Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 22
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
ततो जगति जातेषु भगवन्युष्मदादिषु ।
भरद्वाजपुलस्त्यात्रिनारदेन्द्रमरीचिषु
2
Keep
पुलहोद्दालकाद्येषु क्रतुभृग्वङ्गिरस्सु च ।
सनत्कुमारभृङ्गीशस्कन्देभवदनादिषु
3
Keep
गौरीसरस्वतीलक्ष्मीगायत्र्याद्यासु भूरिषु ।
मेरुमन्दरकैलासहिमवद्दर्दुरादिषु
4
Keep
हयग्रीवहिरण्याक्षकालनेमिबलादिषु ।
हिरण्यकशिपुक्राथबलिप्रह्रादकादिषु
5
Keep
शिबिन्यङ्कुपृथूलाख्यवैन्यनाभागकेलिषु ।
नलमान्धातृसगरदिलीपनहुषादिषु
6
Keep
आत्रेयव्यासवाल्मीकिशुकवात्स्यायनादिषु ।
उपमन्युमणीमङ्कीभगीरथशुकादिषु
7
Keep
अल्पकातीतकालेषु किंचिद्दूरेषु केषुचित् ।
तथाद्यतनसर्गेषु स्मरणे गणनैव का
8
Keep
मुने ते ब्रह्मपुत्रस्य जन्माष्टकमिदं किल ।
संस्मराम्यष्टमे सर्गे तस्मिंस्त्वं मम संगतः
9
Keep
कदाचिज्जायसे व्योम्नः कदाचिज्जायसे जलात् ।
कदाचिद्वायुतः शैलात्कदाचिज्जायसेऽनलात्
10
Keep
यादृशो यादृशाचारो यादृक्संस्थानदिग्गणः ।
सर्गोऽयं तादृशानेव त्रीन्सर्गान्संस्मराम्यहम्
11
Keep
एकरूपाखिलाचारसंनिवेशधरामरान् ।
समकालान्स्थिरस्थैर्यान्दशसर्गान्स्मराम्यहम्
12
Keep
अन्तर्धानं गता धात्री वारपञ्चकमुद्धृता ।
मुने पञ्चसु सर्गेषु कूर्मेणैव पयोनिधेः
13
Keep
मन्दराकर्षणावेगपर्याकुलसुरासुरम् ।
स्मरामि द्वादशं चेदममृताम्भोधिमन्थनम्
14
Keep
सर्वौषधिरसोपेतां बलिग्राहस्तदा दिवः ।
वारत्रयहिरण्याक्षो नीतवान्वसुधामधः
15
Keep
रेणुकात्मजतां गत्वा षष्ठवारमिमं हरिः ।
बहुसर्गान्तरेणापि चकार क्षत्रियक्षयम्
16
Keep
शतं कलियुगानां च हरेर्बुद्धदशाशतम् ।
शौकराजतयैवाप्तं स्मरामि मुनिनायक
17
Keep
त्रिंशत्त्रिपुरविक्षोभान्द्वौ दक्षाध्वरसंक्षयौ ।
दशशक्रविघातांश्च चन्द्रमौलेः स्मराम्यहम्
18
Keep
बाणार्थमष्टौ संग्रामाञ्ज्वरप्रमथमन्त्रकान् ।
विक्षोभितसुरानीकान्त्स्मरामि हरिशर्वयोः
19
Keep
युगंप्रति धियां पुंसां न्यूनाधिकतया मुने ।
क्रियाङ्गपाठवैचित्र्ययुक्तान्वेदान्त्यराम्यहम्
6-2
Keep
एकार्थानि समग्राणि बहुपाठानि मेऽनघ ।
पुराणानि प्रवर्तन्ते प्रसृतानि युगंप्रति
21
Keep
पुनस्तानेव तानेवमन्यानपि युगे युगे ।
वेदादिवित्प्ररचितानितिहासान्स्मराम्यहम्
22
Keep
इतिहासं महाश्चर्यमन्यं रामायणामिधम् ।
ग्रन्थलक्षप्रमाणं च ज्ञानशास्त्रं स्मराम्यहम्
23
Keep
रामवद्व्यवहर्तव्यं न रावणविलासवत् ।
इति यत्र धियां ज्ञानं हस्ते फलमिवार्पितम्
28
Keep
कृतं वाल्मीकिना चैतदधुना यत्करिष्यति ।
अन्यच्च प्रकटं लोके स्थितं ज्ञास्यसि कालतः
25
Keep
वाल्मीकिनाम्ना जीवेन तेनैवान्येन वा कृतम् ।
एतच्च द्वादशं वारं क्रियते विस्मृतिं गतम्
26
Keep
द्वितीयमेतस्य समं भारतं नाम नामतः ।
स्मरामि प्राक्तनव्यासकृतं जगति विस्मृतम्
27
Keep
व्यासाभिधेन जीवेन तेनैवान्येन वा कृतम् ।
