Contents
Direct Inquiry
Home
Library
Find
Shelf
Settings
←
Leave
Bṛhat Yogavāsiṣṭha · Sarga 111
Bṛhat Yogavāsiṣṭha
›
Prakaraṇa 6 — Nirvāṇa (Uttarārdha)
Tap a verse for its meaning
IAST
Devanāgarī
Meaning
Continuous
Glance
1
Keep
इति कल्पान्तसदृशे यत्ते समरसंभ्रमे ।
पतन्तीषूत्पतन्तीषु सेनासु समरेजिरे
2
Keep
तूर्यभेरीमहाशङ्खखङ्गेषु खे नदत्सु च ।
धनुर्ध्वनिषु वीराणां तारक्रेंकारकारिषु
3
Keep
अन्योन्यकठिनास्फोटविकटे भटपेटके ।
कवत्कटकटाटोपे कटुकुट्टितकङ्कटे
4
Keep
किंचित्प्रभज्यमानासु विशत्कश्मासु संगरे ।
विपश्चित्पक्षसेनासु लूयमानलतास्विव
5
Keep
उदभूत्पूरयन्नाशा नृपनिर्याणदुन्दुभिः ।
चतुर्धाशनिसंपूर्णकल्पाभ्ररवमांसलः
6
Keep
स्फुटतां कुलशैलानां तुल्यकालमिवोत्कटः ।
स्फुटच्चटचटास्फोटैर्जडिताखिलदिक्तटः
7
Keep
लोकपालैरिवाकारैर्नारायणभुजैरिव ।
स चतुर्भिश्चतुर्दिक्कं निर्जगाम महीपतिः
8
Keep
चतुरङ्गेण महता सैन्येन परिवारितः ।
अट्टालवलयात्कृच्छ्रान्निर्गत्य नगराद्बहिः
9
Keep
ददर्शात्मबलं रिक्तं बलवद्रिपुमण्डलम् ।
गर्जन्तं च लयाकृत्या भीमं युद्धोद्धतार्णवम्
10
Keep
शरसीकरनीरन्ध्रं मकरव्यूहसंकुलम् ।
वारणव्यूहवलितं तरङ्गव्यूहविस्तृतम्
11
Keep
चक्रावर्तवहद्व्यूहकल्लोलकलितान्तरम् ।
चलद्रथशतावर्तं पताकालहरीगणम्
12
Keep
प्रस्फुरच्छत्रफेनाढ्यं हयहेषितफीत्कृतम् ।
समुल्लसद्धेतिजलं कचद्धाराकरं परम्
13
Keep
तरत्तरलमातङ्गतुरङ्गौघतरङ्गकम् ।
हेत्यम्भसि कचत्पापमुद्यद्गुलुगुलोदरम्
14
Keep
दरीदलनसंक्षुब्धमरुज्जनितघुंघुमम् ।
नतोन्नतकृताद्रीन्द्रमहास्पन्दशरीरकम्
15
Keep
मज्जन्मातङ्गतुरगहेलाहतमहीधरम् ।
अपारविचरत्पूरकल्लोलालमहाजलम्
16
Keep
अकालकल्पान्तदशासमुत्थानघनाकृतिम् ।
आक्रान्तरोदसीरन्ध्ररुधिरैकमहार्णवम्
17
Keep
कचदायुधखण्डौघडीनरत्नावृतोदरम् ।
चलद्व्यूहचलट्यस्तयन्त्राश्मक्षेपणाश्मकम्
18
Keep
रत्नसीकरनीहारसंध्याभ्रपटलानतम् ।
क्वचित्पांसुपयोवाहपीतहेतिपयोधरम्
19
Keep
तमालोक्य रणाम्भोधिमगस्त्योऽस्य भवाम्यहम् ।
इति संचिन्त्य मनसा स पातुं तं रणार्णवम्
20
Keep
अस्त्रं सस्मार वायव्यं चतुर्दिक्कं च संदधे ।
धनुषि शिखराधारे त्रिपुरान्त इवोद्यतः
21
Keep
आत्मीयदेशसैन्यानां श्रेयोर्थं शान्तयेऽनलम् ।
नमस्कृत्याथ जप्त्वाशु स तत्तत्याज दारुणम्
22
Keep
यथा तथैव तत्याज तस्य साहायकाय सः ।
पर्जन्यास्त्रं महास्त्रैशं द्विषदातपशान्तये
23
Keep
तस्मादस्त्रजुषो घोराद्धनुषः परिनिर्गताः ।
अष्टमूर्तेश्चतुर्दिक्कमाशाकुहरपूरकाः
24
Keep
