Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 109
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
एतस्मिन्नन्तरे सर्वे मन्त्रिणो नृपमाययुः ।
मुनयो वासवमिव दैत्याक्रान्तनभोभुवम्
2
Keep
मन्त्रिण ऊचुः ।
देव निर्णीतमस्माभिर्यावन्न विषयोऽरयः ।
त्रयाणामप्युपायानां दण्डस्तेषु विधीयताम्
3
Keep
प्रणयोऽनुप्रवेशो वा न कदाचन यः कृतः ।
अधुना तेषु तं देव कुर्यात्तेषु कथैव का
4
Keep
पापा म्लेच्छा धनाढ्याश्च नानादेश्याः सुसंहताः ।
बहवो लब्धरन्ध्राश्च सामादेर्नास्पदं द्विषः
5
Keep
तत्सुसाहसमेवेदं वर्जयित्वा प्रतिक्रिया ।
नान्यास्ति शीघ्रमेवातो रणोद्योगो विधीयताम्
6
Keep
वीराणां दीयतामाज्ञा पूज्यन्तामिष्टदेवताः ।
आहूयन्तां च सामन्ता हन्यतां रणदुण्दुभिः
7
Keep
सन्नह्यन्तामशेषेण निर्गच्छन्तु रणे भटाः ।
क्रियन्तां कालकम्पाभ्रमेदुरा राजिता दिशः
8
Keep
आस्फाल्यन्तां धनूंष्युच्चैः क्वणन्तु गुणपङ्क्तयः ।
भवन्तु जलदश्यामाः ककुभः खण्डमण्डलैः
9
Keep
स्फुरज्ज्याविद्युतः शूरवारिदा घनगर्जिताः ।
नाराचधारा मुञ्चन्तु कचत्कोदण्डकुण्डलाः
10
Keep
राजोवाच ।
गम्यतां सङ्गरायाशु संविधानं विधीयताम् ।
स्नात्वाहं पूजयित्वाग्निं निर्गच्छामि रणाजिरम्
11
Keep
इत्युक्त्वा नृपतिः स्नातो महारम्भोऽपि स क्षणात् ।
प्रावृषीव नवोद्यानं गङ्गाजलधरैर्घटैः
12
Keep
अथ प्रविष्टोऽग्निगृहं पूजयित्वा हुताशनम् ।
आदरेण यथाशास्त्रं चिन्तयामास भूमिपः
13
Keep
नीतमायुरनायासविलासविभवश्रिया ।
प्रजाभ्यो दत्तमभयमासमुद्रसमुद्रितम्
14
Keep
आक्रान्तवसुधापीठाः पादपीठे कृता द्विषः ।
लताः फलभरेणेव नमिताः ककुभो दश
15
Keep
प्रजाचित्तेन्दुबिम्बेषु लिखितं धवलं यशः ।
भूमावारोपिता कीर्तिलता त्रिपथगामिनी
16
Keep
कोशवद्भरिता रत्नैः सुहृन्मित्रार्यबन्धवः ।
निपीतोऽर्णवतीरेषु नालिकेररसासवः
17
Keep
द्विषामाकम्पिता भेकगलाङ्गत्वगिवासवः ।
मच्छासनाङ्किता जाता द्वीपान्तरकुलाचलाः
18
Keep
विहृतं सिद्धसेनासु दिगन्तनवभूमिषु ।
भूम्यन्तभूभृतां मूर्ध्नि विश्रान्तं मेघलीलया
19
Keep
धियेवोच्चैःपदे ज्ञानपूर्णयैकान्तशीलया ।
विलब्धान्यविनष्टानि राष्ट्रानीष्टार्थकारिणा
20
Keep
रक्षांस्यप्यविनीतानि बद्धानि निगडैर्घनैः ।
धर्मार्थकामैरन्योन्यं चयापचयवर्जितैः
21
Keep
अखण्डितैर्मया नीतं पीतातियशसा वयः ।
इदानीं शष्पविश्रान्तप्रालेयभरभासुरम्
22
Keep
आगतं वार्धकं सर्वभोगसंरम्भमार्जनम् ।
तस्योपर्यरयो रौद्रा बलवन्तो रणैषिणः
23
Keep
संभूय सर्वतः प्राप्ताः संदिग्धो वर्तते जयः ।
तदिहैवानलायास्मै देवाय जयदायिने
24
Keep
मस्तकाहुतिमेवेमां समुद्यम्य ददामि वै ।
राजोवाच ।
कृशानो देव मूर्धाऽयं तुभ्यमाहुतितां गतः
25
Keep
मया पूर्वं पुरोडाश इव देवेश दीयते ।
यदि तुष्टोऽसि भगवंस्तदनेन कृतेन मे
26
Keep
चत्वारो भवतः कुण्डात्स्वदेहाः प्रोद्भवन्तु मे ।
बलवन्तः श्रिया दीप्ता नारायणभुजा इव
27
Keep
तैश्चतुर्दिक्कमेवारीन्वध्यामहमविघ्नतः ।
त्वया च दर्शनं देयं मह्यं मतिमते विभो
28
Keep
इत्युक्त्वा स महीपालः खङ्गमादाय चिच्छिदे ।
शिरः कमलमालोलं लीलयेवाशु बालकः
29
Keep
छिन्नमेष शिरो यावज्जुहोत्यसितवर्त्मने ।
तावच्छरीरेण सह पपाताग्नौ स पार्थिवः
30
Keep
भुक्त्वाथ वह्निस्तं देहं ददावस्मै चतुर्गुणम् ।
महतामुपयुक्तं हि सद्य एवाभिवर्धते
31
Keep
चतुर्मूर्तिरथोत्तस्थौ पावकाद्बसुधाधिपः ।
प्रज्वलंस्तेजसां पुञ्जैर्नारायण इवार्णवात्
32
Keep
ते देहास्तस्य चत्वारो विरेजुर्भास्वरत्विषः ।
सहजातोत्तमोत्तंसभूषणायुधवाससः
33
Keep
सकंकटशिरस्त्राणाः समौलिकटकाङ्गदाः ।
सहारकुण्डलाभोगाः सर्वाः सर्वे महाशयाः
34
Keep
सर्व एव समाकाराः सदृशावयवान्विताः ।
चञ्चलोच्चैःश्रवःप्रख्यं हयरत्नमवस्थिताः
35
Keep
ससुवर्णशरापूर्णतूणीराः सुमहाशयाः ।
समानगुणकोदण्डाः समानवपुषः शुभाः
36
Keep
समारोहन्ति ते यस्मिन्पुंसि नागे रथे हये ।
सर्वेषामरिदोषाणां नैव गम्यो भवत्यसौ
37
Keep
पीत्वा धृत्वा चिरं कालं गर्भे पुरुषतापिताः ।
वेद्यामिव हितास्तत्र सागरा वडवार्चिषा
38
Keep
रत्नाश्वदेहकुसुमोत्करपूर्णदेहा-
श्चत्वार इन्दुहसितैरवभासयन्तः ।
सन्मूर्तयो हरय एव यथाब्धयो वा
वेदा इवाहुतिहुतादनलात्प्रसस्रुः
Previous
←
Sarga 108
Next
Sarga 110
→