Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 110
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
पुरोपकण्ठसंप्राप्तैश्चतुर्दिक्कं सहारिभिः ।
एतस्मिन्नन्तरे तत्र प्रवृत्तं दारुणं रणम्
2
Keep
लुण्ठितग्रामनगरं प्रजाकुलमहाकुलम् ।
अग्निदाहज्वलद्देहं धूमाभ्रपटलावृतम्
3
Keep
शरजालमहाधूमच्छन्नार्कविलसत्तमः ।
क्षिप्रदृष्टरवि क्षिप्रमदृष्टरविमण्डलम्
4
Keep
अग्निदाहमहातापप्रतपत्पर्णकाननम् ।
लोलालातलताशलमुसलोपलपूर्णखम्
5
Keep
अनलप्रतिबिम्बौघैर्द्विगुणज्वलनायुधम् ।
रणभग्नमहाशूरप्राप्तेन्द्रवनितासुधम्
6
Keep
उद्दामवारणारावै रणलम्पटहर्षदम् ।
भुशुण्डीमण्डलप्रासशूलतोमरवर्षदम्
7
Keep
भटकोलाहलोल्लासहृद्भङ्गमृतपामरम् ।
रजःपटलशुभ्राभ्रकृतद्युपथवारणम्
8
Keep
मरणव्यग्रसामन्तमुक्तनादव्रजद्रजम् ।
इतश्चेतश्च निपतद्वैद्युतोपहतप्रजम्
9
Keep
अग्निदग्धपतद्गेहप्रोज्झिताग्निमयाम्बुदम् ।
मरणाह्लाददासंख्यशरधारामयाम्बुदम्
10
Keep
जितसागरकल्लोलं तुरङ्गमतरङ्गकैः ।
दन्तिदन्तविनिष्पेषतारक्रेंकारकर्कशम्
11
Keep
कोटकोटिकुटीकुड्यकण्टकोद्भटसद्भटम् ।
चठत्कुण्ठितकोटाट्टकृटाटननटच्छटम्
12
Keep
लुठत्पटनकुट्टाकसाटोपस्फुटपट्टिशम् ।
खे वटत्केतुपट्टाट्टपटत्पटपटारवम्
13
Keep
दन्तिदन्तगुणोद्गीर्णैर्हेतिपाषाणघर्षणैः ।
तारक्रेंकारहुंकारैराहूतसुरवारणम्
14
Keep
वहच्छरनदीपूरपूर्णाम्बरमहार्णवम् ।
विचलच्चक्रकुन्तासिधारामकरकर्कशम्
15
Keep
उन्नादयोधसंघट्टकंकटोत्कटटांकृतैः ।
लसज्झणझणारावैर्घटितद्वीपमण्डलम्
16
Keep
पादपातपरापिष्टशरसंजातकर्दमम् ।
वहद्रक्तनदीरंहःप्रोह्यमाणरथद्विपम्
17
Keep
सुपर्णहेलानिपतत्प्रोत्पतत्पट्टपट्टिशम् ।
शरवारितरङ्गार्तभग्नायुधजलेचरम्
18
Keep
हेतिसंघट्टनिष्क्रान्तज्वालाप्रज्वलिताम्बरम् ।
वलीपलितनिर्मुक्तशूराक्रान्तत्रिविष्टपम्
19
Keep
पाण्डुपांसुपयोवाहकचच्चक्राचिरद्युति ।
हेतिनिर्विवराकाशयुधानाधारभूतलम्
20
Keep
कटद्भटभटाटोपरटत्प्रतिभटोत्कटम् ।
चटच्छकटसंघट्टपिष्टकाष्ठलुठद्रथम्
21
Keep
कबन्धभटवेतालमिश्रकण्टकसंकटम् ।
वेतालभुज्यमानाग्र्यशवमांसहृदम्बुजम्
22
Keep
शूरशातितशीरार्धशिरःकरखुरोरुकम् ।
कबन्धदोर्द्रुमस्पन्दवनीकृतनभस्तलम्
23
Keep
तरल्लोलास्यवेतालहासघट्टितपेटकम् ।
कंकटोत्कटसाटोपभटभ्रुकुटिभीषणम्
24
Keep
एकान्तमारणैकान्तमरणैकान्तभूषणम् ।
प्रहारदानग्रहणकार्पण्यापारदूषणम्
25
Keep
शूरवारणसामन्तमदवारिविशोषणम् ।