निर्ययुर्बाणसरितस्त्रिशूलसरितस्तथा ।
शक्तीनामुग्रसरितो भुशुण्डीसरितस्तथा
25
Keep
मुद्गराणां च सरितः प्रासानां सरितो रयात् ।
चक्राणां चैव सरितः परश्वधनदीरयाः
26
Keep
तोमराणां च सरितो भिन्दिपालमहापगाः ।
पाषाणानां च सरितो वाताः कल्पान्तशंसिनः
27
Keep
अशनीनां च सरितो विद्युतां सरितस्तथा ।
जलधारासरित्पूराः खङ्गवर्षसमन्विताः
28
Keep
सनाराचा महावर्षहर्षलोत्पातपीवराः ।
नागाश्च युगपर्यन्तस्फुटिताद्रीन्द्रजा इव
29
Keep
तेनास्त्रवर्षवेगेन धुतः सोऽरिबलार्णवः ।
झटित्येव न कालेन पांसुराशिरिवाभितः
30
Keep
सलिलाशनिशस्त्राणामासारैश्चण्डमारुतैः ।
सरांसीव विसेतूनि सैन्यानि परिदुद्रुवुः
31
Keep
चतुरङ्गश्चतुर्दिक्कं बलौघः स पराङ्मुखः ।
ययौ प्रावृङ्गिरिणदीमहावाह इव द्रुतः
32
Keep
वहत्स्विन्नबृहच्छिन्नपताकाकेतुपादपः ।
मरीचिपुष्पशबलविलोलासिलतावनः
33
Keep
विलुठत्पुष्टपाषाणपृषद्रक्तद्रवावचः ।
घोरैर्घुरघुरारावैरलं हृदयभङ्गदः
34
Keep
उह्यमानवृहद्दन्तिदन्तद्रुमविघट्टनैः ।
स्फूर्जच्चटचटारावतर्जितोद्गर्जिताम्बुदः
35
Keep
हेतिवृत्तोग्रसंघट्टपुष्पजातझणज्झणः ।
तरत्तरलसारावतुरङ्गमतरङ्गकः
36
Keep
रथादिभटचक्रौघशिलाक्रेंकारपीवरः ।
पदातिरथहस्त्यश्वशिलासंघट्टसंकटः
37
Keep
कटुचंकारचीत्कारक्रेंकारपरिपीवरः ।
मृता मृता वयमिति घनकोलाहलाकुलः
38
Keep
सेनावारिमहावर्तचलद्गुलुगुलारवः ।
रक्तसीकरनीहारसंध्याम्बुदवितानकः
39
Keep
हेतिवीचिवटाच्छिन्नवारिवामनवारिदः ।
वर्षपङ्किलभूपीठतटखण्डनमण्डितः
40
Keep
कुन्तशूलगदाप्रासवहत्तालतलाद्भुतः ।
साक्रन्दभीरुजनताप्रतपन्मृगपोतकः
41
Keep
मृतहस्त्यश्वयोधौघजीर्णपर्णनिरन्तरः ।
पिष्टदेहवसामांसपङ्कसंजातकर्दमः
42
Keep
चूर्णीकृतखुरापिष्टमहास्थिघनसैकतः ।
उह्यमानशिलापूरकाष्ठकोटिकटङ्कटः
43
Keep
उद्गर्जत्प्रलयाम्भोदैर्वहत्प्रलयवायुभिः ।
प्रपतत्प्रलयासारैः प्रलयाशनिसंकटैः
44
Keep
पङ्किलाखिलभूपीठैः सलिलोपप्लुतस्थलैः ।
सितशैत्यवशाश्यानधाराकृतखपञ्जरैः
45
Keep
समग्रनगरग्रामगृहज्वलितवह्निभिः ।
प्रजाश्वेभपदातीनामाक्रन्देनापि घर्घरैः
46
Keep
रथाम्भोधरनिर्ह्रादैर्दिवि भूमौ घनारवैः ।
चतुर्दिक्कं घनं तारक्रेंकारस्य चतुष्टयैः
47
Keep
विद्युद्वलयविस्तारकारिसंघट्टघर्षणैः ।
शरशक्तिगदाप्रासभिन्दिपालादिवर्षणैः
48
Keep
सर्वदिक्कमसंख्यानि बलानि बलशालिनाम् ।
भूभृतां विद्रवन्त्याशु विनेशुर्मशकौघवत्
49
Keep
उद्दामपावकवनोपमहेतिसार्थ-
मेघानलाकुलजनाशनिवर्षपातैः ।
आसन्बलानि चपलाब्धिजलाबलानि
पर्याकुलानि वडवाग्निमिवाविशन्ति
Previous
←
Sarga 110
Next
Sarga 112
→