Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 5
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
Pronunciation
Devanāgarī
Devanāgarī + Pronunciation
Meaning
Continuous
Glance
1
Keep
अहो अहं गतश्चित्त्वं
भवद्वाक्यार्थभावना
त् ।
शान्तं जगज्जालमिदमग्रस्थमपि नाथ मे
2
Keep
परामन्तः प्रयातोऽस्मि परमात्मनि
निर्वृति
म् ।
दीर्घावग्रहसंतप्तं वृष्ट्येव वसुधातलम्
3
Keep
शाम्यामि शीतलाकारः सुखं तिष्ठामि
केवल
म् ।
प्रसादमनुयातोऽहं सरो निर्वारणं यथा
4
Keep
सम्यक्प्रसन्नमखिलं दिङ्मण्डलमिदं
मु
ने ।
यथाभूतं प्रपश्यामि निर्नीहारमिवाधुना
5
Keep
जातोऽस्मि गतसंदेहः
शान्ताशामृगतृष्णि
कः ।
रागनीरागनिर्मुक्तो मृष्टजङ्गलशीतलः
6
Keep
आत्मनैवान्तरानन्दं
तत्प्राप्तोऽस्म्यन्तवर्जित
म् ।
रसायनरसास्वादो यत्र नाथ तृणायते
7
Keep
अद्याहं प्रकृतिस्थोऽस्मि स्वस्थोऽस्मि मुदितोऽस्मि
च ।
लोकारामोऽस्मि रामोऽस्मि नमो मह्यं नमोस्तु ते
8
Keep
ते संशयास्ताः कलनाः सर्वमस्तं गतं
म
म ।
रात्रिवेतालसंसारः प्रभात इव भास्करे
9
Keep
निर्मले हृदि विस्तीर्णे संपन्ने
हिमशीत
ले ।
मनो निर्वृतिमायातं सरसी शरदीव मे
10
Keep
कलङ्क आत्मनः कस्मात्कथं
चेत्यादिसंश
यः ।
नूनं निर्मूलतां यातो मृगाङ्काग्रे यथा तमः
11
Keep
सर्वमात्मैव सर्वत्र सर्वदा
भाविताकृ
तिः ।
इदमन्यदिदं चान्यदित्यसत्कलना कुतः
12
Keep
कोऽभवं प्रागहं
तादृक्तृष्णानिगडयन्त्रि
तः ।
अन्तरात्मानमेवेति विहसामि विकासवान्
13
Keep
आ इदानीं स्मृतं सम्यग्यथैष
सकलोऽस्म्य
सौ ।
यस्त्वद्वागमृतापूरस्नातेनायमहं स्थितः
14
Keep
अहो नु विततां भूमिमधिरूढोऽस्मि
पावनी
म् ।
इहस्थ एव यत्रार्को न पातालमिव स्थितः
15
Keep
मह्यं सत्तामुपेताय
भावाभावभवार्णवा
त् ।
नमो नित्यं नमस्याय जयाम्यात्मात्मनात्मनि
16
Keep
अनुभववशतो हृदब्जकोशे
स्फुटमलितां समुपागतेन
ना
थ ।
तव वरवचसेह वीतशोकां
चिरमुदितां च दशामुपागतोऽस्मि
Previous
←
Sarga 4
Next
Sarga 6
→