एतत्तु सप्तमं वारं क्रियते विस्मृतिं गतम्
28-2
Keep
आख्यानकानि शास्त्राणि निवृत्तानि युगंप्रति ।
विचित्रसंनिवेशानि संस्मरामि मुनीश्वर
29
Keep
भूयस्तान्येव तान्येव तथान्यानि युगे युगे ।
साधो पदार्थजालानि प्रपश्यामि स्मरामि वै
30
Keep
राक्षसक्षतये विष्णोर्महीमवतरिष्यतः ।
अधुनैकादशं जन्म रामनाम्नो भविष्यति
31
Keep
नारसिंहेन वपुषा हिरण्यकशिपुं हरिः ।
जघान वारत्रितयं मृगेन्द्र इव वारणम्
32
Keep
वसुदेवगृहे विष्णोर्भुवो भारनिवृत्तये ।
अधुना षोडशं जन्म भविष्यति मुनीश्वर
33
Keep
जगन्मयी भ्रान्तिरियं न कदाचन विद्यते ।
विद्यते तु कदाचिच्च जलबुद्बुदवत्स्थिता
34
Keep
दृश्यभ्रान्तिरनित्येयमन्तस्था संविदात्मनि ।
जायते लीयते चाशु लोला वीचिरिवाम्भसि
35
Keep
समेकसंनिवेशानि बहूनि विषमाणि च ।
तथार्धसमरूपाणि त्रिजगन्ति स्मराम्यहम्
36
Keep
तान्येव तादृक्कर्माणि तथान्याचरणानि च ।
तत्कर्माणि तथान्यानि भूतानीह स्मराम्यहम्
37
Keep
प्रतिमन्वन्तरं ब्रह्मन्विपर्यस्ते जगत्क्रमे ।
संनिवेशेऽन्यथाजाते प्रयाते संश्रुते जने
38
Keep
ममान्यान्येव मित्राणि अन्य एव च बन्धवः ।
अन्य एव नवा भृत्या अन्य एव समाश्रयाः
39
Keep
कदाचिदहमेकान्ते विन्ध्यकच्छकृतालयः ।
कदाचित्सह्यनिलयः कदाचिद्दर्दुरालयः
40
Keep
कदाचिद्धिमवद्वासी कदाचिन्मलयाचलः ।
कदाचित्प्राक्तनेनैव संनिवेशेन भूधरम्
41
Keep
चूतवृक्षे च शाखायां प्राप्य नीडं करोम्यहम् ।
अनाद्यन्तेषु यातेषु युगेषु मुनिनायक
42
Keep
प्राक्तनेनैव जातोऽयं संनिवेशेन पादपः ।
देहं त्यक्त्वा सुखं साधो नातः परिणतिं गतः
43
Keep
तदीयेनैव जातोऽयं संनिवेशेन पादपः ।
ताते जीवति यैवाभूच्छोभास्य सुतरोस्तथा
44
Keep
कृतप्राक्संनिवेशोऽयमहं स्थितिमिहागतः ।
नेहाभूदुत्तरा पूर्वं ककुब्नायं च भूधरः
45
Keep
दिगुत्तराभूदन्येयं पूर्वमेव महीधरः ।
एकैकदेहसंस्थानवीतब्रह्मनिशागमः
46
Keep
ध्यानान्ते तत्त्व एवैनं सर्गमालोक्य वेद्म्यहम् ।
अर्कादेर्ऋक्षसंच्चारान्मेर्वादिस्थानका दिशः
47
Keep
संस्थानमन्यथा तस्मिन्स्थिते यान्ति दिशोऽन्यथा ।
न सन्नासज्जगन्मन्ये भ्रमयन्केवलं धियः
48
Keep
आत्मस्पन्दचमत्कारविभवोऽयं विजृम्भते ।
पुत्रः पितृत्वमायाति मित्रं यात्यरितां तथा
49
Keep
स्त्रीत्वं च शतशो यातान्पुंसश्चैव स्मराम्यहम् ।
कलौ कृतयुगाचारान्कृते कलियुगस्थितिम्
50
Keep
त्रेतायां द्वापरे चैव संस्मरामि मुनीश्वर ।
अदृष्टवेदवेदार्थान्स्वसंकेतविहारिणः
51
Keep
सर्गान्निरर्गलाचारान्क्वचित्कांश्चित्स्मराम्यहम् ।
ध्यातरि ब्रह्मणो ब्रह्मन्ससुरासुरमानुषम्
52
Keep
चतुर्युगसहस्रान्ते जगच्छून्यं स्मराम्यहम् ।
मनोमनननिर्माणान्पार्थिवाकारवर्जितान् ।
व्याप्तान्वायुमयैर्भूतैर्दश सर्गान्स्मराम्यहम्
53
Keep
विचित्रसंस्थानविशेषदेशान्विचित्रकार्याकुलभूतकोशान् ।
विचित्रविन्यासविलासवेषान्स्मराम्यहं ब्रह्मदिनेष्वशेषाम्
Previous
←
Sarga 21
Next
Sarga 23
→