रं तदा नीडं त्यजाम्यहम्
16
Keep
आकाश एव तिष्ठामि विगताखिलकल्पनः ।
स्तब्धप्रकृतिसर्वाङ्गो मनो निर्वासनं यथा
17
Keep
प्रतपन्ति यदादित्याः शकलीकृतभूधराः ।
वारुणीं धारणां बद्ध्वा तदा तिष्ठामि धीरधीः
18
Keep
यदा शकलिताद्रीन्द्रा वान्ति प्रलयवायवः ।
पार्वतीं धारणां बद्ध्वा खे तिष्ठाम्यचलं तदा
19
Keep
जगद्गलितमेर्वादि यात्येकार्णवतां यदा ।
वायवीं धारणां बद्ध्वा संप्लवेऽचलधीस्तदा ४ १९
ब्रह्माण्डपारमासाद्य तत्त्वान्ते विमले पदे ।
सुषुप्तावस्थया तावत्तिष्ठाम्यचलरूपया
21
Keep
.२०
यावत्पुनः कमलजः सृष्टिकर्मणि तिष्ठति ।
तत्र प्रविश्य ब्रह्माण्डं तिष्ठामि विहगालये
22
Keep
यथा तिष्ठसि पक्षीन्द्र धारणाभिरखण्डितः ।
कल्पान्तेषु तथा कस्मान्नान्ये तिष्ठन्ति योगिनः
23
Keep
ब्रह्मन्नियतिरेषा हि दुर्लङ्घ्या पारमेश्वरी ।
मयेदृशेन वै भाव्यं भाव्यमन्यैस्तु तादृशैः
24
Keep
न शक्यते तोलयितुमवश्यं भवितव्यता ।
यद्यथा तत्तथैतद्धि स्वभावस्यैव निश्चयः
25
Keep
मत्संकल्पवशेनैव कल्पे कल्पे पुनः पुनः ।
अस्मिन्नेव गिरेः शृङ्गे तरुरित्थं भवत्ययम्
26
Keep
अत्यन्तमोक्षदीर्घायुर्भवान्निर्देशनायकः ।
ज्ञानविज्ञानवान्धीरो योगयोग्यमनोगतिः
27
Keep
दृष्टानेकविधानल्पसर्गसङ्गगमागमः ।
किं किं स्मरसि कल्याण चित्रमस्मिञ्जगत्क्रमे
28
Keep
महत्तर शिलावृक्षामजाततृणवीरुधम् ।
अशैलवनवृक्षौघां स्मरामीमां धरामधः
29
Keep
दशवर्षसहस्राणि दशवर्षशतानि च ।
भस्मसारभरापूर्णां संस्मरामि धरामधः
30
Keep
अनुत्पन्नदिवाधीशामशक्तशशिमण्डलाम् ।
अविभक्तदिवालोकां संस्मरामि धरामधः
31
Keep
.३०
मेरुरत्नतलोद्योतैरर्धप्रकटकोटरम् ।
लोकालोकमिवाक्याढ्याद्रिभुवनं संस्मराम्यहम्
32
Keep
प्रवृद्धासुरसंग्रामे क्षीयमाणन्तरामिह ।
पलायमानामभितः संस्मरामि धरामिमाम्
33
Keep
चतुर्युगानि चाक्रान्तामसुरैर्मत्तकाशिभिः ।
दैत्यान्तःपुरतां प्राप्तां संस्मरामि धरामिमाम्
34
Keep
अत्यन्तान्तरितान्तान्तसमस्तापरमण्डलाम् ।
अजदेवत्रयीशेषां संस्मरामि जगत्कुटीम्
35
Keep
चतुर्युगार्धमपरं नीरन्ध्रां वनपादपैः ।
अदृष्टेतरनिर्माणां संस्मरामि धरामिमाम्
36
Keep
एवं चतुर्युगं साग्रं नीरन्ध्रैरचलैर्वृताम् ।
अप्रवृत्तजनाचारां संस्मरामि धरामिमाम्
37
Keep
दशवर्षसहस्राणि मृतदैत्यास्थिपर्वतैः ।
आकीर्णां परितः पूर्णां संस्मरामि धरामिमाम्
38
Keep
भयादन्तर्हिताशेषवैमानिकनभश्चराम् ।
द्यां च निर्वृक्षनिःशेषां संस्मरामि तमोमयीम्
39
Keep
अनगस्त्यामगस्त्याशामेकपर्वततां गताम् ।
मत्ते विन्ध्यमहाशैले संस्मरामि जगत्कुटीम्
40
Keep
एतांश्चान्यांश्च वृत्तान्तान्संस्मरामि बहूनपि ।
किं तेन बहुनोक्तेन सारं संक्षेपतः शृणु
41
Keep
.४०
असंख्यातान्मनून्ब्रह्मन्स्मरामि शतशो गतान् ।
सर्वान्संरम्भबहुलांश्चतुर्युगशतानि च
42
Keep
एकमेव स्वयं शुद्धं पुरुषासुरवर्जितम् ।
आलोकनिचयं चैकं कंचित्सर्गं स्मराम्यहम्
43
Keep
सुरापं ब्राह्मणं मत्तं निषिद्धसुरशूद्रकम् ।
बहुनाथसतीकं च कंचित्सर्गं स्मराम्यहम्
44
Keep
वृक्षनीरन्ध्रभूपीठमकल्पितमहार्णवम् ।
स्वयसंजातपुरुषं कंचित्सर्गं स्मराम्यहम्
45
Keep
अपर्वतमभूमिं च व्योमस्थामरमानवम् ।
अचन्द्रार्कप्रकाशाख्यं कंचित्सर्गं स्मराम्यहम्
46
Keep
अनिन्द्रममहीपालममध्यस्थाधमोत्तमम् ।
स्वममन्धककुप्चक्रं कंचित्सर्गं स्मराम्यहम्
47
Keep
सर्गप्रारम्भकलना विभागो भुवनत्रये ।
कुलपर्वतसंस्थानं जम्बूद्वीपं पृथक्स्थितम्
48
Keep
वर्णधर्मधियां सृष्टिविभागो मण्डलावनेः ।
ऋक्षचक्रकसंस्थानं ध्रुवनिर्माणमेव च
49
Keep
जन्मेन्दुभास्करादीनामिन्द्रोपेन्द्रव्यवस्थितिम् ।
हिरण्याक्षापहरणं वराहोद्धरणं क्षितेः
50
Keep
कल्पनं पार्थिवानां च वेदानयनमेव च ।
मन्दरोन्मूलनं चाब्धेरमृतार्थं च मन्थनम्
51
Keep
.५०
अजातपक्षो गरुडः सागराणां च संभवः ।
इत्यादिका याः स्मृतयः स्वल्पातीतजगत्क्रमाः ।
बालैरपि हि तास्तात स्मर्यन्ते तासु को ग्रहः
52
Keep
गरुडवाहनं विहगवाहनं विहगवाहनं वृषभवाहनम् ।
वृषभवाहनं गरुडवाहनं कलितवानहं कलितजीवितः
Previous
←
Sarga 20
Next
Sarga 22
→