मारणैकान्तरसिककृतान्तानन्दपोषणम्
26
Keep
अविकत्थनगुप्तानां शूराणां जयघोषणम् ।
अशूराणां च गुप्तानां प्रभावुद्धोषणं परम्
27
Keep
शौर्यादीनां प्रसुप्तानां स्वगुणानां प्रबोधनम् ।
धनमाधारभूतानां राष्ट्रेषु भुजशालिनाम्
28
Keep
दन्त्यारूढरथास्फोटप्रभग्नकटवारणम् ।
समस्तमत्तगन्धेभदानवारिनिवारणम्
29
Keep
सारसारवसामन्तमुक्तमत्तमतङ्गजम् ।
जरज्जितकरानीककल्पितासीकवेदनम्
30
Keep
दिनं दिनकरस्येव नृपस्य शरणं गतम् ।
अनागतभटव्रातपिष्टार्धमृतमानवम्
31
Keep
मानवायुबलोन्मत्तनतप्रारब्धकुट्टनम् ।
धनानां प्राणपण्यानां नवमापणपत्तनम्
32
Keep
पटनद्धपताकौघजातसंचारिदोर्द्रुमम् ।
रक्तोज्ज्वलत्वात्त्रैलोक्यलक्ष्म्या भूषणविद्रुमम्
33
Keep
मन्दराहननोद्भूतक्षीरोदजलसुन्दरैः ।
छत्रैश्छादितहेत्योघपुष्पाढ्यगगनाङ्गनम्
34
Keep
गणगीर्वाणगन्धर्वगीतशूराशयं कृतम् ।
तद्भातरलतालाग्रहेतिहालाहलायुधम्
35
Keep
संघप्रहरणासंख्ययातुधानाझणज्झणम् ।
भुक्त्वा चाद्रिगुहागेहपूरितापूर्वदुर्द्रुमम्
36
Keep
कचत्कुन्तवनव्यस्तशिरःकरवृताम्बरम् ।
क्षेपणोन्मुक्तपाषाणपूरप्लुतककुब्लतम्
37
Keep
महाचटचटाशब्दस्फुटद्रववृहद्द्रुमम् ।
नारीहलहलारावरणन्नगरमन्दिरम्
38
Keep
मन्दरावानलाकारनभोभातायुधव्रजम् ।
परित्यज्य धनं गेहं दूरोर्वीविद्रुतप्रजम्
39
Keep
सर्वतोहेतिवहनात्समक्षप्रेक्षकोज्झितम् ।
वर्जितं भीरुभिः पक्षिराजवृन्दमिवाहिभिः
40
Keep
दन्तिदन्तविनिष्पिष्टशिष्टसद्भटसंकटम् ।
कटे मृत्योरिव नरद्राक्षापीडनयन्त्रके
41
Keep
यन्त्रपाषाणसंघट्टपिष्टाम्बरगतायुधम् ।
योधनादनदद्दन्तिवृन्दबन्धुरकन्दरम्
42
Keep
धराधरदरीरन्तःप्रतिश्रुत्प्रोतगर्जितम् ।
अर्जितं प्राणसर्वस्वमर्जयद्भिरुपार्जितम्
43
Keep
भर्जितं हेतिदहनैरग्निदाहैश्च संततैः ।
तैरेवान्यैरथान्यैश्च द्वन्द्वयुद्धैरनिष्ठितम्
44
Keep
वेष्टितं मृतशिष्टैश्च सारैः सुभटपेटकैः ।
कैलासैरिव संशुद्धैरीश्वराधारतां गतैः
45
Keep
तैरुदारैः समाक्रान्तं ये मृत्योरपि मृत्यवः ।
मरणं जीवितं येषां जीवितं मरणं रणे
46
Keep
रणे नभसि निर्लूनवरवारणवारिजे ।
सारसाः सरसीवात्र रेजुरत्युद्भटा भटाः
47
Keep
यन्त्राश्मक्षेपणानां प्रसरणसरितां
घूकृतैः फूत्कृतैर्द्राक्
क्रान्तानां व्योम्नि मूर्ध्नां शरसलिलमुचां
सैनिकानां च नादैः ।
टांकारैरायुधानां नभसि विसरता-
मश्वचक्रेभशब्दै-
रासीन्निःसंधिबन्धोपलजठरजडं
जीर्णकर्णं गतं तत्
Previous
←
Sarga 109
Next
Sarga 111
→