Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 83
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
अणिमादिगुणैश्वर्ययुक्ता सा नृपभामिनी ।
एवं बभूव चूडाला घनाभ्यासवती सती
2
Keep
जगामाकाशमार्गेण विवेशाम्बुधिकोटरम् ।
चचार वसुधापीठं गङ्गेवामलशीतला
3
Keep
क्षणमप्यगता भर्तुर्वक्षसश्चेतसस्तथा ।
सर्वेषूवास राज्येषु लक्ष्मीरिव जगत्सु च
4
Keep
आकाशगामिनी श्यामा विद्युत्प्रारम्भभूषणा ।
बभ्राम मेघमालेव गिरिमाला महीतले
5
Keep
काष्ठं तृणोपलं भूतं खं वातमनलं जलम् ।
निर्विघ्नमविशत्सर्वं तन्तुर्मुक्ताफलं यथा
6
Keep
मेरोरुपरि श्रृङ्गाणि लोकपालपुराणि च ।
दिग्व्योमोदररन्ध्राणि विजहार यथासुखम्
7
Keep
तिर्यग्भूतपिशाचाद्यैः सहनागामरासुरैः ।
विद्याधराप्सरःसिद्धैर्व्यवहारं चकार सा
8
Keep
यत्नेन तं च भर्तारमात्मज्ञानामृतं प्रति ।
बहुशो बोधयामास चूडाला न विवेद सः
9
Keep
कलाविदग्धा मुग्धा च बालेयं गृहिणी मम ।
इत्येवं केवलं राजा स चूडालां विवेद ताम्
10
Keep
एतावतापि कालेन तामेवंगुणशालिनीम् ।
बालो विद्यामिव नृपश्चूडालां न विवेद सः
11
Keep
साप्यलब्धात्मविश्रान्तेस्तां सिद्धिश्रियमात्मनः ।
दर्शयामास नो राज्ञः शूद्रस्येव मखक्रियाम्
12
Keep
महत्याः सिद्धयोगिन्यास्तस्या अपि शिखिध्वजः ।
यत्नेन प्राप नो बोधं बुध्यतेऽन्यः कथं प्रभो
13
Keep
उपदेशक्रमो राम व्यवस्थामात्रपालनम् ।
ज्ञप्तेस्तु कारणं शुद्धा शिष्यप्रज्ञैव राघव
14
Keep
न श्रुतेन न पुण्येन ज्ञायते ज्ञेयमात्मनः ।
जानात्यात्मानमात्मैव सर्पः सर्पपदानि व
15
Keep
एवंस्थिते वाथ मुने कथमेतज्जगत्स्थितौ ।
क्रमो गुरूपदेशाख्यः स्वात्मज्ञानस्य कारणम्
16
Keep
अत्यन्तकृपणः कश्चित्किराटो धनधान्यवान् ।
अस्ति विन्ध्याटवीकक्षे कुटुम्बी ब्राह्मणो यथा
17
Keep
तस्यैकदा निपतिता गच्छतो विन्ध्यजङ्गले ।
एका वराटिका राम तृणजालकसंवृते
18
Keep
कार्पण्यात्स प्रयत्नेन सर्वं तृणतुषादिकम् ।
कपर्दकार्थमभितो दुधाव दिवसत्रयम्
19
Keep
कपर्दकाः स्युर्भवता चत्वारोऽष्टौ च कालतः ।
ततः शतं सहस्रं च सहस्रे चेति चेतसा
20
Keep
कलयञ्जङ्गले दीनो रात्रिंदिवमतन्द्रितः ।
जनहाससहस्राणि बुबुधे न परं तु सः
21
Keep
ततो दिनत्रयस्यान्ते तेन तस्माच्च जङ्गलात् ।
पूर्णेन्दुबिम्बप्रतिमो लब्धश्चिन्तामणिर्महान्
22
Keep
तं प्राप्य तुष्टहृदयः समागम्य गृहं सुखम् ।
प्राप्ताखिलजगद्भूतिः शान्तसर्वतया स्थितः
23
Keep
एवं यथा किराटेन कपर्दान्वेषणेन तत् ।
रत्नं लब्धं जगन्मूल्यमहोरात्रमखेदिना
24
Keep
तथा श्रुतोपदेशेन स्वात्मज्ञानमवाप्यते ।
अन्यदन्विष्यते चान्यल्लभ्यते हि गुरुक्रमात्
25
Keep
ब्रह्म सर्वेन्द्रियातीतं श्रुतादीन्द्रियसंविदः ।
तेनोपदेशादनघ नात्मतत्त्वमवाप्यते
26
Keep
गुरूपदेशं च विना नात्मतत्त्वागमो भवेत् ।
केन चिन्तामणिर्लब्धः कपर्दान्वेषणं विना
27
Keep
तत्त्वस्यास्य महार्थस्य गुरूपकथनं गतम् ।
अकारणं कारणतां मणेरिव कपर्दकः
28
Keep
पश्य राघव मायेयं मोहिनी महतामपि ।
अन्यदन्विष्यते यत्नादन्यदासाद्यते फलम्
29
Keep
अन्यत्करोति पुरुषः फलमन्यदेव
प्राप्नोति यत्र्त्रिषु जगत्स्ववलोक्यते च ।
तस्मादनन्तरभवस्य जगद्भ्रमस्य
श्रेयोऽतिवाहनमसङ्गमनिच्छयैव
Previous
←
Sarga 82
Next
Sarga 84
→