Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 84
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Pūrvārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
1
Keep
श्रीवसिष्ठ उवाच । ।
ततः शिखिध्वजो राजा तत्त्वज्ञानपदं विना ।
आजगाम परं मोहं तमोन्धत्वमिवाप्रजाः
2
Keep
दुःखाग्निदीपितमना मनागपि विभूतिषु ।
तास्वभीष्टोपनीतासु न रेमेऽग्निशिखास्विव
3
Keep
एकान्तेषु दिगन्तेषु निर्झरेषु गुहासु च ।
आजगाम रतिं जन्तुर्मुक्तेषुर्व्याधतो यथा
4
Keep
राघव त्वमिवाशेषाः सान्त्वानुनयबोधनैः ।
प्रार्थितः कार्यते भृत्यैर्महीपो दिवसक्रियाः
3-2
Keep
नित्यमुद्दामवैराग्यः परिव्राडिव शान्तधीः ।
खिद्यते च महाभोगान्स भोक्तुं च श्रियं स्थितः
5
Keep
ददावतितरां दानं गोभूमिकनकादिकम् ।
देवेभ्यो ब्राह्मणेभ्यश्च स्वजनेभ्यश्च मानद
7
Keep
चचार च तपः कर्तुं कृच्छ्रचान्द्रायणादिकम् ।
परिबभ्राम तीर्थानि वनान्यायतनानि च
8
Keep
स तथापि विशोकत्वं न मनागपि लब्धवान् ।
अनिधानां खनन्भूमिं निधानार्थी निधिं यथा
9
Keep
रात्रिंदिवं महानेष शुष्यत्येव कृशानुना ।
चिन्तया चिन्तयामास संसारव्याधिभेषजम्
10
Keep
चिन्तापरवशो दीनो राज्यं स्वस्य विषोपमम् ।
महाविभवमप्यग्रे नापश्यत्खिन्नया धिया
11
Keep
अथैकदैकान्तगतां चूडालामङ्कमागताम् ।
इदं मधुरया वाचा समुवाच शिखिध्वजः
12
Keep
भुक्तं राज्यं चिरं कालं भुक्ता विभवभूमयः ।
अधुनास्मि विरागेण युक्तो गच्छामि काननम्
13
Keep
न सुखानि न दुःखानि नापदो न च संपदः ।
क्रोडीकुर्वन्ति तन्वङ्गि मुनिं वननिवासिनम्
14
Keep
न देशभङ्गसंमोहो न संग्रामे जनक्षयः ।
राज्यादप्यधिकं मन्ये सुखं वननिवासिनाम्
15
Keep
स्तबकस्तनधारिण्यो रक्तपल्लवपाणयः ।
मञ्जरीजालहारिण्यो लोलशुभ्राम्बुदांशुकाः
16
Keep
स्वपरागाङ्गरागिण्यः कृतकौसुममण्डनाः ।
आसेव्यकाञ्चनशिलानितम्बतटशोभिताः
17
Keep
तरङ्गमौक्तिकप्रोतसरिन्मुक्तालतावृताः ।
लतावयस्यावलिता मुग्धमुग्धमृगात्मजाः
18
Keep
स्वभावोद्दामसौगन्ध्या वितीर्णफलभोजनाः ।
षट्पदश्रेणिनयनाः पुष्पापूरलताङ्गिकाः
19
Keep
आस्वाद्यस्यन्दतां याताः शीतलामलगात्रिकाः ।
रमयन्ति त्वमिव मां वनवीथ्यो वरानने
20
Keep
यथा विविक्तमेकान्ते मनो भवति निर्वृतम् ।
न तथा शशिबिम्बेषु न च ब्रह्मेन्द्रसद्मसु
21
Keep
अस्मिन्सन्मन्त्रणे तन्वि न विघ्नं कर्तुमर्हसि ।
भर्तुर्विघटयन्तीच्छां न स्वप्नेऽपि कुलस्त्रियः
22
Keep
चूडालोवाच ।
प्राप्तकालं कृतं कार्यं राजते नाथ नेतरत् ।
वसन्ते राजते पुष्पं फलं शरदि राजते
23
Keep
जराजरठदेहानां युक्तो वनसमाश्रयः ।
न यूनां त्वादृशामेव तेनैतन्मे न रोचते
24
Keep
यौवनेन महाराज न यावद्वयमुज्झिताः ।
पुष्पौघेणेव तरवस्तावच्छोभामहे गृहे
25
Keep
पुष्पधाना पुष्पमितजरसा सह काननम् ।
समं गृहाद्गमिष्यामो हंसा इव सरोवरात्
26
Keep
अप्राप्तकालं नृपतेः प्रजापालनमुज्झतः ।
राजन्यस्यैव रन्ध्रस्य महदेनो भविष्यति
27
Keep
अप्राप्तकारिणं भूपं रोधयन्ति च वै प्रजाः ।
रोधयन्ति ह्यकार्येभ्यः प्रभुं भृत्याः परस्परम्
28
Keep
अलमुत्पलपत्राक्षि विघ्नेनाभिमतस्य मे ।
विद्धि मां गतमेवेतो दूरमेकान्तकाननम्
29
Keep
बाला त्वमनवद्याङ्गि नागन्तव्यं वनं त्वया ।
पुंसामपि हि मृद्वङ्गि दुर्विगाह्यो वनाश्रयः
30
Keep
समर्था न वनावासे योषितः कठिना अपि ।
कानने पुष्पमञ्जर्यः सोढुं शस्त्रालिमक्षमाः
31
Keep
भवत्या पालयन्त्येह राज्ये स्थातव्यमुत्तमे ।
कुटुम्बभारोद्वहनं पत्यौ याते व्रतं स्त्रियः
32
Keep
इत्युक्त्वा दयितां राजा तामिन्दुवदनां वशी ।
उत्तस्थौ स्नातुमखिलं दिनकार्यं चकार च
33
Keep
अथोज्झितप्रजाचेष्टो रविरस्ताचलं ययौ ।
शिखिध्वजो वनमिव समस्तजनदुर्गमम्
34
Keep
संहृत्य विततं रूपं तमेवानुययौ प्रभा ।
नाथं भवननिष्क्रान्तं चूडालेवानुरागिणी
35
Keep
आययौ यामिनी श्यामा भुवनं भस्मधूसरम् ।
धृतव्योमापगं शर्वं संश्लेषा यमुनेव सा
36
Keep
दिक्षु संध्याब्ददन्तासु स्थितासु कृतमण्डलम् ।
तमालबालकाङ्कासु ज्योत्स्नाहासोदयाङ्कितम्
37
Keep
गच्छतोरपरं पारं दंपत्योर्मैरव पदम् ।
देवोद्यानमयं रन्तुं दिनश्रीदिननाथयोः
38
Keep
आगच्छतोरिदं पारं ह्यघतीक्ष्णकरोज्झितम् ।
निशानिशानायकयोर्दंपत्योर्मैरवं पुनः
39
Keep
तारागणोऽथ ददृशे विकीर्णो व्योमकुट्टिमे ।
मुक्तो मङ्गललाजानां दिग्वधूभिरिवाञ्जलिः
40
Keep
चन्द्रानना तमःश्यामा श्रान्ता कुसुमहासिनी ।
यामिनी यौवनं प्राप सरोजमुकुलस्तनी
41
Keep
कृतसंध्यासमाचारः सहचूडालयेष्टया ।
सुष्वाप शयने भूयो मैनाक इव सागरे
42
Keep
अथार्धरात्रसमये देशे निःशब्दतां गते ।
घननिद्राशिलाकोशनिलीने सकले जने
43
Keep
स तस्यां संप्रसुप्तायां शयने कोमलांशुके ।
भृशं निद्राविमूढायां भ्रमर्यामिव पङ्कजे
44
Keep
तत्याज दयितां सुप्तामङ्काद्राजा शिखिध्वजः ।
स्वैरं स्वैरं मुखं राहोर्दिशं चान्द्रप्रभामिव
45
Keep
उत्तस्थौ शयनाल्लीनवधूकार्धाञ्चलांशुकात् ।
सलक्ष्मीकान्तिलोलोर्मेर्हरिः क्षीरार्णवादिव
46
Keep
वीरक्रमार्थं यामीति तत्रैवानुचरव्रजम् ।
योजयित्वा जगामासौ पुरान्निर्गत्य पूर्णधीः
47
Keep
राज्यलक्ष्मि नमस्तुभ्यमित्युक्त्वा मण्डलाद्गतः ।
विवेशोग्रामरण्यानीमेको नद इवार्णवम्
48
Keep
घनान्धकारगुल्माढ्या क्षुद्रभूतौघकर्कशा ।
सारण्यानी निशा सार्धं समं तेनातिवाहिता
49
Keep
प्रातः शून्यामरण्यानीं स नीत्वा विततं दिनम् ।
सममर्केण कस्यांचिद्विशश्राम वनावनौ
50
Keep
भानावदृश्यतां याते तत्र स्नानादिपूर्वकम् ।
किंचित्फलादिकं भुक्त्वा तां निनाय तमस्विनीम्
51
Keep
पुनः प्रातः पुराण्युच्चैर्मण्डलानि गिरीन्नदीः ।
जवादुल्लङ्घयामास राजा द्वादशशर्वरीः
52
Keep
ततो मन्दरशैलस्य तटस्थं जनदुर्गमम् ।
प्राप काननमत्यन्तदूरस्थजनतापुरम्
53
Keep
रटत्प्रणालसलिलवापीवलितपादपम् ।
शीर्णवेद्यालयज्ञातभूतपूर्वद्विजाश्रमम्
54
Keep
क्षुद्रप्राणिविनिर्मुक्तसिद्धसेव्यलतालयम् ।
आपूर्णपादपलतं प्राणवृत्तिक्ररैः फलैः
55
Keep
तत्रैकस्मिन्समे शुद्धे स्थले सलिलमालिते ।
शीतले शाद्वलश्यामे स्निग्धे सफलपादपे
56
Keep
समञ्जरीभिर्वल्लीभिः स चकारोटजालयम् ।
प्रावृट्कालः सविद्युद्भिर्नीलाभ्रैरिव पञ्जरम्
57
Keep
मसृणं वैणवं दण्डं फलभोजनभाजनम् ।
अर्घपात्रं पुष्पभाण्डमक्षमालां कमण्डलुम्
58
Keep
कन्थां शीतापनोदाय बृसीं चैव मृगाजिनम् ।
आनीयायोजयत्तस्मिन्मठिकामन्दिरे नृप
59
Keep
यत्किंचिदन्यद्वा वस्तु योग्यं तापसकर्मणि ।
तत्तत्र स्थापयामास जगतीव क्रमं विधिः
60
Keep
संध्यापूर्वं जपं प्रातः प्रहरे स तदाकरोत् ।
पुष्पोच्चयं द्वितीये तु स्नानं देवार्चनं ततः
61
Keep
पश्चाद्वनफलं किंचिद्वनकन्दं विसादि च ।
भुक्त्वा जप्यपरो भूत्वा निनायैको निशां वशी
62
Keep
इति दिवसमखेदं मन्दरोपान्तकच्छे
विरचित उटजेऽन्तर्मालवेशो निनाय ।
नवनृपतिविलासं तं न सस्मार कं वा
स्फुरति हृदि विवेके राज्यलक्ष्म्यो हरन्ति
Previous
←
Sarga 83
Next
Sarga 85
→